त्रिविधमनुमानम् ..

अनुमानविभागः

प्रमाणलक्षणटीका

त्रिविधमनुमानम् । केवलान्वयि केवलव्यतिरेकि अन्वयव्यतिरेकीति  केचित् । साध्यधर्मवान् धर्मी पक्षः । साध्यसमानधर्मवान् धर्मी सपक्षः । साध्यतत्समानधर्मरहितो धर्मी विपक्षः । साध्यत्वाऽकारमन्तरेण स एव धर्मः साध्य-समानधर्मः । पक्षव्यापकं  सपक्षवृत्ति अविद्यमानविपक्षं केवलान्वयि । तद् द्विविधम् । सपक्षव्यापकं तदेकदेशवृत्तीति।  तद्यथा, धर्माधर्मौ कस्यचित् प्रत्यक्षौ प्रमेयत्वात्, गुणत्वा-दिति। पक्षव्यापकमविद्यमानसपक्षं विपक्षात् व्यावृत्तं केवल-व्यतिरेकि । तद्यथा, ईश्वरः सर्वज्ञः सर्वकर्तृत्वादिति ।

पक्षव्यापकं सपक्षवृत्ति विपक्षात् व्यावत्तमन्वयव्यतिरेकि पूर्ववत् सपक्षतदेकदेशवृत्तिभेदात् द्विविधम् । तद्यथा, जीवो नित्यः  नाशकारणशून्यत्वात्, चेतनत्वादिति । सर्वत्र निर्दोषत्वा-नुवृत्तेर्न बाधिताऽदौ प्रसङ्गः ।

तत्पुनर्द्विविधम्। दृष्टं सामान्यतो दृष्टं  चेति । प्रत्यक्ष-योग्यार्थानुमापकं दृष्टम् । यथा,धूमोऽग्नेः । प्रत्यक्षायोग्या-र्थानुमापकं सामान्यतोदृष्टम् । यथा, रूपादिज्ञानं चक्षुरादेः ।

पुनस्त्रिविधम् । कारणानुमानं कार्यानुमानं सामान्या-नुमानमिति । कारणं कार्यस्यानुमानमाद्यम् । यथा, विशिष्ट-मेघोन्नतिः वृष्टेः। कार्यं कारणस्यानुमानं द्वितीयम् ।  यथा, घूमोऽग्नेः । अकार्यकारणमकारणकार्यस्यानुमानं तृतीयम् । यथा, रसो रूपस्येति ।

प्रमाणलक्षणटीकाभावदीपः

अनुप्रमाणं त्रिविधम् इति धाप्रत्ययेन सूचितमवान्तरभेदं शिष्यव्युत्पादनाय स्वयमाह ।। त्रिविधमनुमानमिति ।। प्रत्यक्षावान्तरविभागं  तु  मूलकारः प्रत्यक्षं सप्तविधम् इति स्वयमेव वक्ष्यतीति तदनुक्तिः ।

उद्दिष्टानां त्रयाणां लक्षणं विवक्षुरादौ  अपेक्षितपक्षाऽदिलक्षणान्याह ।। साध्येति ।। सिषाधयिषितधर्मवानित्यर्थः । एतच्च  सपक्षादिनिरासाय । धर्मीत्युक्तिस्तु धूमाऽदिलिङ्गनिरासाय । तस्यापि व्याप्तिरूपसम्बन्धेन साध्यधर्मवत्वातू । एवमग्रेऽपि । अत एव विपक्षलक्षणे न धर्म्यनुप्रवेशः ।

समानत्वं प्रमेयत्वाऽदिनाह्रदाऽदेरप्यस्तीति धूमानुमाने  सपक्षतापत्तिरित्यत आह ।। साध्यत्वाऽकारमिति ।। स एवेति ।। व्यापकतावच्छेदकधर्माऽक्रान्त एवेत्यर्थः ।

।। पक्षव्यापकमिति ।। भागासिद्धिकेवलव्यतिरेक्यन्वयव्यतिरेकिणां क्रमात् पक्षव्यापकाऽदिविशेषणत्रयेण  निरासः ।। तद्यथेति ।। तत् उदाहरणं । यथा स्पष्टं  भवति तथा दर्शयिष्यामीत्यर्थः । एवमग्रेऽपि ।

