योगिज्ञानमृजूनामनादिनित्यम्
योगिज्ञानसामान्यलक्षणविभागौ
प्रमाणलक्षणटीका
योगप्रभावलब्धातिशयं योगिज्ञानम् । तत् त्रिविधम् ऋजुतात्विकअतात्विकयोगिज्ञानभेदेन ।
ऋजुयोगिज्ञाननिरूपणम्
तत्र पूर्ववदृजुज्ञानं नानुप्रमाणजन्यमनित्यं चेत्याह
प्रमाणलक्षणम्
योगिज्ञानमृजूनामनादिनित्यम्
केषां योगिनां ? ऋजूनां इति योज्यम् । योगिज्ञान इति पाठे ज्ञानमिति शेषः । असार्वत्रिकत्वात् योगविभागः । तल्लक्षणमाह
ईशे जीवेभ्योऽधिकम्
ऋजुव्यतिरिक्तजीवज्ञानेभ्य एव । ईश इति स्वरूपकथनम् । जीवेभ्योऽधिकमित्यस्मदादिज्ञाननिरासः । अवधारणेनेश-लक्ष्मीज्ञाननिवृत्तिः । लक्षणान्तरं चाह
अन्यत्राऽलोचने सर्वविषयम्
अन्यत्र ईशादिति शेषः । अन्यत्र ग्रहणमसंभवनिवृत्यर्थम्। आलोचन इतीशलक्ष्मीज्ञाननिरासः । सर्वग्रहणमस्मदादि-ज्ञाननिरासार्थम् ।
ऋजुज्ञानं यद्यनादिनित्यं तर्हि कथं तत् योगिज्ञानम् ? योगजं हि योगिज्ञानमित्यत आह
क्रमेण वर्धमानम्
योगप्रभावेन वृद्धिसद्भावात् योगिज्ञानत्वं युक्तम् ।
क्रमेण वर्धमानत्वे मुक्तावपि किं वर्धत इति ? नेत्याह
आ मुक्तेः
आङ् मर्यादायां ।
अभिवृद्धनदीवत् पुनः किं ह्वासो भवति? नेत्याह
ततोऽव्ययम्
प्रमाणलक्षणटीकाभावदीपः
मूले योगिज्ञानावान्तरभेदभिन्नर्जुज्ञानस्यैव लक्षणोक्तेः तत: प्रागा-काङ्क्षितौ सामान्यलक्षणविभागौ स्वयमाह ।। योगेति ।। योगो भगवद्धर्मानुष्ठानादि-रूपज्ञानोपायः । तत्सामर्थ्यप्राप्तोत्कर्षं ज्ञानमित्यर्थः । योगिज्ञानपदं ऋजुयोगिज्ञानं तात्विकयोगिज्ञानं अतात्विकयोगिज्ञानमिति प्रत्येकमन्वेति । भेदेन निमित्तेनेत्यर्थः। पूर्ववत् ईशलक्ष्मीज्ञानवत् । अनित्यं च न इत्यनुषङ्गः ।। इति पाठ इति ।। सप्तम्यन्तपाठ इत्यर्थः । योगिज्ञानमध्य इत्यर्थः ।
ननु योगिज्ञानमनादिनित्यं इत्यनुक्त्वा योगिज्ञाने ऋजूनां ज्ञानमनादिनित्यम् इति वाक्यभेदः कम्मात् कृत ? इत्यतो वा, ऋजुतात्विकातात्विकज्ञानमनादिनित्यम् इत्यनुक्त्वा ऋजूनामनादिनित्यं ततोऽर्वाक् क्रमेण ह्रसितम् इति वाक्यभेदः कुतः कृतः? इत्यतो वाऽऽह ।। असार्वत्रिकत्वादिति ।। अनादिनित्यत्वस्येति योज्यमित्येके ।
