अभावोऽनुमा प्रत्यक्षं च

अनुपलब्धेः प्रत्यक्षाऽद्यन्तर्भावः

प्रमाणलक्षणटीका

तथाऽपि अभावाख्यं पृथक्प्रमाणमस्तीत्यत आह

प्रमाणलक्षणम्

अभावोऽनुमा प्रत्यक्षं च

अभावविषयं प्रमाणमभावः । तत् त्रिविधम् ।

प्रत्यक्षार्थप्रतियोगिकाभावविषयं प्रमाणं यथा ‘नास्त्यत्र घट’ इति । आनुमानिकार्थप्रतियोगिकाभावविषयं प्रमाणं यथा, रूपज्ञानरहितस्य ‘नास्ति चक्षुः’इति । आगमिकार्थप्रति-योगिकाभावविषयं प्रमाणं यथा ‘वैधहिंसा न पापसाधनम्’ इति । तत्र प्रथमं प्रत्यक्षानुमानयोरन्तर्भवति । द्वितीयमनुमाने । विमतः चक्षूरहितः रूपाज्ञत्वात् घटवदिति प्रयोगसंभवात् । तृतीयमागमे । अतो युक्तो विभाग इति ।

अत्राभावद्वयस्यान्तर्भावानुक्तिस्तत्र वादिनामविवादात् । उभयत्रान्तर्भावात् योगविभागः । प्रायेणानुमानेऽन्तर्भाव-ज्ञापनाय क्रमोल्लंघनम् । कथमेकप्रमाणस्योभयत्रान्तर्भाव इत्यत आह –

परामर्शापरामर्शविशेषात्

यदा ‘‘अत्र घटोऽस्ति न वा’’ इति परामर्शपूर्वकं योग्यानुपलब्धिरूपं घटाभावप्रमाणं प्रवर्तते तदाऽनुमाने । ‘घटोऽत्र नास्ति योग्यत्वे सत्यनुपलभ्यमानत्वात्  गजवत्’ इति प्रयोगसंभवात् । यदा पुनरेवमपरामृश्य झडिति ‘‘नास्ति घटः’’ इति प्रवर्तते तदा प्रत्यक्ष इति न विरोधः । अयं च बहिरेव विभागो न तु सुखाऽद्यभावप्रमाणे । साक्षिणः सुखाऽदिस्वरूपे निश्चयरूपत्वेन परामर्शाभावात् । 

प्रमाणलक्षणटीकाभावदीपः

।। अभावेति ।। घटपटाऽद्यभावविषयकप्रमितिजनकम्  अभावपदेनात्रोच्यत इत्यर्थ: ।। नास्ति चक्षुरितीति ।। ‘‘रूपज्ञानं करणसाध्यं क्रियात्वात् छिदिक्रियावत्’’ इति सामान्यपरिशेषानुमानगम्यं चक्षुरिति भावः ।। वैधहिंसेति ।। ‘अग्नीषोमीयं पशुमालभेत’ इत्यादिविध्यावगतपशुहिंसायाः आगमैकवेद्यत्वात् इति वा, पापसाधनत्वाऽदेरागमैकवेद्यत्वात् इति वा, तदभावः  आगमैकवेद्यप्रतियोगिकाभाव इत्यर्थः ।। चक्षूरहित इति ।। ‘रो रि’ इति लोपे ‘ढ््रलोपे पूर्वस्य दीर्घोऽणः’ इति दीर्घः । चक्षुर्हीन इत्यर्थः ।। तृतीयमागम इति ।। ‘आलभेत’ इत्यस्य  तु पापसाधनं न, प्रत्युत इष्टसाधनम् इत्यर्थकत्वात् इति भावः ।। अत्राभावद्वयस्येति ।। आनुमानिकप्रतियोगिकाऽगमिकप्रतियोगिकाभाव-द्वयस्येत्यर्थः ।

ननु ‘अर्थापत्त्युपमाऽभावा अनुमाविशेषः’  इति एकवाक्येनैव कस्मान्नोक्तम् ? कुतो वाक्यभेदेन अन्तर्भावोक्तिः? इत्यत आह ।। उभयत्रेति ।। प्रत्यक्षयोग्यप्रतियोगिकाभावप्रमाणस्य प्रत्यक्षप्रमाणे अनुमान प्रमाणे च उभयत्र अन्तर्भावान्निमित्तात् वाक्यभेदेन अन्तर्भावोक्तिरित्यर्थः । ‘आभावः प्रत्यक्षमनुमा च’ इति वाच्यम् प्रत्यक्षस्य प्राथम्यात् इत्यत आह ।। प्रायेणेति ।। अभावप्रमाणस्येति योज्यम् ।