पक्षव्यापकमिति प्र्राग्वत् । द्वितीयं केवलान्वयिव्यावृत्त्यर्थम् । तृतीयं अनैकान्तिकनिरासार्थम् । केवलव्यतिरेकिनिरासायाऽह ।। सपक्षवृत्तीति ।। चेतनत्वादिति ।। तस्य आकाशाऽदौ सपक्षैकदेशे असत्वात् जीवचेतने सत्वात् एकदेशवृत्तीति भावः ।

ननु‘धर्माधर्माऽद्यतीन्द्रियं दुःखज्ञानाऽदिमतः कस्यचित् प्रत्यक्षं प्रमेयत्वात् गुणत्वात्’ इति बाधिते‘विमतं अनिर्वचनीयम् बाध्यत्वात् व्यतिरेकेण ब्रह्मवत्’ इत्याद्यप्रसिद्धविशेषणे‘पर्वतो धूमवान् वह्निमत्वात्’  इति ह्रदाऽदिविपक्षव्यावृत्तेऽपि व्यभिचार्यन्वयव्यतिरेकिणि च अतिप्रसङ्ग इत्यत आह ।। सर्वत्रेति ।। उदाहृतकेवलान्वय्यादावित्यर्थः । इतिभेदात् त्रैविध्यम् 

केचित् इत्युक्त्या केवलान्वय्यादिभेदेन त्रेधा विभागे अरुचिं सूचयति । तद्बीजं तु पद्धत्याद्युक्तं ज्ञेयमिति भावः ।। रूपाऽदिज्ञानं चक्षुरादेरिति ।। रूपाऽदिज्ञानं करणसाध्यम् क्रियात्वात् जन्यक्रियात्वाद्वा छिदिक्रियावत् इत्येवमनुमापकमित्यर्थः ।। सामान्येति ।। अकार्यकारणानुमानमित्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

व्यतिरेकव्याप्तेरनङ्गत्वेन व्यतिरेक्यनुमानस्यैवायेगात्  त्रैविध्यमनुपपन्नमिति अन्यत्रोक्तं द्रष्ष्टव्यं इत्याशयेन ‘अत्र केचित्’ इति परमतानुवादमात्रमेव कृतमिति द्रष्टव्यम् । पक्षाऽदिघटिततया  केवलान्वय्यादिकं लक्षयितुं घटकत्वात् पक्षाऽदिलक्षणमाह ।। साध्यधर्मवानिति ।। साध्य-रूपधर्मवानित्यर्थः । सपक्षाऽदौ धर्मिण्यतिव्याप्तिवारणाय साध्यधर्मवानित्युक्तम्।

यत्प्रतीतिर्लिङ्गेन जनयितव्या स साध्यधर्मः  इति टीकाकारैः  मिथ्यात्वानुमानखण्डनटीकायामभिहितत्वात्  सिद्धिकर्मत्वमेव साध्यत्वं विवक्षितम् । अतो न सपक्षाऽदावतिव्याप्तिः । साध्यधर्मवत्वं संयोगसम्बन्धेन हेतावप्यस्ति, सम्बन्धस्यद्व्ययाश्रयत्वात् । अतस्तत्रातिव्याप्तिवारणाय धर्मीत्युक्तम् । तथा च साध्यधर्मनिरूपितसम्बन्धमात्रस्य हेतौ सत्वेऽपि धर्मिपदलब्धसाध्यधर्मा-धिकरणत्वस्य तत्राभावान्नातिव्यप्तिरिति भावः । सपक्षलक्षणे पक्षे अतिव्याप्तिवारणाय समानपदम् । महानसीये धूमेऽतिव्याप्तिवारणाय धर्मिपदम्।।

