प्रमाणबाधितविषयः कालात्ययापदिष्टः
कालत्ययापदिष्टः
प्रमाणलक्षणटीका
प्रमाणबाधितविषयः कालात्ययापदिष्टः । सोऽप्यनेक-विधः।
तत्र प्रत्यक्षबाधितो यथा ‘अग्निरनुष्णः पदार्थत्वात्’ इति ।
प्रत्यक्षबाधितैकदेशो यथा ‘जलानलौशी पदार्थत्वात्’ इति।
अनुमानबाधितो यथा ‘देवदत्तश्चक्षूरहितः पुरुषत्वात्’ इति।
अनुमानबाधितैकदेशो यथा ‘देवदत्तश्चक्षुर्विषाणरहितः पुरुषत्वात्’ इति ।
आगमबाधितो यथा ‘सुरा ब्राह्मणेन पेया द्रवद्रव्यत्वात् इति।
आगमबाधितैकदेशो यथा ‘सुरासोमौ ब्राह्मणेन पेयौ द्रवद्रव्यत्वात्’ इति ।। २२५ ।।
प्रमाणलक्षणटीकाभावदीपः
।। चक्षूरहित इति ।। चक्षुष्मत्त्वस्य रूपादिज्ञानरूपकार्यलिङ्गानुमानसिद्धत्वात् इति भावः ।। ब्राह्मणेन पेयेति ।। ‘न सुरां पिबेत्’ इत्यागमेन तन्निषेधात्’ इति भावः ।। २२५ ।।
(श्री. टि)अथ कालात्ययापदिष्टंं लक्षयति ।। प्रमाणबाधितविषय इति ।। प्रमाणबाधितसाध्यक इत्यर्थः ।। अनुमानबाधित इति ।। विमतश्चक्षुष्मान् रूपज्ञत्वात्’इत्यनुमानबाधित इत्यर्थः ।। आगमबाधित इति ।। ‘न सुरां पिबेत्’ इत्याद्यागमबाधित इत्यर्थः ।। २२५ ।।
प्रमाणलक्षणटीकाविवरणम्
कालातीतस्य लक्षणमाह ।। प्रमाणेति ।। विषयः साध्यलक्षणः ।। अनुमानवाधित इति ।। विमतश्चक्षुष्मान् रूपजत्वादित्यनुमानबाधितः ।
।। आगमेति ।। न सुरां पिबेदित्यागमबाधित इत्यर्थः । त्रिरूपत्वं पक्षधर्मत्वं सपक्षे सत्वं विपक्षाव्द्यावृत्तिरिति रूपत्रयोपेत इत्यर्थः ।। २२५ ।।