अन्ये तु पूर्वद्वयमनादिनित्यम् इत्यत्र पूर्वत्रयमनादिनित्यम् इत्येव कुतो नोक्तम् ? कस्मात् वाक्यभेदः ? इत्यत आह ।। असार्वत्रिकत्वादिति ।। अनादिनित्यत्वस्य योगिज्ञाने सर्वत्र अभावात् इत्यर्थः । तर्हि पूर्वद्वयं ऋजुज्ञानं चानादिनित्यम् इत्युच्यतामित्यपि न । प्राक् तथा अनिर्देशेन तदा तस्यानुपस्थितेः । उपस्थितौ वा वृत्तिज्ञानांशे मुख्यानादिनित्यत्वस्याभावेन असार्वत्रिकत्वात् योगविभाग इत्यर्थ इत्याहुः । एतच्च अनादिनित्यत्वं स्वरूपज्ञाने मुख्यम् । वृत्तिज्ञाने तु प्रवाहतः । तदपि मुक्तिपर्यन्तमेव नित्यत्वं ज्ञेयम् । एतेन मातरिश्वा व्याख्यातः इति सूत्रे प्रलये अविलुप्तत्वेनैव ज्ञाननित्यत्वोक्तः ।
ऋजूनामपिब्रह्मत्वयोग्यजीवत्वात् व्याघातनिरासायाह ।। ऋजुव्यतिरिक्तेति ।। आङ् मर्यादायामिति ।। ‘ ‘ईषदर्थे क्रियायोगेे मर्यादाऽभिविधौ च यः। एतमातं ङितं विद्यात्’ ’ इत्युक्तेर्मर्यादायामित्युक्तम् । ‘तेन विना’ इति मर्यादा । ‘तेन सह’ इत्यभिविधिः । ‘आनगरं वृष्टिः’ इत्यादौ आङ् मर्यादार्थश्चेत् नगरपर्यन्तमेव, न तु नगर इत्यर्थः । अभिविध्यर्थश्चेत् नगरेपि वृष्टिः इत्यर्थो भवति । अतो मुक्तिपर्यन्तमेव इत्यर्थलाभाय मर्यादायाम् इत्युक्तम् । ‘आ कडारात्’ इत्यादिपाणिनिसूत्र इव असमासेनायं निर्देशः । अन्यथा आमुक्ति इति स्यात् ।। तत इति ।। मुक्त्यनन्तरमित्यर्थः । एतच्च स्वरूपज्ञानविषयम् ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
योगिज्ञानसामान्यलक्षणस्य मूलेऽनुक्तत्वात् स्वयमेवाऽह ।। योगप्रभावेति ।। योगो नाम ईश्वरे मनःप्रणिधानम् । तत्सामर्थ्येन लब्धः अतिशयः बहुविषयकत्वरूपो यस्य तत् तथोक्तमित्यर्थः । अत्र एतादृशातिशययोग्यत्वमेव लक्षणं विवक्षितम् । अतः कदाचित् अबहुविषयके योगिज्ञाने नाव्याप्तिरिति ध्येयम्। तत् विभज्य उद्दिशति ।। तत् त्रिविधमित्यादिना ।। ऋज्वित्यादि ।। ऋजुयोगिज्ञानतात्विकयोगिज्ञानातात्विकयोगिज्ञानभेदेनेत्यर्थः ।। पूर्ववदिति ।। ईशलक्ष्मीज्ञानवदित्यर्थः ।
ननु योगिपदस्य ऋजुपदेन साकाङ्क्षतया तेनैव समासो वक्तव्यः न ज्ञानपदेन। यत् येन सापेक्षं तत् तेनैव समासाय समर्थं नान्येन । ‘सापेक्षमसमर्थवत् भवति’ इति वचनात् । अतो ऋजुयोगिज्ञानमित्येव वक्तव्यम् , न ऋजूनामिति । तत्राह ।। केषामिति ।। अन्येन समासेऽपि न पूर्वपदेनाकाङ्क्षा विहन्यते । ‘देवदत्तस्य गुरुकुलम्’ इत्यादिवत् । अत उत्थिताऽकाङ्क्षारूपनित्यसापेक्षत्वात् युक्तः समासः । वचनं तु उत्थाप्याकाङ्क्षारूपानित्यसापेक्षविषयमिति भावः ।