 ।। साध्यतत्समानधर्मरहित इति ।। साध्यरहितः तत्समानधर्मरहितश्चत्यर्थः। पक्षेऽतिव्याप्तिवारणाय साध्यरहितपदम् । सपक्षेऽतिव्याप्तिवारणाय तत्समानधर्मरहितपदम् । साध्यतत्समानधर्मरहिते  ह्नदत्वेऽतिव्याप्तिवारणाय धर्मिपदम् ।

नन्वेवमपि सपक्षलक्षणस्य पक्षविपक्षयोरतिव्याप्तिः साध्येन वह्निना  प्रमेयत्वेन समानो यो धर्मः पर्वतत्वह्नदत्वाऽदि तद्वत्वस्य सत्वात् । तथा विपक्षलक्षणस्यापि सपक्षेऽतिव्याप्तिः । साध्यरहितत्वस्य साध्येन  वह्मिना प्रमेयत्वेन समानभूतो यो धर्मः  ह्नदत्वाऽदिः तद्रहितत्वस्य च सत्वात् । अतः साध्यसमानपदार्थमाह ।। साध्यत्वाऽकारमिति ।।  सिद्धिकृर्मत्वरूपं साध्यत्वाऽकारमन्तरेण स एव धर्मो वह्निरूपधर्मःएव महानसेऽस्ति । नास्ति च पक्षे, हृदाऽदौ च विपक्ष इति न तयोरतिव्याप्तिः । एवं  विपक्षलक्षणस्यापि न सपक्षेऽतिव्याप्तिरिति भावः ।

केवलान्वयिलक्षणे ‘शब्दोऽभिधेयः चाक्षुषत्वात् घटवत्’  इति स्वरूपासिद्धे अतिव्याप्तिवारणाय पक्षवृत्ति इत्युक्तम् ।  एवमपि तस्यामेव प्रतिज्ञायां वर्णात्मकत्वात् इति भागासिद्धेऽतिव्याप्तिवारणाय  पक्षव्यापकम्  इत्युक्तम् । ‘सर्वमभिधेयं  प्रमेयत्वात् , इत्यत्रातिव्याप्तिवारणाय सपक्षवत्ति इत्युक्तम् । अत्र सर्वस्यापि पक्षत्वेन सपक्षस्यैवाऽभावेन  तद्वृत्तित्वाभावात् । अन्वयव्यतिरेकिणि धूमानुमानेऽतिव्याप्तिवारणाय अविद्यमानविपक्षम् इत्युक्तम् ।। गुणत्वादिति ।। तस्मिन्नेव साध्ये गुणत्वात् इति हेतुः  सपक्षैकदेशवृत्तिः, कस्यचित् प्रत्यक्षे गुणाऽदौ ,सत्वात् घटाऽदावभावात् ।

केवलव्यतिरेकिलक्षणे ‘घटः इत्तरेभ्यो भिद्यते अवस्तुत्वात्’ इति स्वरूपासिद्धे अतिव्याप्तिवारणाय पक्षवृत्तीत्युक्तम् । ‘जीवच्छरीरं सात्मकं नीलशरीरत्वात्’ इति भागासिद्धेऽतिव्याप्तिवारणाय पक्षव्यापकमित्युक्तम् ।  धूमवत्वाद्यन्वयव्यतिरेकिणि अतिव्याप्तिवारणायाविद्यमानसपक्षम् इत्युक्तम्  । ‘जीवच्छरीरं सात्मकं प्रमेयत्वात्’ इत्यत्रातिव्याप्तिनिरासाय विपक्षात् व्यावृत्तमित्युक्तम् । अत्र सर्वस्मात्  विपक्षात् व्यावृत्तमिति वक्तव्यम् । अन्यथा कतिपयविपक्षव्यावृत्ते ‘जीवच्छरीरं सात्मकं पृथिवीत्वात्’ इति हेतावतिव्याप्तिः स्यात् इति ध्येयम् ।

