न चानुभूतिरेव प्रमाणम् स्मृत्यादाव्याप्तेः

प्राभाकराभिमतप्रमाणसामान्यलक्षणनिरासः

प्रमाणलक्षणटीका

प्राभाकराणां लक्षणं दूषयति ।

प्रमाणलक्षणम्

न चानुभूतिरेव प्रमाणम्

स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिः । स्मृतिश्च संस्कारमात्रजं ज्ञानम् । न च अयथार्थानुभवे अतिव्याप्तिः । ‘‘प्रमाणं स्मृतिश्च नः प्रत्ययः’’ इत्यङ्गीकृतत्वेन तत्स्वरूपस्यैवानभ्युपगमात् । व्यवहारस्तु ग्रहणस्मरणयोरेव ग्रहणयोरेव वा स्वरूपतो विषयतश्च विवेकाग्रहमात्रेण भवतीति । एतदपि लक्षणमयुक्तम्। कुतः ? इत्यत आह

 स्मृत्यादाव्याप्तेः

 आदिपदेन वेदाद्यनुप्रमाणसंग्रहः ।

प्रमाणलक्षणटीकाभावदीपः

।। प्रमाणमिति ।। प्रतितिरूप एव सर्वोप्यनुभव इति प्रमाणपदेन अनुभवग्रहः । नः अस्माकं प्रत्याज्ञानं ।। तत्स्वरूपस्यैवेति ।। भ्रमस्वरूपस्यैवेत्यर्थः।

।। व्यवहारस्त्विति ।। अयं भ्रान्तः, भ्रमोऽयम् इत्यादिव्यवहार इत्यर्थः ।। ग्रहणस्मरणयोरिति ।। स्मर्यमाणारोपस्थले इदम् इति ग्रहणं, रजतम् इति स्मरणमिति ज्ञानद्व्यम् । न त्वेकं ज्ञानम् । तत्र द्वयोर्ग्रहणस्मरणयोः स्वरूपतः तद्विषययोः शुक्तिरजतयोश्च विवेकशब्दितभेदाग्रहमात्रेण । न गृह्यमाणारोपस्थले च इदम् इत्यपि ग्रहणं रजतम् इत्यपि ग्रहणमेव । तयोः स्वरूपतो विषयतश्च विवेकाग्रहणमात्रेण । न तु विशिष्टैकज्ञानरूपभ्रमेणेत्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

।। संस्कारमात्रजमिति ।। संस्कारसहकृतचक्षुर्जन्ये प्रत्यभिज्ञाप्रत्यक्षे अतिव्याप्तिवारणाय मात्रपदमिति ज्ञातव्यम् ।। तत्स्वरूपस्यैवेति ।। यथार्थज्ञानस्वरूपस्यैवेत्यर्थः । तत्र ज्ञापककथनायोक्तं प्रमाणं स्मृतिश्चेति । प्रमाणशब्देन यथार्थानुभव उच्यते । तथा च प्रमाणं यथार्थानुभावः स्मृतिश्चेति नः अस्मन्मते ज्ञानापरपर्यायः प्रत्ययो द्विविध इति तदीयवचनार्थः ।

ननु तर्हि अयथार्थानुभवाभावे ‘इदं रजतम्’ इत्याद्यभेदव्यवहारस्य  इदन्त्वरजतत्वयोः सामनाधिकरण्यव्यवहारस्य च का गतिः? इत्यत आह ।। व्यवहारस्त्विति ।। ग्रहणस्मरणयोरेवेति ।। इदमत्राकूतम् , रजतम् इदम् इति द्वे विज्ञाने स्मृत्यनुभवरूपे । तत्र इदम् इति पुरोवर्त्तिद्रव्यमात्रग्रहणम् । दोषवशात् तद्गतस्य  शुक्तित्वसामान्यविशेषस्य अग्रहणात् । तन्मात्रं च  गृहीतं सदृशतया संस्कारोद्बोेधक्रमेण रजतस्मृतिं जनयति । सा च गृहीतग्रहणस्वभावापि दोषवशात् गृहीततत्तांशप्रमोषेण गृहीतिसरूपा अवतिष्ठते । तथा च रजतस्मृतेः पुरोवर्तिरग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहणात् सन्निहितरजतज्ञानसारूप्येण इदम् रजतम् इति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवर्तयत इति ।

।। ग्रहणयोरेवेति ।। अयं भावः, नायमस्ति नियमो ग्रहणस्मरणे एव अगृहीतविवेके व्यवहारप्रवर्तके इति ।किं तु ? क्वचित् ग्रहणे एव मिथः अगृहीतभेदे । यथा ‘पीतः शङ्खः’ इति । अत्र हि विनिर्यन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य पीतत्वं दोषवशात् द्रव्यरहितं गृह्यते । शङ्खोऽपि गुणहीनः स्वरूपमात्रेण गृह्यते । तत् अनयोः गुणगुणिनोः इतरेतरसापेक्षयोः असंसर्गाग्रहात् सारूप्यात् पीतचिरबिल्व-फलप्रत्ययाविशेषेण अभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च भवत इति ।

।। विवेकाग्रहमात्रेणेति ।। भेदाग्रहरूपसारूप्यमात्रेणेत्यर्थः । असंसर्गाग्रहस्यापि उपलक्षणमेतत् । सत्यरजतस्थले इदं रजतम् इति ज्ञाने भेदस्य अभावादेव अविद्यमानस्य भेदस्य अग्रहोऽस्ति । प्रकृतेऽपि इदं रजतम् इति ज्ञाने विद्यमानस्यैव भेदस्य अग्रहोऽस्ति । अन्यथा भेदग्रहे  प्रवृत्तेरेवाभावापत्तेः । अतो भेदाग्रह उभयत्र समान । किञ्च विपर्ययमङ्गीकुर्वाणेनापि विवेकाग्रहः स्वीकर्तव्य एव । न हि विवेकग्रहे विपर्ययावकाशो विरोधात् । अन्यथा विपर्ययनिवृत्त्यनुपपत्तेः। तथा च तत एव सर्वस्यापि व्यवहारस्योपपत्तौ किं विपर्ययकल्पनया ? इति भावः।

वेेदादीत्यादिपदेन युक्तिप्रत्यक्षयोः संग्रहः । तथा च स्मृतौ स्मृतिव्यतिरिक्त-ज्ञानत्वाभावात् ज्ञानसाधनेषु वेदाद्यनुप्रमाणेषु स्मृतिव्यतिरिक्तज्ञानत्वा-भावादव्याप्तिरित्याशयः ।

प्रमाणलक्षणटीकाविवरणम्

ननु स्मृत्यादावित्यत्रादिशब्दः किं संकुचित वृत्तिः उतासंकुचितवृत्तिः । आद्ये वेदमात्रग्रहणोपपत्तेः । द्वितीये घटादिग्रहणापत्तेरिति चेन्न । आद्यस्यैवांगी-कारात् । न चैवं उक्तदोषः । अनुप्रमाणत्वस्यावच्छेदकत्वेन तदवच्छिन्नस्यादिपदेन ग्रहणोपपत्तेरित्याह ।। आदिपदेनेति ।।