।। ज्ञानमिति शेष इति ।। तथा च योगिज्ञाने योगिज्ञानमध्ये ऋजूनां ज्ञानमनादिनित्यमित्यर्थोद्रष्टव्यः । ननु ईशलक्ष्मीज्ञानवत् ऋजुयोगिज्ञानस्यापि अनादिनित्यत्वे पूर्वत्रयमनादिनित्यम् इत्येव वक्तव्यम् । अतो योगिज्ञानमिति वाक्यं व्यर्थमित्यत आह ।। असार्वत्रिकत्वादिति ।। अनादिनित्यत्वस्येति शेषः । योगविभागो वाक्यभेदः । पूर्वत्रयमनादिनित्यम् इत्युक्ते ईशलक्ष्मीज्ञानवत् योगिज्ञानस्य सर्वस्याप्यनादिनित्यत्वं प्राप्नोति । अतः तन्निरासाय योगिज्ञानमध्ये ऋजुयोगिज्ञानस्यैवानादिनित्यत्वं वक्तुं योगविभाग इत्यर्थः । असार्वत्रिकत्वप्रकारं च उत्तरत्र विवरिष्यामः ।
ब्रह्मत्वयोग्या हि जीवा ऋजवः । तेषां ज्ञानं द्विविधं स्वरूपं मनोवृत्तिरूपं चेति । तत्र वैदिकेश्वरादिविषयं स्वरूपज्ञानमनादितोऽभिव्यक्तं नित्यं च । वैदिकेश्वरादिविषयं मनोवृत्तिरूपज्ञानं योगानुगृहीतप्रत्यक्षादिना स्वरूपेण जन्यमपि प्रवाहतोऽनादि । ‘ ‘एवं प्रलयकालेऽपि प्रतिभातपरावरः । मुख्यवायुः ’ इति वचनात् प्रलये वृत्तिप्रवाहो नोच्छिद्यते । मुक्तौ तु उच्छिद्यत इत्यनित्यम् । द्वयमपि नियमेन यथार्थमिति द्रष्टव्यम् ।
जीवशब्दो जीवज्ञानपर इत्यभिप्रेत्ये जीवज्ञानेभ्य इत्युक्तम् । ऋजूनामपि जीवत्वावच्छिन्नत्वात् तज्ज्ञानेभ्य एव तज्ज्ञानस्याधिकत्वायोगात् ऋजुव्यतिरिक्तेत्युक्तम् । तथा च ऋजुव्यतिरिक्ततात्विकातात्विकजीवापेक्षयैव ईशे अधिकविषयकं ज्ञानम् ऋजुयोगिज्ञानमिति लक्षणं द्रष्टव्यम् । ज्ञानं ऋजुयोगिज्ञानमित्येवोक्तेऽस्मदादिज्ञानेतिव्याप्तिः । अतो जीवेभ्योधिकमिति विशेषणमुक्तमित्याह ।। जीवेभ्योधिकमितीति ।। अधिकं अधिकविषयमित्यर्थः
।। अवधारणेनेति ।। ईशलक्ष्मीज्ञानयोः ऋजुयोगिज्ञानापेक्षयाप्यधिक विषयत्वात् अवधारणेन तयोर्र्व्यावृत्तिरित्यर्थः ।। लक्षणान्तरमिति ।। ऋजूनां यत् स्वरूपभूतं ज्ञानं यच्च मनोवृत्तिरूपं तदुभयसाधारणमित्यर्थ: ।। असंभवेति ।। ईशविषये आलोचने सर्वविषयत्वस्यासम्भवित्वात् इत्यर्थः ।
अत्र आलोचने सर्वविषयकत्वं नाम आलोचने सर्वविषयकत्वात्यन्ताभावा-नधिकरणत्वरूपं तद्योग्यत्वमेव विवक्षितम् । तेनाऽलोचनाभावदशायां तज्ज्ञाने नाव्याप्तिः । तस्यापि आलोचनलक्षणसहकारिप्राप्तौ सर्वविषयकत्वसम्भवेन उक्तयोग्यतासद्भावात् । एतेन मुक्त्यवस्थापन्नर्जुज्ञाने अनालोचने सर्वविषयेऽव्याप्तिरिति निरस्तम् । तस्यापि पूर्वं आलोचने सर्वविषयकत्वसद्भावेन तदाप्युक्तयोग्यताया अनपायात् । एतेनैव ऋजूनामपरोक्षदशायां आलोचने सर्वविषयत्वाभावात् अव्याप्तिरिति परास्तम् । तत्रापि उक्तविधया योग्यताघटितलक्षणसद्भावात् इति द्रष्टव्यम् ।
