सिद्धमपि दूषणासमर्थमुत्तरम् जातिः
परोक्तजातिनिरूपणम्
प्रमाणलक्षणटीका
सिद्धमपि दूषणासमर्थमुत्तरम् जातिः । असामर्थ्यं च द्विविधम् । साधारणमसाधारणञ्च । तत्र साधारणं स्वव्याहतिः।
असाधारणं तु युक्ताङ्गहीनत्वं अयुक्ताङ्गाधिकत्वं अविषय-वृत्तित्वञ्चेति । द्वयं च क्वचित् अङ्गाङ्गिभावेन ।
ताश्च प्रतिधर्मोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्य-प्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्र्थापत्त्यविशेषोप-पत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः ।
सर्वत्र प्रमादः प्रतिभाक्षयो वा अवसरः । आरोप्यमाण-दोषभ्रान्तिः फलम् ।
प्रमाणलक्षणटीकाभावदीपः
तृतीयजातिरूपत्वं कथम् ? इत्युतः परोक्तजातिलक्षणविभाग-तद्विशेषलक्षणपूर्वं प्रदर्शयति ।। सिद्धमित्यादिना ।। छले अनतिव्याप्तये सिद्ध-मित्युक्तिः ।
।। युक्ताङ्गेति ।। व्याप्त्याद्यङ्गेत्यर्थः ।। अङ्गाङ्गिभावेनेति ।। साधारणस्य असाधारणमङ्गमित्यर्थः ।। ताश्चेति ।। बहुवचनं वक्ष्यमाणाऽपेक्षया । समपदं प्रतिधर्मसमोत्कर्षसमेत्येवंरूपेण प्रत्येकं सर्वत्रान्वेति । तच्च स्वव्याहतेः सर्वत्र साम्यद्योतनाय ।
लक्ष्यलक्षणोत्थानबीजपतनावसरफलभेदेन जातेः सप्ताङ्गानि । तत्र लक्ष्य-लक्षणे प्रोक्ते । अवसराद्यङ्गान्याह ।। सर्वत्रेति ।। त्रयोविंशाति-ेजात्युत्तरेष्वित्यर्थः। जात्युत्तरवादिना वाद्यनुमाने यो दोष आरोप्यते ‘भवत्ययं दोषः’ इति तद्विषयभ्रन्ति-वादिन इत्यर्थः ।। फलमिति ।। जात्युत्तरस्येति योज्यं ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
परोक्तजातिस्वरूपाज्ञानेऽन्तर्भावस्य दुर्ज्ञानत्वात् तत्स्वरूप-ज्ञापनाय
प्रयुक्ते स्थापनाहेतौ दूषणाशक्तमुत्तरं ।
जातिमाहुः . . . . . . . . . . . . . . . . . . ।
इतिकारिकानुसारेण तल्लक्षणमाह ।। सिद्धमपीति ।। स्थापनाहेतौ प्रयुक्ते सतीति शेषः । सिद्धं पक्षधर्मत्वोपेतमित्यर्थः । तेन छलव्यावृत्तिः । छलवादिविवक्षित-हेतोरसिद्धत्वात् । तथा हि ‘आढ्योऽयं नवकम्बलवत्त्वात्’ इति प्रयुक्ते ‘कुतोऽस्य नव कम्बलाः ? एक एव कम्बलः प्रत्यक्षसिद्धः’ इति वदतः छलवादिनः ‘नेदं नवकम्बलबत्त्वरूपं साधनं स्वसाध्यसाधकम् असिद्धत्वात्’ इति हि विवक्षितम् । तत्र असिध्दत्वात् , इति हेतुर्व्याप्तौ सत्यामपि पक्षभूते वादिहेतौ असिद्धः । अविवक्षितस्यैव सङ्ख्याविशेषस्य हेतुवाक्यार्थत्वेन कल्पनात् । लक्ष्यभूते जातिवाद्यभिमते हेतौ च व्याप्त्यभावेऽपि पक्षधर्मत्वमस्ति । वादिना हेतौ प्रयुक्ते नेदं साध्यसाधकं युक्ताङ्गानपेक्षप्रतिप्रमाणप्रतिरुद्धत्वात् इत्यादिजातिवादिहेतोः वादिसाधननिष्ठत्वात् । अतो नासम्भव इति सम्प्रदायः । केचित्सिद्धम् अकल्पित-दूषणमित्यर्थः । तेन छलनिरासः । तस्य कल्पितदूषणत्वात् इत्याहुः ।
।। असामर्थ्यमिति ।। उतरस्येति शेषः । साधारणं सर्वजात्यनुगतम् । असाधारणं सर्वजात्यननुगतम् । युक्ताङ्गम् व्याप्त्यादि । अयुक्ताङ्गम् व्यभिचारादि ।। अविषयवृत्तित्त्वमिति ।। अनुचितस्थलसञ्चाराभ्युपगम इत्यर्थः । एतच्च उत्तरत्रोदाहरणप्रदर्शनावसर एव स्फुटं भविष्यति
।। द्वयमिति ।। साधारणमसाधारणञ्चेति द्विविधमप्यसामर्थ्यं क्वचित् जातिविशेषे प्रत्येकम् अङ्गाङ्गिभावं विना प्राप्नोतीत्यर्थः । जातिविभागमाह ।। ताश्चेति ।। द्वन्द्वान्ते निर्दिष्टः समशब्दः प्रत्येकं सम्बध्यते ।