अन्वयव्यतिरेेकिलक्षणे ‘परमाणवोऽनित्याः कृतकत्वात्’ इति  स्वरूपासिद्धे अतिव्याप्तिवारणाय पक्षवृत्ति इति ‘वाङ्मनसे परमाणवश्च अनित्याः मूर्तत्वात्’ इत्यत्र भागासिद्धे अतिव्याप्तिवारणाय पक्षव्यापकम् इति, केवलव्यतिरेकिवारणाय सपक्षवृत्ति इति, केवलान्वयिनिरासाय  विपक्षात् व्यावृत्तम् इति उक्तमित्यवगन्तव्यम्। अत्रापि सर्वस्मात् इति  पूरणीयम् । अन्यथा ‘जीवच्छरीरं अनित्यं पृथिवीत्वात्’  इति पार्थिवपरमाणौ व्यभिचारिण्यतिव्याप्तिः स्यादिति ज्ञातव्यम् ।

 ।। पूर्ववदिति ।। सर्वसपक्षवृत्तिसपक्षैकदेशवृत्तिभेदात्  इत्यर्थः ।। चेतनत्वादिति ।। अयं  हेतुः सपक्षैकदेशवृत्तिः नित्ये ईश्वरे वृत्तेः गगनाऽदाववृत्तेः इति द्रष्टव्यम् ।

ननु केवलान्वयिलक्षणस्य ‘सर्वं तेजोऽनुष्णं पदार्थत्वात्’ इति बाधितेऽतिव्याप्तिः । केवलव्यतिरेकिलक्षणस्यापि  ‘शब्दशब्दत्वे अभिधेयत्वाभाववती श्रावणत्वात्’ इत्यत्र बाधितेऽतिव्याप्तिः । तथा अन्वयव्यतिरेकिलक्षणस्य ‘वैधी हिंसा अधर्मसाधनं हिंसात्वात्’ इत्यत्र बाधितेऽतिव्याप्तिः । अत आह ।। सर्वत्रेति ।। केवलान्वय्यादिलक्षणत्रयेऽपि निर्दोषोपपत्तिरनुमा इति सामान्यलक्षणस्थस्य निर्दोषत्वस्यात्राप्यनुवृत्तेर्न बाधिताऽदावतिव्याप्तिदोषप्रसङ्ग इत्यर्थः । निर्दोषत्वमात्रं तु प्रत्यक्षाऽगम-योरतिव्याप्तम् । अतः पक्षव्यापकत्वाऽदिभाग इति ज्ञातव्यम् ।। कार्यस्या-नुमानमिति ।। अनुमापकमित्यर्थः  । एवमुत्तरत्रापि । सामान्यानुमानमित्यस्य विवरणम् अकार्यकारणमिति ।

प्रमाणलक्षणटीकाविवरणम्

।। साध्यधर्मवानिति ।। अत्र च धर्मित्वमात्रं सपक्ष-विपक्षसाध्यहेतुसाधारणमतस्तन्निविृत्त्यर्थं पूर्वविशेषणं । तथाच सपक्षस्य समान-धर्मरहितत्वेन साध्यधर्मवत्त्वाभावात् । विपक्षस्य च साध्यतत्समानधर्मरहितत्वेन साध्यधर्मत्वाभावात् । हेतुसाध्ययोश्चान्यधर्मवत्त्वेऽपि साध्यधर्मवत्त्वाभावान्न तत्रातिव्याप्तिः । साध्यधर्मवत्त्वमात्रविवक्षायां साध्यधर्मे हेतौ चातिव्यप्तिः । साध्यधर्मवत्त्वस्य साध्यधर्मसंबन्धवत्वरूपत्वात् संबंधस्य च द्व्याश्रितत्वेन पक्ष इव सध्यधर्मेऽपि विद्यमानत्वात्तत्परिहारार्थं धर्मिपदं ।

नचैवं धर्मिपदे दत्तेऽप्यतिव्याप्तिस्तदवस्थैव धर्मिपदस्यापि धर्मवत्त्व-मात्रप्रतिपादकत्वे वा तस्यापि तथात्वादिति वाच्यं । धर्मिपदमहिम्ना साध्यं धर्माधिकरणत्वस्य लाभेन साध्यधर्मस्य साध्यधर्मसंबंधवत्वेऽपि साध्यधर्माधि-करणत्वाभावात् व्यर्थं सत् किंचिद् ज्ञापयतीति न्यायेन व्यर्थस्य धर्मिपदस्य तज्ज्ञापकत्वोपपत्तेः ।