न च ऋजूनां जायमाने ‘अयं घटः’ इति घटमात्रविषयके ज्ञाने आलोचने सर्वविषयकत्वाभावादव्याप्तिरिति वाच्यम् तत्रापि आलोचने सर्वविषयकत्वस्य सत्वात् । तथा हि । यदा घटं पलपरिमाणेयत्ताविशेषवन्तं तन्निमित्तं कालं दिशम् अदृष्टं तदाश्रयं पुरुषं तत्प्रयोजनविशेषं च साक्षात्करोति तदा घटमात्रविषयकस्यापि ज्ञानस्य आलोचने सर्वविषयकता प्राप्तैवेत्यवगन्तव्यम् । यथाहुः - एकं च तत्वतो ज्ञातुं विना सर्वज्ञतां नरः । न समर्थो महेन्द्रोऽपि तस्मात् सर्वत्र जिज्ञसेत् इति ।।
।। ऋजुज्ञानमिति ।। ऋजूनां स्वरूपभूतं ज्ञानमित्यर्थः े।। योगजं हीति ।। तथा च योगिज्ञानसामान्यलक्षणस्याव्याप्तिरित्यर्थ: ।। योगप्रभावेनेति ।। तथा च योगप्रभावात् व्यक्त्यतिशयसद्भावेन योगप्रभावजन्यातिशयवत्वरूपं योगिज्ञानत्वं युक्तमिति नाव्याप्तिरिति भावः ।। मर्यादायामिति ।। मुक्तिं मर्यादीकृत्यतत्पर्यन्तमेव क्रमेण वर्धमानमित्यर्थः । ‘आङ् मर्यादाभिविध्यो’ इति वचनादिति भावः ।। ततोऽव्ययमिति ।। मुक्तावेकप्रकारमित्यर्थः ।।
प्रमाणलक्षणटीकाविवरणम्
।। पूर्ववदिति ।। ईशलक्ष्मीज्ञानवदित्यर्थः । पूर्वमीशलक्ष्मीज्ञानयोरनादिनित्यत्वस्योक्तत्वेन तत्प्रकरणे योगिनामनादिनित्यत्वोक्तेरसङ्गतत्वात्तस्य प्रकृतसङ्गतत्वं वक्तुं शेषसंपूर्णं व्याचष्टे ।। ज्ञानमितीति।।
ननु योगिनामित्यस्य भावो न सम्भवतीत्यत आह ।। योगिनामितीति ।। ननु ऋजुयोगीज्ञानस्याप्यनादिनित्यत्वे पृर्वत्रयमनादिनित्यमिति वक्तव्यम् । तच्चानुक्तवा पूर्वद्वयमनादिनित्यं योगिज्ञानं ऋजूनामिति योगविभागः कुत इत्यत आह ।। असार्वत्रिकत्वादिति ।। पूर्वत्रयमनादिनित्यमित्युक्ते ईशलक्ष्मीज्ञानवत् त्रिविधस्यापि योगिज्ञानस्य प्राप्तत्वेन तस्य चानादिनित्यत्वासंभवात् सर्वस्मिन् योगिज्ञाने अनादिनित्यत्वस्यासार्वत्रिकत्वेन योगिविभाग उक्त इति भावः ।
यद्वा ऋजुयोगिस्वरूपज्ञाने अनादिनित्यत्वसम्भवेऽपि वृत्तिज्ञानस्य प्रवाहतोऽनादित्वेपि स्वरूपतोऽनादित्वाभावेन सर्वस्मिन् ऋजुयोगिज्ञाने तदभावाद्योगिविभाग इति । ऋजुज्ञानस्य ज्ञानान्तरादेवाधिक्यस्य वक्तव्यत्वेन जीवापेक्षयाधिक्योक्तिरनुपपन्नेत्यत आह ।। जीवज्ञानस्य इति ।। ऋजृनामपि जीवत्वेन स्वज्ञानापेक्षया स्वस्वस्याधिक्यासंभवादृजुव्यतिरिक्तेति विशेषणम् ।
