अतिप्रसङ्गाभावात् अतिप्रसङ्गेन हि दोषत्वादोषत्वे कल्प्ये
अतिप्रसङ्गस्यैव दोषत्वात्त्दिव्यवस्थापकत्वम्
प्रमाणलक्षणटीका
कुतो न दूषणमित्याह
प्रमाणलक्षणम्
अतिप्रसङ्गाभावात्
आश्रयासिद्ध्यादीनामदूषणत्वाङ्गीकारे अनिष्टप्रसङ्गाभावात् न दूषणम् । अतिप्र्रसङ्गाभावेऽपि कथमदूषणम् ? इत्याह
अतिप्रसङ्गेन हि दोषत्वादोषत्वे कल्प्ये
यस्य दोषत्वानङ्गीकारे अनिष्टप्रसङ्गः तस्य दोषत्वम् । यथा स्वरूपासिद्धेः अदोषत्वे हृदादेरग्निमत्वप्रसङ्गेन दोषत्वम्। यस्य च अदोषत्वानङ्गीकारे अनिष्टप्रसङ्गः तस्य अदोषत्वम् । यथा व्याप्तेः अदोषत्वानङ्गीकारे साध्यासिद्धिप्रसङ्गेन अदोषत्वम् एवं दोषत्वादेरतिप्रसङ्गाधीनत्वात् अत्र च तदभावात् न दोषत्वम् । अत्र अदोषत्वोक्तिः दृष्टान्ततया उपयुज्यते । अतिप्रसङ्गशब्देन भावाभावावुपलक्ष्य अन्वयव्यतिरेकोक्तिर्वा।
प्रमाणलक्षणटीकाभावदीपः
।। दर्शित इति ।। हेत्वाभासोक्तिप्रस्तावे ‘प्रधानं नित्यं अकार्यत्वात्’ ‘शब्दोऽनित्यः घटस्य कृतकत्वात्’ इति दर्शिते इत्यर्थः । साध्यासिद्धिं दर्शयति ।। तत इति ।। अनुमितेः प्रागित्यर्थः ।।। दृष्टान्ततयोपयुज्यत इति ।। दोषत्वोपपादनस्यैव प्रकृतत्वादिति भावः ।। भावाभावाविति ।। अतिप्रसङ्गानति प्रसङ्गाभ्यां दोषादोषत्वे कल्प्ये इति वाक्यविन्यासं कृत्वा अतिप्रसङ्गे नहि दोषत्वं कल्प्यम् यथा असिद्धेः इत्यन्वयोक्तिः । तदभावे दोषत्वाभावः यथा व्याप्तेः इति व्यतिरेकोक्तिरित्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
।। दर्शित इति ।। ‘प्रधानं नित्यं अकार्यत्वात्’ इत्याश्रयासिद्धिः ‘शब्दोऽनित्यो घटस्य कृतकत्वात्’ इति व्यधिकरणासिध्दश्च दर्शिते इत्यर्थः ।। ततः प्रागिति ।। अनुमानात् प्रागित्यर्थः ।
।। प्रसङ्गेनेति ।। धूमवत्वेन हेतुनेति शेषः ।। अत्र चेति ।। आश्रयासिद्ध्या-दीनामदोषत्वाङ्गीकारे च तदभावात् अनिष्टप्रसङ्गाभावादित्यर्थः। ननु यस्य दोषत्वानङ्गीकारे अनिष्टप्रसङ्गः तस्य दोषत्वं कल्प्यं । प्रकृते च आश्रया-सिद्ध्यादीनां दोषत्वानङ्गीकारे अनिष्टप्रसङ्गाभावात् न दोषत्वम् इत्येव प्रकृतसङ्गतं। अतः अतिप्रसङ्गेन हि दोषत्वं कल्प्यम् इत्येव वक्तव्यम् । अदोषत्वमप्यतिप्रसङ्गेन कल्प्यम् इतिवचनं तु प्रकृतासङ्गतम् इत्यत आह ।। अत्रादोषत्वोक्तिरिति ।। यस्य अदोषत्वानङ्गीकारे अतिप्रसङ्गः तस्य अदोषत्वमिति यथा अदोषत्वकल्पनं अतिप्रसङ्गाधीनं एवं दोषत्वमपि तदनङ्गीकारे अतिप्रसङ्गेनैव कल्प्यम् इत्येवमतिप्रसङ्गेन दोषत्वकल्पने दृष्टान्ततया अदोषत्वोक्तिरुपयुज्यत इत्यर्थः । एवं मूलपदस्वारस्यम् अङ्गीकृत्य दोषत्वादोषत्वयो रुभयोरपि अतिप्रसङ्गाधीनत्वं अङ्गीकृत्य अदोषत्वोक्तिः दृष्टान्ततया उपयुज्यत इति व्याख्याय प्रकारान्तरेणापि व्याचष्टे ।। अतिप्रसङ्गशब्देनेति ।। भावाभावावुपलक्ष्येति ।। तथा च , अतिप्रसङ्गेन अतिप्रसङ्गसद्भावासद्भावाभ्यामिति यावत् । दोषत्वादोषत्वे कल्प्ये इति मूलार्थो द्रष्टव्यः । तथा च यस्य दोषत्वानङ्गीकारे अतिप्रसङ्गसद्भावः तस्य दोषत्वं, यस्य च अदोषत्वाङ्गीकारे अतिप्रसङ्गाभावः तस्य अदोषत्वं इत्येवमन्वयव्यतिरेकाभ्यां दोषत्वादोषत्वयोः अतिप्रसङ्गसद्भावासद्भावाधीनत्वात् प्रकृते च आश्रयासिद्ध्या-दीनां दूषणत्वाङ्गीकारे अति प्रसङ्गाभावात् न तेषां दूषणत्वमिति भावः ।
प्रमाणलक्षणटीकाविवरणम्
द्वितीयस्य प्रसंगस्यानिष्टत्वमुपपादयति ।। दृश्यत्वादीति ।। निर्दोषायाः सदोषत्वस्य व्याहतत्वात् । व्याख्याति ।। निर्दोषत्वेनेति ।। कुत इत्यत अह ।। अभावाभाव इति ।। यद्यप्यत्राभावाभावो भाव एवास्तु स च भावव्याप्तो भवत्येवेति ।। दर्शितेति । प्रधानं नित्यं अकार्यत्वादित्याश्रयासिद्धिः । शब्दो नित्यः घटस्य कृतकत्वादिति व्यधिकरणासिद्धिश्च दर्शिता इति भावः । ततः प्रागिति अनुमानात्प्रागित्यर्थः । अप्रसिद्धिरित्यतः पूर्वं विशेषत इति शेषः । सामान्यतः सिद्धेस्तत्रापि सत्वादिति हृदयम् ।
।। भावाभावाविति ।। तथा चातिप्रसंगेन अतिप्रसङ्गसद्भावाभ्यामिति यावत्। दोषत्वकल्प्ये इति मूलार्थो द्रष्टव्यः । तथा च यस्य दोषत्वानङ्गीकारेऽ-तिप्रसंगसद्भावस्तस्य दोषत्वं यस्य चादोषत्वांगीकारेऽतिप्रसंगाभावस्तस्या दोषत्वमित्येवमन्वयव्यतिरेकाभ्यां दोषत्वादोषत्वयोः अतिप्रसंगसद्भावाधीनत्वात् प्रकृते चाश्रयासिद्ध्यादीनामदूषणत्वांगीकारेऽतिप्रसंगाभावान्न तेषां दूषणत्वमिति भावः।