नचैवं साध्यस्य धर्मत्वोक्त्या तदधिकरणस्य मत्वर्थस्य तावन्मात्रेणैव लब्धत्वात् धर्मिपदमनर्थकमिति वाच्यं । धर्मिपदेन तदधिकरणत्वलाभसंभवात् । उपासनं धर्मस्नानं धर्म इत्यादौ तत्संबंधमात्रेऽपि धर्मपदप्रयोगात् । तत्रच होमधधिकरणत्वं न संभवति । त्यागरूपत्वात् तस्येति । तथाच स्वरूपकथनार्थमेतद् विशेषणमिति बोध्यम् ।

द्वितीये धर्मित्वमात्रं पक्षविपक्षदिसाधारणमतः साध्यसमानेति ।। तावन्मात्रं च साध्यसमानधर्मेऽपीत्यतो धर्मिपदं । तृतीयेऽपि धर्मित्वमात्रं पक्षसाधारणमतः साध्यधर्मरहित इति ।। तावन्मात्रं सपक्षे गतमतः समानधर्मरहित इति ।।

ननु तथाऽपि साध्यसमानधर्मवानिति सपक्षलक्षणमयुक्तं । तथाहि । साध्यसमानधर्मवत्वं नाम साध्यसदृशधर्मवत्वं । तत्र सादृश्यं किमसाधारणाकारेण उत प्रमेयत्वादिसाधारणाकारेण वा ।

नाद्यः । पक्षस्यापि सपक्षत्वापातात् । तस्यापि साध्यत्वाकारेण तत्समान-धर्मवत्वात् । सपक्षे व्याप्तिश्च । तस्यापि साध्यत्वाकारेण तत्समानधर्मवत्वाभावात्।

न द्वितीयः । प्रमेयत्वादिनासाध्यसमानधर्मवत्त्वस्यापि पक्षेऽपि सत्त्वेन तत्रातिव्याप्तेरिति तत्कथमेतदित्यत आह ।। साध्यत्वाकारमन्तरेणेति ।। साध्यत्वातिरिक्तासाधारणधर्मपुरस्कारेण साध्यसमानधर्मवान् सपक्ष इत्यर्थः । अत्रच प्रमेयत्वादिव्यावृत्तये असाधारणेति ।। साध्यत्वाकारव्यावृत्तये तदतिरिक्तमित्युक्तं ।

यदर्थं पक्षादिलक्षणमुक्तं तत्स्वरूपमिदानीं निरूपयति ।। पक्षव्यापक-मित्यादिना ।। पक्षतावच्छेदकव्यापकमित्यर्थः ।

इदं च पर्वतमोहनसावभिधेयौ पवर्ततेतरत्वादित्यादौ भागासिद्धकेवलन्वयि-निरासाय पक्षव्यापकेमविद्यमानविपक्षं केवलान्वयीत्येवोक्ते सर्वमभिधेयं प्रमेयत्वादित्यनुपसंहारिण्यतिव्याप्तिः स्यात् पक्षव्यापकत्वात् सर्वस्याप्यभिधेयत्वेन अभिधेयत्वरूपसाध्यधर्मरहितस्य कस्याप्यभावेन अविद्यमानविपक्षत्वाच्च सपक्षवृत्तीत्युक्तम् । तच्च न सपक्षवृत्ति सर्वस्य पक्षत्वेन सपक्षस्यैवाभावात् ।