।। ईश इतीति ।। अतिव्याप्त्याद्यव्यावर्तकत्वाभावादिति भावः । ईश्चरविषयं ज्ञानं ऋजुज्ञानमित्येतावन्मात्रोक्तौ अस्मदादिज्ञानस्यापि ईश्चरविषयत्वेन तत्रातिव्याप्तिः स्यात्तत्परिहारार्थं जीवेभ्योऽधिकमित्युक्तमित्याह ।। जीवेभ्योऽधिकमितीति ।।
ऋजुव्यतिरिक्ततात्विकात्विकयोगिज्ञानापेक्षयाऽधिकं ज्ञानं ऋजुज्ञान-मित्येवोक्ते ईशलक्ष्मीज्ञानस्यापि तथात्वात्तत्रातिव्याप्तिरतो अवधारणप्रयोग इत्याह ।। अवधारणेनेति ।। लक्ष्मीज्ञानस्य ऋजुव्यतिरिक्ततात्विकातात्विकयोगिज्ञाना-पेक्षयाऽधिकऋजुज्ञानादप्याधवेयतत एवाधिकत्वाभावादीशज्ञानस्य च तात्विकाता-त्विकयोगिज्ञानापेक्षयाऽधिकऋजुज्ञानाधिकलक्ष्मीज्ञानादप्य यत्रत्त्धिक्येन तन्मात्राधिक्याभावादिति भावः ।
जगतोऽन्यत्रेति प्रतीतिनिरासार्थमाह ।। ईशादिति ।। ऋजुज्ञानस्यापि परमात्मगताखिलविशेषविषयत्वाभावादसंभवः स्यादत अन्यत्रेत्युक्तमित्याह ।। अन्यत्रेति ।। आलोचनेति ।। नचैवं पद्धतिविरोधः । तत्र अनालोचनेपीति अपिशब्देनानालोचनेपि लक्ष्मीज्ञानस्य सर्वविषयत्वस्योक्तत्वात् । तथाचा-नालोचनेति पदेन तद्भाननिवृत्तिरिति वाच्यं । तत्रापिशब्दस्य समुच्चायकत्वाभावात् संभावनार्थत्वस्याप्युपपन्नत्वादिति न तद्विरोध इति भावः ।
आवालं हरिभक्तिरित्यादाविव आमुक्तेरित्याङो अभिविध्यर्थत्वस्यापि संभवात् मुक्तमभिव्याप्य वृद्धिप्रतिपादकमिदं वाक्यं कथं तन्निषेधकतया अवतारितमित्यतो नात्राभिद्यर्थत्वमाङोऽभिमतं । किंतुमर्यादार्थत्वमेव । ततश्च मुक्तिं मर्यादीकृत्य वृद्धिरित्यर्थसिद्धेर्युक्तं तथावतरणमित्याह ।
कर्मप्रवचानीय इतिशेषः । आङ्मर्यादावचेन इतिस्मरणादित्यर्थः । ततश्च पञ्चम्यपाङ्परिभिरितिकर्मप्रवचनीयाङ्योगात्पंचमीति भावः । नचैवं कर्मप्रवचनीयस्याऽङो पंचम्यन्तेन मुक्तिशब्देन आङ्मर्यादाभिविध्योरिति समासे ‘‘सुपोधातुप्रतिपादकयो’’रिति सुपो लोपे आविष्णुसंसार इत्यादिलदामुक्ति इत्येव स्यात् । आमुक्तेरिति पंचमी कथमिति वाच्यं । विभाषेति महाविषाधिकारेण आङ्मर्यादाभिविध्योरिति मर्यादाद्यर्थकस्याङो विकल्पो न पंचम्या समासविधानेन समासपक्षे आमुक्तीति स्वरूपप्राप्तावपि तदभावे आमुक्तेरिति वाक्यसंभवेन पंञ्चम्याश्रयणस्योपपपत्तेरिति द्रष्टव्यं ।