न च वाच्यम् न निवृत्तपूर्वावस्थतया स्मृतिरर्थं विषयीकर्तुमीष्टे

तटस्थशङ्कापरिहारौ

प्रमाणलक्षणटीका

न च वाच्यम् न निवृत्तपूर्वावस्थतया स्मृतिरर्थं विषयीकर्तुमीष्टे । तथाऽननुभवात् । अननुभूतविषयत्वे अतिप्रसङ्गात् इति । अननुभूतैतावन्मात्रविषयत्वस्य साक्षि-सिद्धत्वेनातिप्रसङ्गायोगात् । तदिदमुक्तम् ।। यथार्थत्वानु-भवादिति  ।।

प्रमाणलक्षणटीकाभावदीपः

कुतो नेष्टे इत्यत आह ।। तथाऽननुभवादिति ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

तदाऽसौ तादृशः इति विषयीकरोति, इत्यनेन निवृत्तपूर्वावस्थतया अर्थविषयकत्वं स्मृतेरुक्तम् । तदनुपपन्नमिति तटस्थः शङ्कते ।। न च वाच्य-मित्यादिना । तथेति ।। निवृतपूर्वावस्थत्वेनेत्यर्थः ।। अतिप्रसङ्गादिति  ।। स्मृतेरननुभूतार्थविषयकत्वे अननुभूतानां काशीस्थपदार्थानामपि स्मरणप्रसङ्ग इत्यर्थः अयं भावः, पूर्वानुभवजनितः संस्कारः स्मृतिकारणम् । स च अनुभूतार्थविषय एव स्मृतिजननस्येष्टे, न अननुभूतार्थविषये । अतिप्रसङ्गात् ।

न च  अनुभवेन निवृत्तपूर्वावस्थतया अर्थो गृहीतः । तत् कथमनुभवसमान-विषयसंस्कारजन्या स्मृतिर्निवृत्तपूर्वावस्थतया अर्थं विषयीकुर्यात् ? इति । कुतो न वाच्यम् ? इत्यत आह ।। अननुभूतैतावन्मात्रविषयत्वस्येति ।। अननुभूतं यत् एतावन्मात्रं निवृत्तपूर्वावस्थत्वं तद्विषयत्वस्येत्यर्थः । स्मृतेरिति शेषः । इदमत्राकूतम्, भवेदेतदेवं यदि संस्कारमात्रजन्यत्वं स्मृतेरभ्युपगच्छामः । न चैवं यतो मनोजन्या स्मृतिः । संस्कारस्तु योगीन्द्रियाणां योगजधर्म इव मनसस्तत्तदर्थसंनिकर्षरूप एव । ततश्च संस्कारसहकृतं मनः अननुभूतामपि निवृत्तपूर्वावस्थां विषयीकुर्वत् स्मरणं जनयेदेव । तथा च अनुभवबलेन इत्थं सहकारिसामर्थ्यकल्पनात् नातिप्रसङ्गः ।

ननु स्मृतेः पूर्वावस्थानिवृत्तिविशिष्टार्थविषयकत्वेन  विशिष्टज्ञानत्वात् विशिष्ट-ज्ञाने च विशेषणज्ञानस्य कारणत्वात् विशेषणीभूतायाः पूर्वावस्थानिवृत्तेः पूर्वमननुभवात् स्मृतिरूपविशिष्टज्ञानस्यैवायोगः इति चेन्न । विशेषणविशेष्योभय-संनिकर्षाभ्यामेव विशिष्टज्ञानोत्पत्तौ विशेषणज्ञानस्यापि तत्र कारणत्वकल्पने मानाभावात् । न च अनुमितिरूपविशिष्टज्ञानविशेषे साध्यप्रसिद्धिरूपविशेषणज्ञान-विशेषस्य हेतुत्वदर्शनात् ‘यद्विशेषयोः कार्यकारणभावः असति बाधके तुत्सामान्ययोरपि’ इति न्यायेन सर्वत्रापि विशिष्टज्ञाने विशेषणज्ञानस्य कारणता इति वाच्यम् । मन्मते सामान्यलक्षणप्रत्यासत्त्यभावेन साध्यतावच्छेदकप्रकारक-यत्किंचित्साध्यविषयकप्रसिद्धेरेव कारणत्वेन विशेषणीभूतपक्षीयसाध्यविषयक-प्रसिद्धेः अकारणत्वात् । अन्यथा  अनुमितावेव पक्षरूपविशेष्यज्ञानस्यापि कारणतोपलम्भात् यद्विशेषयोरिति न्यायेनैव सर्वत्र विशिष्टज्ञाने विशेष्यज्ञानस्यापि कारणत्वापत्तेः ।

नन्वथापि इन्द्रियाणां वर्तमानमात्रग्राहित्वात् मनसोऽपि इन्द्रियत्वात् कथं निवृत्तपूर्वावस्थाविषयकस्मरणं  जनयेत् ? इति चेत् सत्यम्, इन्द्रियाणामियं सहजशक्तिः यद्वर्तमानमात्रग्राहित्वमिति । तथापि सहकारिसामर्थ्यात् शक्त्यन्तराविर्भावेन अवर्तमानविषयकज्ञानजनकत्वमपि तेषामुपलभ्यते । यथा वर्तमानमात्रग्राहित्वस्वभावस्यापि चक्षुषः संस्काररूपसहकारिसामर्थ्यात्  ‘सोऽयम्’ इति अतीतवर्तमानत्वविशिष्टप्रत्यभिज्ञारूपज्ञानजनकत्त्वम् एवं प्रकृतेऽपि संस्काररूपसहकारिसामर्थ्यात् मनसोऽपि पूर्वावस्थानिवृत्तिविषयकस्मरण जनकत्वं युक्तमेवेति । यथोक्तम् पद्धतौ सहकारिसामर्थ्यात् करणानां शक्त्यन्तराविर्भावबहुलमुपलम्भात् इति । उक्तं च अनुव्याख्याने ।

प्रत्यक्षं मानसं चैव यदाऽतीतार्थगोचरम् ।

तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् ।।

मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् ।

अतीतवर्तमानत्वधर्मिणी सा च दृश्यते ।।

न च सा स्मृतिमात्रार्था तदिदन्त्वग्रहैकतः ।

अतो न वर्तमानैकनियमः स्याद्ग्रहेऽक्षजे ।। इति ।

 ।। तदिदमुक्तमिति ।। तथा च यथार्थत्वस्य अननुभूतनिवृत्तपूर्वावस्था-विषयकत्वस्य इति यावत् । अनुभवात् साक्षिसिद्धत्वात् इति मूलार्थो द्रष्टव्यः ।

प्रमाणलक्षणटीकाविवरणम्

अनुभवसंस्कारस्मृतीनां समानविषयाणामेव कार्यकारणभावात् अतीतावस्थाविषयत्वं स्मृतेर्न संभवति ।

अनुभवाविषयत्वादित्यभिप्रेत्य शंकते । अतिप्रसंगादिति ।। न च वाच्यमिति संबन्धः । यथार्थत्वानुभवादिति । अनेन स्मृतेः यथार्थत्वस्य अनुभवाविषयातीता-वस्थाविषयत्वस्य साक्षिसिद्धत्वादिति मूलं व्याख्यातं भवति ।