पक्षव्यापकं सपक्षवृत्तीत्येवोक्ते अन्वयव्यतिरेकिणि धूमेऽतिव्याप्तिः। तस्यापि पक्षवृत्तित्वे सति सपक्षवृत्तित्वात्। अत उक्तमविद्यमानविपक्षमिति। तथाच तस्य विद्यमनाविपक्षत्वाभावात् नातिव्याप्तिः । सपक्षवृत्त्यविद्यमानविपक्षमित्येवोक्ते शब्दोऽभिधेयः चाक्षुषत्वादित्यत्राभिधेयत्वरूपसाध्यवद्घटादिवृत्तित्वेन सपक्षवृत्तित्वादभिधेयत्वाभावस्य कुत्राप्यभावेनाविद्यमानसपक्षत्वाच्च तत्रातिव्याप्तिः, तत्परिहारार्थं पक्षव्यापकमित्युक्तम् । तथा च चाक्षुषत्वस्य पक्षे शब्देऽभावात् नातिव्याप्तिः । तथा च पक्षतावच्छेकव्यापकं सपक्षवृत्ति अविद्यमानविपक्षं केवलान्वयीत्युक्तं भवति ।। धर्माधर्माविति ।। प्रत्यक्षत्वरूप-साध्यवतद्रूपादिलक्षणगुणमात्रवृत्तित्वात् गुणत्वस्य तदैकदेशवृत्तित्वं द्रष्टव्यम् ।

।। पक्षव्यापकमिति ।। अत्र पक्षव्यापकं विपक्षाद् व्यावृत्तं केवलव्यतिरेकी-त्युक्तेऽन्वयव्यतिरेकिणि धूमादावतिव्याप्तिः, तदर्थं अविद्यमानसपक्षमिति ।

पक्षव्यापकमविद्यमानसपक्षमित्युक्ते घट इतरेभ्यो भिद्यते प्रमेयत्वादित्यत्र पक्षव्यापकत्वात् घटादिप्रतियोगिकेतरभेदस्य साध्यस कुत्राप्यभावेनाविद्यमान-सपक्षत्वाच्च तत्रातिव्याप्तिः, तत्परिहारार्थं विपक्षाद् व्यावृत्तमिति ।

तथाच घटादौ पटादिप्रतियोगिकभेदाभावेन इतरभेदरूपसाध्याभाववद्घटादि-वृत्तित्वेन विपक्षात् व्यावर्त्यत्वाभावेन नातिव्याप्तिः, घट इतरेभ्यो भिद्यते वस्तुत्वादि-त्यविद्यमानसपक्षे विपक्षाद् व्यावृत्ते च तत्रातिव्याप्तिरतः पक्षवृत्तीति उक्तम् ।पृथिवी इतरभिन्ना चित्ररूपवत्त्वादिति भागासिद्धेऽतिव्याप्तिरतः पक्षव्यापकमित्युक्तम् ।

पक्षव्यापकं विपक्षाद् व्यावृत्तं अन्वयव्यतिरेकीत्युक्ते पृथिवी इतरभिन्ना पृथिवीत्वादित्यत्र व्यतिरेकिण्यतिव्याप्तिः । तस्यापि पक्षव्यापकत्वाद् विपक्षे अबादौ अवृत्तित्वाच्चात उक्तं सपक्षव्वृत्तीति । तस्य च सपक्षस्यैवाभावान्नातिव्याप्तिः । पक्षव्यापकं सपक्षवृत्ति अन्वयव्यतिरेकीत्युक्ते केवलान्वयिनि व्याप्तिः, तत्परिहारार्थं विपक्षाद् व्यावृत्तमिति तस्य वा विद्यमानविपक्षत्वेन विपक्षाद् व्यावृत्तत्वाभावा-न्नातिव्याप्तिः ।

सपक्षवृत्ति विपक्षाद् व्यावृत्तमित्युक्ते परमाणव अनित्या कृतकत्वादित्यत्र अतिव्याप्तिः, तस्यापि घटादिरूपसपक्षवृत्तित्वात् गगनादिव्यावृत्तत्वाच्च, तत्परिहारार्थं पक्षवृत्तीति।।  पृथिवी इतरभिन्ना चित्ररूपत्वादिति व्यतिरेकिण्यति-व्याप्तिपरिहारार्थं व्यापकपं नाशकारणशून्यत्वादिति नित्यत्ववत् गगनादौ नाशकारणशून्यत्वस्य सत्त्वेन सकलसपक्षवृत्तित्वं इतरस्य च तदेकदेशेश्चर-मात्रवृत्तित्वेन तदेकदेशवृत्तित्वं ज्ञातव्यम् ।

