यथार्थज्ञानं केवलम् , अनवधारणज्ञानं संशयः

केवलप्रमाणलक्षणम् संशयनिरूपणम्

प्रमाणलक्षणटीका

प्राधान्याभिप्रायेण प्रथममुद्दिष्टं केवलं लक्षयति

प्रमाणलक्षणम्

यथार्थज्ञानं केवलम्

सञ्ज्ञानिरूक्त्यैव लक्षणसिद्धौ श्रृङ्गग्राहिकया तज्ज्ञापनार्थं पृथगारम्भः । यथार्थेति संशयादिव्युदासः ।

संशयनिरूपणम्

अनवधारणज्ञानं संशयः । स द्विविधः । अनिर्दिष्टकोटिको निर्दिष्टकोटिकश्चेति । तत्र कोटीनामतिबाहुल्यादनिर्दिष्टकोटि-रनध्यवसायापरनामा । यथा,‘किसञ्ज्ञकोयं वृक्षः’ इति। द्वितीयोऽपि समानानेककोटिरन्यतरकोटिप्रधानश्चेति द्वेधा । तत्राद्यो यथा, ‘किमयं ब्राह्मणस्तदितरोवा ,इति । ऊहापर-नामा द्वितीयो यथा, ‘प्रायेणायं ब्राह्मण’ इति ।

प्रमाणलक्षणटीकाभावदीपः

।। प्राधान्येति ।। साक्षात् ज्ञेयविषयकत्वेनेति भावः ।। सञ्ज्ञानिरुक्त्येति ।। प्रकृष्टं मानम्प्रमाणम् । प्रकृष्टत्वं च अर्थाव्यभिचारित्वम् । तथा केवलं, न त्वन्यजनकम् । अन्यत् अनुसृत्य प्रमाणं अनुप्रमाणं इत्यादि-रूपेणेत्यर्थः ।। शृृङ्गग्राहिकयेति ।। शृङ्गग्रहणेनेत्यर्थः । ‘ग्रह उपादाने’ इत्यतः ‘धात्वर्थनिर्देशे ण्वुल्वक्तव्यः’ इति ण्वुल्प्रत्ययस्य अकादेशे ग्राहिकेति रूपसिद्धेः। संशयादीत्यादियदेन विपर्ययग्रहः ।

तयोः स्वरूपं निर्धारयति ।। अनवधारणेत्यादिना इदं रजतमितीत्यन्तेन ।। निश्चयशब्दितावधारणभिन्नं ज्ञानमित्यर्थः । ज्ञानमिति घटादिव्युदासः । अनवधारणमिति निश्चायस्य । संशयभिन्नत्वेन प्रतीयमानानाम्संशय एवान्तर्भाव इति ज्ञापनाय तद्विभागमाह ।। स द्विविध इत्यादिना ।। समानेति ।। समाने अनिर्धारिते अनेके कोटी यस्य संशयस्य स तथा । संशयपदं सर्वत्रान्वेति ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

।। सञ्ज्ञानिरुक्त्यैवेति ।। साक्षात् परम्परयेत्युक्तरीत्येत्यर्थः ।। शृङ्गग्राहिकयेति ।। शृृङ्गग्राहिकान्यायेनेत्यर्थः ।। तज्ज्ञापनार्थमिति ।। साक्षात् यथावस्थितार्थविषयीकारित्वादिज्ञापनार्थमित्यर्थः । संशयादीत्यत्रादिपदेन विपर्ययप्रहणम् ।

ननु संशयविपर्ययतत्साधनानामेवाज्ञाने तत्रातिव्याप्तिज्ञानमपि न सम्भवति इत्यतः संशयलक्षणं तावदाह ।। अनवधारणज्ञानमिति ।। प्रमाव्युदासायाद्यं विशेषणम् । घटादिव्युदासाय द्वितीयम् । अत्र अवधारणत्वं नाम यद्यपि न तावदेककोटिव्यवच्छेदविषयकत्वे सति अपरकोटिविषयकत्वं वक्तुं युक्तम्, तद्भिन्नत्वस्य ‘अयं घटः’ इत्यादावपि सत्वेन अतिव्याप्त्यापत्तेः, नापि निश्वयत्वम् संशयभिन्नज्ञानत्वस्यैव निश्वयत्वेन अन्योन्याश्रयप्रसङ्गात्, तथापि एकाकारावगाहिज्ञानत्वं विवक्षितम् । तथा च तद्भिन्नत्वं अनवधारणत्वम् । तथा च अनेकाकारावगाहिज्ञानत्वं संशयत्वं इति पर्यवस्यति ।