सर्वजात्युद्भावनकालं दर्शयति ।। सर्वत्रेति ।। प्रतिभाहानिः । सभाक्षोभाऽदिना सदुत्तरप्रतिभाहानिः । प्रमादप्रतिभाहानिभ्यां सदसद्विवेकानवधाननिमित्तं असदुत्तरं प्रयुज्यते ‘मूकीभावात् असदुत्तरप्रयोगो वरं , पाक्षिकजयसम्भवात्’ इति बुद्ध्या प्रवृत्तेरित्यर्थः । यथाऽहुः
प्रमादः प्रतिभाहानिरासामवसरः स्मृतः । इति ।
लक्ष्यं लक्षणमुत्थानं पातनावसरः फलम् ।।
मूलमित्यङ्गमेतासां..................... ।।
इति सर्वजातीनां सप्ताङ्गान्युक्तानि सन्ति । तत्रावसरो दर्शितः ।
अथ फलं दर्शयति ।। आरोप्यमाणेति ।। दोषज्ञानस्य भ्रन्तित्वोपपादनाय आरोप्यमाणेत्युक्तम् ।
प्रमाणलक्षणटीकाविवरणम्
परोक्तजातीनामन्तर्भावं वक्तुं जातेर्लक्षणमाह ।। सिद्धमपीति ।। अत्रासामर्थ्यं व्याप्तिपक्षधर्मतयोरन्यतरवैकल्यं भवति ।
तत्र पक्षधर्मताविधुरः कल्पितादूष्यो कल्पितदूष्यश्चेति द्विविधः। तत्राद्यं छलं तथाहि । आढ्योऽयं नवकंबलवत्वादिति प्रयुक्ते कुतोऽस्य नवकंबल इत्यत्र नवकंबलवत्वादित्ययं हेतुराढ्यत्वे साधको न भवति असिद्धत्वादिति प्रति-वादिनोऽभिप्रायः । अत्र यदसिद्धं तदसाधकमिति व्याप्तिरस्ति । नूतनार्थप्रयुक्तहेतोः प्रतिवाद्यभिमतसंस्व्याविषयपरत्वाभावात् । पक्षधर्मताया एव केवलमभावः अकल्पितदूष्यस्तु केवलं निरनुयोज्यानुयोगस्तत्र वादिना निर्दोष एव हेतौ प्रयुक्ते सति अनैकान्तिकत्वादित्यादिदूषणोद्भावनं निरनुयोज्यानुयोगः अत्र वाद्युक्तो हेतुः साध्यसाधको नानैकान्तिकत्वादिति प्रतिवादिनो विवक्षितम् । अत्र व्याप्तौ सत्यमेव केवलं पक्षधर्मतावैधुर्यमेव तथाच पक्षधर्मतावैधुर्यनिमित्तासामर्थ्यस्य छलनिरनु-योज्यानुयोगयोरिति प्रसङ्गः स्यात्तदर्थं सिद्धमित्युक्तम् । तच्च पक्षधर्मत्वमित्यर्थः । तथा पक्षधर्मत्वमात्रं सदनुमानसाधारणमित्यतो समर्थमित्युक्तम् । असामर्थ्यं च व्याप्तिवैधुर्यमेव । न तु शक्तिवैकल्यं । तेन भगवद्दर्शनेन्द्रियस्य शक्तिपदार्थस्याभावात् अप्रसिद्धिरित्यपास्तम् । यद्यपि व्याप्तिपक्षधर्मतयोरन्यतरवैधुर्यादेव सर्वहेतोराभासत्वं भवति । तथाऽपि प्रकृतस्य हेतोः व्यप्तिमात्रवैधुर्यादपकृष्टं कल्पितं दूष्यं निरनु-योज्यानुयोगः । सति पक्षधर्मत्वे व्याप्तिवैधुर्यादपकृष्टमुत्तरं जातिरिति विवेकोऽत्र बोध्यः । मूलाख्यमंगं द्विधा विभजते ।। असामर्थ्यमिति ।।
अथ जातेर्विशेषलक्षणं वक्तुं तथेति विवक्षितं विभागोद्देशं करोति ताश्चेति ।। यद्यप्यत्र समशब्दस्य पौरोडाशिकसमाख्याते दर्शपूर्णमासकाण्डे सान्नाय्यपात्रे शुन्दध्वमिति शुन्धनमंत्रस्य समाख्याप्राप्तपौरोडाशिकपात्रसंबन्धबाधेन सन्निहित-सान्नाय्यपात्रसंबन्धवत् कार्यशब्देनैव संबन्धो युक्तस्तथाऽपि तत्र समाख्यासन्निधि-समवाये सन्निधेर्दुर्बलत्वत् दुर्बलसमाख्याबाधो युज्यते । इह तु प्रकरणसन्निधि-समवाये प्रकरणस्य बलीयस्त्वादभिषेचनीयसन्निधिसमाम्नातविदेवनादिधर्माणां सन्निधिबाधेन प्रकृतानेकसमप्रधानपश्चिमसोमयागात्मकराजसूयसंबंधवत् । विभागोद्देशे सामर्थ्यादीनां सर्वेषांमपि प्रकृतत्वात् द्वंद्वसमासेवति? पदार्थानां सर्वेषामपि समप्राधान्याच्च सन्निधिबाधेन समशब्दस्य प्रकरणात् सर्वबाधो युज्यत इति भावः । प्रमादश्चित्तस्यावधानाभावः । सभाक्षोभादिनान्वितविक्षेपो वा प्रति-भाक्षयस्तु सभादर्शननिमित्तं भयं सदुत्तरस्फुरणसामर्थ्यलोपो वा ज्ञेयः । भ्रान्तिवादिन इति शेषः ।