ननु केवलान्वय्यादिलक्षणमयुक्तं सर्वं तोजोऽनुष्णं पदार्थत्वादित्यत्र विद्यमानत्वात् तस्यापि पक्षव्यापकत्वात् अनुष्णत्वरूपसाध्यवज्जनलादिवृत्तित्वेन सपक्षवृत्तित्वात् अनुष्णत्वत्वाभावस्य कुत्राप्यभावेन विपक्षासत्त्वाच्च । तथा द्वितीयस्य शब्दोऽभिधेयत्वाभाववान् श्रावणत्वादित्यत्र विद्यमानत्वात् तस्यापि पक्षीकृते शब्दे वृत्तित्वेन पक्षव्यापकत्वात् अभिधेयत्वाभावस्य कुत्राप्यभावेन सपक्षशून्यत्वादभिधेयत्वाभावरूपसाध्याभावाभिधेयत्ववद्घटादिव्यावृत्तत्वेन विपक्षाद् व्यावृत्तत्वस्यापि विद्यमानत्वात् । तृतीयस्य वैधी हिंसा धर्मसाधनं हिंसात्वादित्यत्र सत्त्वात् हिंसात्वस्य पक्षीकृतहिंसाव्यापकत्वेन पक्ष-व्यापकत्वेनाधर्मसाधनत्वरूपसाध्यवति सत्त्वेन सपक्षवृत्तित्वेन तदभाववति हिंसात्वस्याभावेन विपक्षाद् व्यावृत्तत्वस्य विद्यमानत्वात् तथा च बाधितादौ विद्यमानत्वेन अतिव्यापकमेतल्लक्षणमित्यत आह ।। सर्वत्र निर्दोषत्वानुवृत्तेरिति ।। अबाधितविषयत्वासत्प्रतिपक्षत्वार्थकनिर्दोषत्वस्यापि लक्षणत्रयेऽभिप्रेतत्वा-दित्येवाभिप्रेतम् ।

ननु निर्दोषोपपत्तिरनुमानमित्यतो निर्दोषत्वस्यानुवृत्तिरपि आचार्यीयलक्षण-वाक्यान्तर्गतनिर्दोषत्वस्य तयोत्तरलक्षणवाक्येष्वनुवृत्त्सिम्भवेऽपि परकीय-लक्षणवाक्ये अत्र निर्दोषत्वानुवृत्तेरयोगादिति ज्ञेयम् । नचैवं निर्दोषत्वमात्रेणैव पूर्णत्वादितरवैयर्थ्यमिति शङ्क्यम् । यथा निर्दोषवाक्यमागम इत्यत्रासन्नि-हितत्वादिदोषराहित्यस्य वाक्यपदेन सिद्धावपि तदतिरिक्तदोषपरिहारार्थं निर्दोषपदम् । एवमत्रापि केषाञ्चित् दोषाणां निर्दोषपदेन राहित्यस्य विवक्षितत्वात्।

।। पुनरपीति ।। न केवलं परोक्तप्रकारेण त्रिविधं अपि तु द्विविधमपि न पुनः न शब्दो वाक्यालङ्कारो प्रत्यक्षयोग्य इति । अनुमापकत्वमात्रस्य सामान्यतो दृष्टसाधरणत्वात् पूर्वभागः प्रत्यक्षयोग्यार्थो दृष्टमित्योवोक्ते घटादावतिव्याप्तिः अतः अनुमापकमित्युक्तम् ।। यथा धूम इति । प्रत्यक्षयोग्यार्थानुमापकत्वादिति भावः। प्रत्यक्षयोग्येति ।। अनुमापकत्वमात्रं दृष्टसाधारणमतः पूर्वभागः । प्रत्यक्षयोग्यार्थत्वमात्रं गगनादिसाधारणमत उत्तरभाग इति बोध्यम् ।। यथेति ।। विमतः चक्षुष्मान् रूपज्ञत्वात् इति रूपज्ञानं तत्साधनमिति भावः। ।। रसो रूपस्येति ।। विमतो रूपवान् रसवत्त्वादिति यथेत्यर्थः।