।। कथमेकस्यैवेति ।। तथात्वे एकस्यैय ज्ञानस्य  स्वतन्त्रकरणद्वय-जत्वाऽपत्त्या परस्पर विरुद्धपरोक्षत्वापरोक्षत्वाऽपत्तेरिति भाव: । परमाण्वादा-वव्यभिचाराय योग्यत्वे सतीति । पुरः स्थिते अव्यभिचाराय विशेष्यम् । न च लिङ्गस्य ज्ञातस्यैव करणत्वात् अनुपलब्धेरपि अभावत्वेन तज्ज्ञानाय अनुपलब्ध्यन्तरापेक्षायामनवस्थितिरिति शङ्क्यम् तस्याः साक्षिप्रत्यक्षसिद्धत्वेन अनवस्थाऽभावात् ।। तदा प्रत्यक्ष इति ।। इन्द्रियान्वयव्यतिरेकानुविधायित्वात् अभावप्रत्ययस्य । तस्याधिकरणग्रह एवोपक्षीणत्वकल्पनं तु अपरोक्षाऽकारत्वस्य अनुभवसिद्धत्वात् बाधकाभावाच्चायुक्तमिति भावः ।

ननु प्रातश्चत्वराऽदौ प्रतियोगिस्मृत्याभावेेन गजाभावमननुभूय देशान्तरं गतो गजस्मृतिमान् ‘प्रातश्चत्वरे गजो नाऽसीत्’ इति प्रतिपद्यते, नास्त्यत्र प्रत्यक्षस्यावकाश इति चेत् । सत्यम् ‘चत्वरे गजो नासीत् योग्यत्वे सति तदा मया अनुपलभ्यमानत्वात्’ न चासिद्घिः  ‘गजः प्राक् तत्र तदा नोपलब्धः इदानीमस्मर्यमाणत्वात् न चात्राप्यसिद्धिः । स्मरणाभावस्य  साक्ष्यनुभवसिद्धत्वात्  इत्यनुमानस्य तत्रापि प्रवृत्तिसम्भव इति भावः ।। सुखाऽदिस्वरूपे निश्चयरूपत्वेनेति ।। तथा च तदभावः साक्षिप्रत्यक्षैकवेद्य इति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

।। अभावविषयं प्रमाणमिति ।। अभावविषयप्रमितिकरणम् अभावः अनुपलब्धिरित्यर्थः । अभाव: प्रमाणं अभावविषयप्रमितिकरणम् । एवमुत्तरत्रापि व्याख्येयम् ।। प्रत्यक्षेति ।। प्रत्यक्षयोग्यार्थेत्यर्थः ।। नास्ति चक्षुरिति ।। चक्षषो रूपज्ञानानुमेयत्वेनाऽनुमानिकत्वात्  इत्यर्थः । वैधहिंसा विधिवाक्यबोध्यहिंसा ।। न पापसाधनमिति ।। पापसाधनत्वस्य आगममात्रवेद्यत्वात् इत्यर्थः ।। अन्तर्भवतीति ।। वक्ष्यमाणप्रकारेणेति भावः ।

 ।। विभाग इति ।। अनुप्रमाणं त्रिविधमिति विभाग इत्यर्थः । नन्वाचार्यैः प्रत्यक्षयोग्यार्थप्रतियोगिकाभावस्यैव प्रत्यक्षानुमानान्तर्भावः कथितः,    तु ‘आनुमानिकाऽगमिकार्थप्रतियोगिकाभावप्रमाणयोः । अतस्तत्र किं निमित्तम् ?  इत्यत आह ।। अत्रेति ।। तत्रेति ।। अनुमानाऽगमान्तर्भाव इत्यर्थः ।

ननु तथाऽपि ‘अर्थापत्त्युपमाऽभावा  अनुमाविशेषाः’ इत्येकेनैव वाक्येन अर्थाऽपत्त्यादित्रयाणामप्यन्तर्भावस्य प्रतिपादयितुं शक्यत्वात् अभावोऽनुमेति किमर्थं  पुनर्योगविभागः ? इत्यत आह ।। उभयत्रेति ।। उक्तरीत्या एकेनैव वाक्येनान्तर्भावोक्तौ अर्थाऽपत्त्यादिवत् अनुमान एवान्तर्भावो विज्ञायेत । स मा विज्ञायि । किं तु ? अभावोऽनुमाने प्रत्यक्षे चेत्युभयत्रान्तर्भूत इति ज्ञापनार्थं योगविभाग इत्यर्थः ।

नन्वथापि प्रत्यक्षस्यानुमानापेक्षया प्राथम्यात् ‘अभावः प्रत्यक्षमनुमा च’ इति वक्तव्ये क्रमोल्लङ्घनं किमर्थम् ? इत्यत आह ।। प्रायेणेति ।। बाहुल्येनेत्यर्थः ।। कथमेकप्रमाणस्येति ।। अभावाख्यप्रमाणस्येत्यर्थः । प्रत्यक्षत्वे इन्द्रिय-सन्निकर्षजन्यत्वं वक्तव्यम्, अनुमानत्वे तु तदजन्यत्वम् । तच्च एकस्य विरुद्धमिति भावः ।। योग्यत्वे सतीति ।। परमाण्वादौ व्यभिचारवारणाय सत्यन्तम् । उपलभ्यमाने पटे व्यभिचारवारणाय विशेष्यभागः ।

