स्वपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः
प्रकरणसमः
प्रमाणलक्षणटीका
स्वपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः । यथा ‘विमतं मिथ्या दृश्यत्वात्’ इति । सत्यत्वेऽप्यस्य प्रयोक्तुं शक्यत्वात् । उभयत्र त्रैरूप्यञ्च वादिप्रतिवादिनोराभि-मानिकमिति नासम्भवः ।। २२६ ।।
प्रमाणलक्षणटीकाभावदीपः
ननु कथमेकस्य स्वपरपक्षसिद्धौ त्रैरूप्यं सम्भवेत् ? मिथ्यात्वपक्षे सपक्षभूते शुक्तिरूप्ये हेतोः सत्वेन भाव्यत्वात् , सत्यत्वपक्षे च शुक्तिरूप्यस्य विपक्षत्वेन ततो व्यावृत्या भाव्यत्वात्’ इत्यत आह ।। उभयत्रेति ।। शुक्तिरूप्ये हेतोः सत्त्वमिति मिथ्यावादिनोऽभिमानः सत्त्ववादिनो नेत्यभिमानः इति नासम्भव इत्यर्थः । अन्यथा सत्प्रतिपक्षेऽपि स्वपरपक्षयोर्व्याप्तिमत्त्वं हेतोरसम्भवि स्यात्’ इति भावः ।। २२६ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
अथ प्रकरणसमं लक्षयति ।। स्वपरपक्षेति ।। त्रिरूप इति ।। पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षात् व्यावृत्तिरिति रूपत्रयोपेतमित्यर्थः।
।। विमतं मिथ्येति ।। दृश्यत्वहेतोः पक्षे सत्त्वात् मिथ्याभूते शुक्तिरूप्ये सत्त्वात् विपक्षात् ब्रह्मणो व्यावृत्तत्वाच्च मायिमते त्रैरूप्यं द्रष्टव्यम् । तथा ‘विमतं सत्यं दृश्यत्वात्’ इति प्रयोगेऽपि दृश्यत्वहेतोः पक्षे सत्त्वात् सपक्षे ब्रह्मणि सत्त्वात् विपक्षाच्छुक्तिरूप्याद्यावृत्तत्त्वाच्च तत्त्ववादिमते त्रैरूप्यं द्रष्टव्यम् ।
ननु दृश्यत्वहेतोः कथम् उभयत्र त्रैरूप्यम् ? एकस्मिन् ब्रह्मणि दृश्यत्व-हेतोरभावभावयोः एकस्मिन्नेव रूप्ये दृश्यत्वतदभावयोश्च विरुद्धत्वेन लक्षणस्य असम्भवापत्तेः इत्यत आह ।। उभयत्रेति ।। स्वपरपक्षयोरित्यर्थः ।। २२६ ।।