ततोऽर्वाक् क्रमेण ह्रसितम्

तात्विकातात्विकयोगिज्ञानलक्षणम्

प्रमाणलक्षणटीका

तात्विकातात्विकयोगिज्ञानलक्षणं युगपदाह

प्रमाणलक्षणम्

ततोऽर्वाक् क्रमेण ह्रसितम्

ऋजुभ्योऽन्येषां योगिनां ज्ञानं ईशात् अन्यत्र क्रमेण किञ्चिन्मात्रह्रासयुक्तं भवति । नेदं लक्षणं युक्तम् अन्योन्यमृजुज्ञानाच्च अव्यावृत्तेः । इत्यत आह

सादि च तात्विकेभ्योऽन्यत्र

नैतावदेव लक्षणम् । किं तु ? तात्विकयोगिज्ञानमनादि अतात्विकयोगिज्ञानं सादीत्यपि गृह्यते । एतेन अनादित्वे सति ईशात् अन्यत्र आलोचनेपि ह्रसितं तात्विकयोगिज्ञानम्, सादित्वे सति ईशात् अन्यत्र किंचिन्मात्रह्रासयुक्तमतात्विक-योगिज्ञानमित्युभयोर्लक्षणं सूचितं भवति । तत्राद्येनादित्वेन अतात्विकयोगिज्ञाननिवृत्तिः । ईशादन्यत्रेति ईशविषये अनादित्वे सत्यालोचनेऽपि ह्रसितलक्ष्म्यादिज्ञाननिरासः । ऋजुज्ञाननिरासार्थमालोचनेपीति । ह्रसितमित्यनेनैव ईशज्ञान-व्युदासः । द्वितीये सह्रादित्वग्रहणमृजुतात्विकज्ञाननिवृत्त्यर्थम्। किञ्चिन्मात्रहासयुक्तमि त्ययोगिज्ञाननिरासः । ईशादन्यत्रेति तत्सम्भवार्थम् । ह्रसितत्वादिग्रहणेनैवेशादिज्ञानेऽप्रसंगः ।