 नन्विदमप्ययुक्तम् स्थाणुपुरुषौ इति समूहाऽलम्बने अतिव्याप्तेः । एकस्मिन् धर्मिणि इति विवक्षायामपि अयं वृक्ष: शिंशपा च इति निश्चये अतिव्याप्तेः । विरुद्धानेकाकारविवक्षायां च इदं रजतं इति विभ्र्रमे अतिव्याप्तेः । इति चेन्न । एकस्ंिमन् धर्मिणि भासमानविरुद्धानेकाकारावगाहिज्ञानत्वस्य विवक्षितत्वात् । इदं रजतं इत्यत्र इदन्त्वरजतत्वयोः विरोधभाने प्रवृत्तिरेव न स्यात् । अतो नोक्तदोष इति ध्येयम् ।

नन्वत्र ज्ञानपदं व्यर्थम् । न च घटादौ अतिव्याप्तिपरिहाराय सार्थकमिति वाच्यम् । नञिवयुक्तमन्यसदृशाधिकरणे’ नञा युक्तं इवयुक्तं च तदन्यस्मिन् तत्सदृहशे चास्तीत्यर्थः । यथा अनश्वः इत्युक्ते अश्वादन्यः अश्वसदृशः रासभ एव लभ्यते न घटादिः, चन्द्रमण्डलमिव इत्युक्ते चन्द्रमण्डलभिन्नं चन्द्रमण्डलसदृशं मुखं लभ्यते, तद्वत् इहापि अनवधारणं इत्युक्ते अवधारणभिन्नं अवधारणसदृशमेव लभ्यते । तथा च घटादौ अवधारणसादृश्याभावेन अतिव्याप्त्यभावात् ज्ञानपदं व्यर्थमेव इति चेत् । सत्यम् । अवधारणसादृश्यं ज्ञानत्वेनैव विवक्षितमिति ज्ञानग्रहणम् । अन्यथा घटाऽदावपि वस्तुत्वादिना अवधारणसादृश्यस्य सद्भावात् पुनरतिव्याप्तिः स्यात् इति ध्येयमिति प्रतिभाति ।

प्रमाणलक्षणटीकाविवरणम्

यथार्थमिति पृथक्लक्षणन्तरारंभो व्यर्थ इत्यत आह ।। सञ्ज्ञेति ।। यथार्थज्ञानं केवलमिति केवलप्रमाणलक्षणगतयथार्थपदव्यावर्त्यत्वेन प्रसक्तं संशयं निरूपयितुं संशयलक्षणमाह ।। अनवधारणमिति ।। ज्ञानमात्रं यथार्थज्ञाने गतमत उक्तं ।। अनवधारणमिति ।। तावन्मात्रं घटादिसाधारणमत उत्तरभागः।अनवधारणत्वं च अवधारणशून्यत्वम् । तेन व्याप्यवृत्तेरन्योन्याभावस्य अलक्षणार्थत्वादेकस्यापि ज्ञानस्यांशभेदेन संशयत्वनिश्चयत्वं विरोधः । तथाऽनवधारणपदेनैवावधारणमिलतत्सदृशलाभात् असदृशघटादेस्तेनैव व्यावृत्तिसिर्द्धेज्ञानपदमनर्थकमिति कुचोद्यमपि निरस्तमिति ध्येयम् ।

ननु यथार्थपदेन संशयविपर्ययनिरास इत्युक्तमयुक्तम् । अयथार्थज्ञाना-न्तरस्यापि विद्यमानत्वादिति केचिन्मन्यन्ते तदयुक्तम् । तस्यापि संशयत्वादित्य-भिप्रायेण संशयभिागमाह ।। स द्विविध इति ।। अनिर्दिष्टकोटिरिति । सञ्ज्ञ•निरुक्त्यैव लक्षणस्य सिद्धत्वात् । तत्र कोटिनिर्देशाभावे निमित्तं वदन्नेव तदपरनामाप्याह ।। ऊहेति ।।