विपरीतनिश्चयो विपर्ययः
विपर्ययलक्षणम्
प्रमाणलक्षणटीका
विपरीतनिश्चयो विपर्ययः । यथा, शुक्तिकायामिदं रजतमिति । ज्ञानमित्यनुप्रमाणव्युदासः । अनुमानादेरपि स्वविषये केवलत्वान्नातिव्याप्तिः ।
प्रमाणलक्षणटीकाभावदीपः
।। विपरीतेति ।। सम्यङ्निश्वयव्युदासायैतत् । विपरीत-ज्ञानमित्यस्य संशयेऽतिव्याप्तेः निश्चय इत्युक्तिः । केवलप्रमाणलक्षणगत-यथार्थपदकृत्यमियता ग्रन्थेनोक्त्वा ज्ञानपदकृत्यमाह ।। ज्ञानमितीति ।।
ननुयथार्थलिङ्गज्ञाने यथार्थशब्दज्ञाने च लिङ्गिनि वाक्यार्थे अनुप्रमाणरूपे केवलप्रमाणलक्षणं विशिष्टमप्यतिव्याप्तं इत्यत आह ।। अनुमानादेरिति ।। लिङ्गज्ञानादेः स्वविषये लिङ्गे शाब्दे चेत्यर्थः
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
संशयादिव्युदास इत्यत्र आदिपदोक्तं विपर्ययं लक्षयति ।। विपरीतनिश्चय इति ।। विपरीतेति सम्यङ्निश्चयव्युदासः । निश्चय इति संशयरूपज्ञानस्येति विवेकः । शुक्तिकायां इदं रजतं इत्यादिरूपोयं विपर्ययः प्र्रत्यक्षानुमानागमाभासेभ्यो जायत इति विपर्यंयकारणं च द्रष्टव्यम् ।
एवं केवलप्रमाणलक्षणगतयथार्थपदस्य कृत्यमुक्त्वा ज्ञानपदस्य कृत्यमाह ।। ज्ञानमितीति ।। अनुप्रमाणेऽपि परम्परया यथावस्थितार्थज्ञेयविषयीकारित्व-रूपयाथार्थ्यसद्भावात् अतिव्याप्तिः स्यात् अतो ज्ञानग्रहणमित्यर्थः ।
नन्वथापिलिङ्गज्ञानवाक्यज्ञानरूपयोः अनुमानागमलक्षणानुप्रमाण-योरतिव्याप्तिः तयोरपि यथार्थज्ञानत्वात् इत्यतआह ।। अनुमानादेरपीति ।। स्वविषय इति ।। लिङ्गवाक्यरूपे स्वविषय इत्यर्थः । लिङ्गिवाक्यार्थापेक्षया अनुप्रमाणत्वेपीति शेषः ।
अयमाशयः । यथार्थत्वे सति ज्ञानत्वमेव न लक्षणम् येन लिङ्गज्ञाना-दावतिव्याप्तिः स्यात् । किं तु ? यद्विषयापेक्षया यथावस्थितार्थविषयीकारित्वरूपं याथार्थ्यं साक्षात्तद्विषयकज्ञानत्वमेव लक्षणत्वेन विवक्षितम् । एवं च लिङ्गज्ञानवाक्यज्ञानयोः लिङ्गिवाक्यार्थापेक्षया याथार्थ्यविवक्षायाम् तत्र साक्षात् तद्विषयकत्वांशाभावात् नातिव्याप्तिः । लिङ्गवाक्यरूपविषयापेक्षया याथार्थ्योपादाने तु तत्र साक्षात् तद्विषयकज्ञानत्वस्यापि सत्वेन लक्ष्यत्वात् न कुत्राप्यतिव्याप्तिरिति।
प्रमाणलक्षणटीकाविवरणम्
असाधारणधर्मविप्रतिपत्योरन्तर्भावप्रकारश्च पद्धत्युक्तप्रकारेण ज्ञातव्यः । केवलप्रमाणलक्षणगतयथार्थपदव्यावृत्तत्वेन प्रसक्तं विपर्ययं निरूपयितुं विपर्ययलक्षणमाह ।। विपरीतेति ।। यथार्थज्ञानव्यावृत्यै पूर्वभागः । घटादिव्यावृत्यै अपरभागः ।
एवं केवलप्रमाणलक्षणगतयथार्थपदकृत्यमुक्त्वा ज्ञानपदकृत्यमाह ।। ज्ञानमिति ।। अनुप्रमाणस्य ज्ञेयत्वोपाधिज्ञानसाधनतया यथावस्थितार्थज्ञेय-विषयीकारित्वेन तत्रातिव्याप्तिस्तत्परिहारार्थं ज्ञानपदम् । तथाच ज्ञेयत्वोपाधित्वेन ज्ञेयविषयीकारित्वाभावात् अनुप्रमाणव्युदास इत्यर्थः ।
नन्वेवं ज्ञानपदेनेन्द्रियंनिरासेपि अनुमानादेर्यथावस्थितज्ञेयविषयीकारि-ज्ञानत्वात्तत्रातिव्याप्तिः स्यादित्यत आह ।। अनुमानादेरिति ।। तथाच अनुमानादेः स्वविषयांशे यथावस्थितार्थविषयीकारित्वेऽपि तदंशे केवलत्वस्यापि विद्यमानत्वेन सत्यत्वादेव नातिव्याप्तिः । अनुमेयाद्यंशे च साक्षाज्ज्ञेयविषयीकारित्वस्यैवाभावेन नातिव्याप्तिरिति भावः ।