ननु प्रत्यक्षयोग्यार्थप्रतियोगिकाभावप्रमाणस्योभयत्रान्तर्भावाङ्गीकारे आन्तरप्रत्यक्षविषयसुखाऽद्यभाव प्रमाणस्याप्युभयत्रान्तर्भावप्राप्त्या साक्षिणोऽपि अनुमानान्तर्भावः प्राप्तः  इति चेत् तत्राऽह ।। अयं चेति ।। ‘परामर्शा-परामर्शविशेषात् अभावोऽनुमा प्रत्यक्षं च’ इति विभागो बहिरेव प्रत्यक्षयोग्यबाह्यार्थप्रतियोगिकाभावप्रमाणविषय एवेत्यर्थः ।। सुखाऽद्यभावप्रमाण इति ।। साक्षिरूप इत्यर्थः ।  कुतः ? इत्यत आह ।। साक्षिण इति ।। परामर्शाभावात् इति ।। येन सुखाऽद्यान्तरपदार्थप्रतियोगिकाभावप्रमाणरूपस्य साक्षिणोऽप्यनु-मानान्तर्भावः स्यात् इति भावः ।।

प्रमाणलक्षणटीकाविवरणम्

नन्वेवमपि अनुप्रमाणं त्रिविधमिति विभागो न्यूनः । अभावाख्यस्य पृथक्प्रमाणस्य विद्यमानत्वदित्यभिप्रेत्य शङ्कते ।। तथापीति ।। अभावस्वरूपाज्ञाने तदंतर्भावस्य ज्ञातुमशक्यत्वात् तल्लक्षणमाह ।। अभावविषयमित्यादिना ।। नास्त्यत्र घट इति । घटाभावप्रतियोगिनो घटस्य प्रत्यक्षयोग्यत्वादित्यर्थः । यदा झडिति घटाभावोऽवधार्यते तदा तस्य प्रत्यक्षंेतर्भावः । यदा तु भूतलं घटाभाववत् तद्वत्तया अनुपलभ्यमानत्वादिति अनुपलब्ध्यादिसहकारेण तदनुमान इति भावः।

नन्वाचार्येण प्रत्यक्षयोग्यार्थप्रतियोगिकाभावप्रमाणस्येव प्रत्यक्षानुमान-योरंतर्भावः, अनुमानिकप्रतियोगिकाभावप्रमाणस्य वाऽगमिकप्रतियोगिका-भावप्रमाणस्यान्तर्भावः कुतो न कथित इत्यत आह ।। अत्रेति ।।

ननु तथाऽपि अर्थापत्त्युपमानाभावा अनुमाविशेषा इति एकेनैव वाक्येनैव अर्थापत्त्युपमानाभावानामंतर्भावस्य प्रतिपादयितुं शक्यत्वादर्थापत्त्युपमे अनुमा-विशेषः अभावोऽनुमाप्रत्यक्षं चेति योगविभागः किमर्थं कृत इत्यत आह ।। उभयत्रेति ।। नचैवमप्युपमानस्यापि उभयत्रांतर्भावात् । तस्यापि पृथगेवांतर्भावविधायकं वाक्यं कर्तव्यमिति वाच्यं । उभयत्रांतर्भावेऽपि तत्रोभयत्राविवादात् । अत्र पुनः उभयत्र तत्सद्भावादिति भावः ।

ननु तथाऽपि प्रत्यक्षस्यानुमानापेक्षया प्राथम्येन प्रत्यक्षमनुमा चेति वाच्यं । क्रमोल्लंघने किं निमित्तमित्यत आह ।। प्रायेणेति ।। कथमिति ।। प्रत्यक्षत्वे हि इंद्रियसन्निकर्षजन्यत्वं अनुमानत्वे तदजन्यत्वं तच्चैकस्येव विरुद्धमित्यर्थः ।

प्रत्यक्षयोग्यार्थप्रतियोगिकाभावप्रमाणस्य प्रत्यक्षानुमानयोरंतर्भावे प्रत्यक्षस्य बाह्यांतररूपत्वेन द्विविधत्वेन द्विविधस्यापि तत्रांतर्भावशङ्का स्यात् । तच्चानुपपन्नं । आंतरस्योभयत्रांतर्भावाभावात् । तस्मात् बाह्यप्रत्यक्षयोग्यार्थप्रतियोगिकाभाव-प्रमाण्यस्यैवोभयत्रांतर्भावः । नत्वांतरस्येत्यभिप्रायेणाह ।। अयं च विभाग इति ।। संभवपरिशेषयोरनुमानेऽन्तर्भावं वक्तुं तल्लक्षणमाह ।। अल्पेति ।। प्रसक्तव्यवृत्ति-प्रतीतिरिति । प्रसक्तयोर्मध्ये एकस्यापरस्मात् व्यावृत्तिस्तत्प्रतीतिरित्यर्थः ।