दृष्टान्ते साध्यस्य साधनस्य वा व्यापकं किंञ्चित् ..
अपकर्षसमजातिः
प्रमाणलक्षणटीका
दृष्टान्ते साध्यस्य साधनस्य वा व्यापकं किंञ्चित् धर्ममा-रोप्य व्यापकनिवृत्त्य व्याप्यनिवृत्तिरिति पक्षे तन्निवृत्त्या साध्य-साधनयोरन्यतारपकर्षः अपकर्षसमः । यथा महानसे अग्नि-मत्वस्य धूमवत्वस्य वा व्यापकं स्थाल्यादिमत्वं पर्वतात् व्यावर्तमानं तत् व्यावर्तयति । व्यापकाभिमतव्यावृत्त्युपलम्भः अत्रोऽत्थानबीजम् । साध्यापकर्षे बाधितविषयत्वं सत्प्रतिपक्षत्वं वा आरोप्यम् । साधनापकर्षे असिद्धत्वम् । व्याप्त्यभावात् युक्ताङ्गत्यागः । तदनभ्युपगमे ‘नेदं साधकं बाधितत्वात् अनुष्णत्वसाधकपदार्थत्ववत्’ इति प्रतिषेधहेतावपि पदार्थत्वे असाधकत्वं बाधितविषयत्वं वा सर्वधर्मिनिष्ठत्वेन व्याप्तं दृष्टमिति धूमवत्वात् व्यावर्तमानमसाधकत्वाऽद्यपि व्यावर्त-यतीत्यपकर्षसाम्यात् व्याहतिरिति ।। ३ ।।
प्रमाणलक्षणटीकाभावदीपः
।। व्याप्यनिवृत्तिरिति ।। इतिशब्दो हेत्वर्थः ।। तन्निवृत्त्येति ।। व्यापकत्वेनारोपितधर्मनिवृत्त्येत्यर्थः ।। पदार्थत्व इति ।। जातिवादिना दृष्टान्तीकृत इत्यर्थः ।। ३ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
व्यावृत्ते व्यापकाभासे पक्षतो लिङ्गसाध्ययोः ।
आकर्षोऽन्यतरस्स्य स्यादपकर्षसमं स्फुटम् ।।
इतिकारिकाऽनुसारेण अपकर्षसमजातिं लक्षयति ।। दृष्टान्त इति ।। तद्व्यावर्तयतीति ।। तत् अग्निमत्वं धूमवत्वं वा व्यावर्तयतीत्यर्थः ।
।। व्यापकाभिमतेति ।। धूमवत्वव्यापकत्वेनाभिमतस्थाल्यादिमत्त्व-व्यावृत्त्युपलम्भ इत्यर्थः ।। नेदमिति ।। इदं धूमवत्वरूपं साधनं साध्यसाधकं न इत्यर्थः । असाधकत्वं असाधकत्वरूपं साध्यम् । बाधितविषयत्वं बाधित-विषयत्वरूपं साधनम् ।। सर्वधर्मिनिष्ठत्वेनेति ।। पदार्थत्वस्य केवलान्वयित्वेन तत्र सर्वधर्मिनिष्टत्वसद्भावादित्यर्थः ।। धूमवत्वाद्व्यावर्तमानमिति ।। हृदादा-वभावेन धूमवत्त्वे सर्वधर्मिनिष्ठत्वाभावात् पक्षीभूतात् धूमवत्त्वात् व्यावृत्तं इत्यर्थः ।। असाधकत्वाऽद्यपीति ।। स्वव्याप्यभूतं असाधकत्वम् । आदिपदात् बाधित-विषयत्वञ्चेत्यर्थः । तथा च अत्रापि साध्यापकर्षे बाधितविषयत्वम् साधनापकर्षे असिद्धत्वम् इति द्रष्टव्यम् ।। साम्यादिति ।। तथा च धूमवत्वमसाधकत्व-रूपसाध्यसाधकं न भवति बाधितविषयत्वात् । अनुष्णत्वसाधकपदार्थत्ववत् । न चात्र व्याप्त्यभावः । तदनङ्गीकारादिति स्वन्यायविरोध इति ।। ३ ।।
प्रमाणलक्षणटीकाविवरणम्
अथेदानीं अपकर्षसमलक्षणमाह ।। दृष्टान्त इति ।। तादृशोत्तरोत्थानमाह ।। व्यापकेति ।। व्यापकत्वेनाभिमतस्य पक्षे व्यावृत्युपलंभ इत्यर्थः। साधारणदुष्टत्वबीजमाह ।। व्याप्तीति ।। साधारणमुक्त्वा असाधारण-दुष्टत्वबीजमाह ।। तदनभ्युपगमेति ।। अयमर्थः । तावता हि धूमवत्वहेतुः साध्यासाधकं बाधितत्वात् अनुष्णसाधकपदार्थत्ववत् असिद्धत्वाद्वेति । नित्यत्व-साधकचाक्षुषत्ववत् तावत् साध्यापकर्ष इति जातहेतौ प्राबल्याभिमाने बाधित-विषयत्वमारोप्यं समबलत्वाभिमाने तु प्रतिपक्षत्वमिति विवेको द्रष्टव्यः ।
कैमुत्यं भवति । तत्राऽपि दृष्टान्तत्वेनाभिमतौ अनुष्णत्वसाधकत्वं वा वर्तते। तच्च सर्वधर्मिनिष्ठत्वेन व्याप्तम् पदार्थत्वस्य केवलान्वयित्वात् । तच्च साध्यासाधकत्वरूपसाध्यस्य बाधितत्वरूपसाधनस्य त्वव्यापकं धूमवत्वात् । व्यावर्तमानं स्वव्याप्यं साध्याव्यापकत्वं वा बाधितत्वं व्यापकनिवृत्तौ व्याप्यनिवृत्ते-रावश्यकत्वादित्यपकर्षसाम्यात् । न च व्याप्त्यभावः । पूर्वं तस्यानङ्गीकारात् । अङ्गीकारे च स्वन्यायविरोधेन व्याघातादिति ।। ३ ।।