संभवपरिशेषावनुमा

सम्भवपरिशेषयोरनुमानेऽन्तर्भावः

प्रमाणलक्षणटीका

सम्भवपरिशेषावपि पृथक्प्रमाणे विद्येते । अतः कथं त्रित्वम् ? इत्यत आह

प्रमाणलक्षणम्

संभवपरिशेषावनुमा

अल्पप्रमासाधनं बहुलज्ञानं सम्भवः । यथा ‘शतमस्य अस्ति’ इति ज्ञाने पंचाशज्ज्ञानम् । प्रसक्तव्यावृत्तिप्रतीतिः परिशिष्यमाणप्रमासाधनं परिशेषः । स द्विविधः । विधिमुखो निषेधमुखश्च ।

तत्राऽद्यो यथा ‘चैत्रमैत्रयोरयं चैत्नः’ इत्युक्तेऽन्यस्मिन् मैत्रप्रमा । द्वितीयो यथा ‘नायं चैत्र’ इत्युक्ते तस्मिन् मैत्रप्रमा इति।

सम्भवपरिशेषयोरनुमानेऽन्तर्भावः । ‘विप्रतिपन्नः पंचाशद्वान् शतवत्वात् संप्रतिपन्नवत्, विमतो मैत्रः चैत्रमैत्रयोरन्यतरत्वे सत्यचैत्रत्वात् व्यतिरेकेण चैत्रवत्’ इति प्रयोगसम्भवात् । तस्मादुपपन्न्• प्रमाणानां त्रित्वमिति । वादिविवादभावाभावज्ञापनार्थोऽयं विभागः ।

प्रमाणलक्षणटीकाभावदीपः

अचैत्रत्वमात्रस्य देवदत्ताऽदावव्यभिचाराय चैत्रमैत्रयो-रन्यतरत्वे सतीति । चैत्रे व्यभिचारवारणाय विशेष्यम् ।

ननु ‘अर्थापत्त्युपमासम्भवपरिशेषा अनुमाविशेषाः’ इति वाच्ये वाक्यभेदः किंनिमित्तः ?  इत्यत आह ।। वादिविवादेति ।। अर्थाऽपत्त्युपमयोरनुमानत्वेऽस्ति  भाट्टतार्किकयोर्विप्रतिपत्तिः ,  अत्र तु न तथा वादिनां  विवाद इति ज्ञापनाय योगविभागो वाक्यभेद इत्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

।।चैत्रमेत्रयोरन्यतरत्वे सतीति ।। घटे व्यभिचारवारणाय सत्यन्तम् । चैत्रे तद्वारणाय विशेष्यभाग इति ज्ञेयम् । दृष्टान्तीभृते चैत्रे विशेष्याभावप्रयुक्तविशिष्टाभावमादाय  हेत्वभाव उपपादनीयः । 

ननु ‘अभावसम्भवपरिशेषा अनुमा’ इति एकवाक्येन विभागमनुक्त्वा सम्भवपरिशेषयोर्वाक्यभेदेनानुमानान्तर्भावोक्तौ किं निमित्तम् ? इत्यत आह ।। वादीति ।। विभागो योगविभागः । अभावस्यानुमानान्तर्भावोक्तौ वादिनां  विवादोऽस्ति । कैश्चित् पृथक्प्रामाण्यमपरैः प्रत्यक्षान्तर्भावस्य चाङ्गीकृतत्वात् । सम्भवपरिशेषयोश्चानुमानान्तर्भावस्य सर्वसंमतत्वेनात्र वादिविवादो नास्तीति ज्ञापनार्थोऽयं योगविभाग इत्यर्थः । पौराणिकानामवादित्वात् इति हृदयम् ।

प्रमाणलक्षणटीकाविवरणम्

।। चैत्रमैत्रयोरिति ।। अचैत्रत्वमात्रस्य घटे सत्वेऽपि मैत्रत्वाभावेन व्यभिचारः स्यात् तत्परिहारार्थं पूर्वभागः । चैत्रे व्यभिचारपरिहारायोत्तरभागः।

नन्वेवं संभवपरिशेषयोरप्यनुमानांतर्भावे अर्थापत्त्युपमासंभवपरिशेषा अनुमाविशेषा इत्येकेनैव वाक्येन तेषामंतर्भावस्य प्रतिपादयितुं शक्यत्वाद् योेगविभागः किमर्थं कृत इत्यत आह ।। वादीति ।।