निर्दोषोपपत्तिरनुमानम्

अनुमानसामान्यलक्षणम्

अनुमानलक्षणमाह

प्रमाणलक्षणम्

निर्दोषोपपत्तिरनुमानम्

प्रमाणलक्षणटीका

उपपत्तिरिति लिङ्गमुच्यते । साहचर्यबलेनार्थगमकं लिङ्गम् । निर्दोषग्रहणमनुमानाऽभासव्युदासार्थम् । व्याप्त्याद्यनुमानलक्षणरहितोऽनुमानवदवभासमानोऽनुमानाभासः । उपपत्तिग्रहणं प्रत्यक्षाऽदिव्यावृत्त्यर्थम् । उपपत्तिश्च यथार्थतो ज्ञातैवार्थं बोधयति । अन्यथाऽतिप्रसङ्गात् ।

प्रमाणलक्षणटीकाभावदीपः

उपपत्तिर्घटनेति भ्रमनिरासायाऽह ।। लिङ्गमिति ।। यद्वा अग्रेतन ग्रन्थोपक्षेपायोक्तम् लिङ्गमिति । घटः क रीर इत्युक्तेरिव पुनरुक्तिदोषनिरासायोक्तम्  उच्यत  इति । किं लिङ्गम् ?  इत्यत आह ।। साहचर्यनियमबलेति ।।

यद्यपि इदं  ‘गिरिः अग्निमान् प्रमेयत्वात्’ इत्यादौ साधारणानैका-न्तिकेऽतिव्याप्तम् अतः साह्य्यर्थ नियमबलेनेति वाच्यम् तथाऽपि निर्दोषत्व-ग्रहणेनैव तन्निराससम्भवात् न नियमांश उपात्तः । अत एवाऽह ।। निर्दोषग्रहणमिति ।। व्याप्त्यादीति ।। आदिपदेन पक्षधर्मता वा समुचितदेशवृत्तित्वं वा ग्राह्यम् ।

 ।। अनुमानवत् अवभासमान इति ।।  तादृशश्च प्रागुक्तप्रमेयत्वाऽदि-हेतुर्ज्ञेयः । पूर्वदलेन सदनुमानव्यावृत्तिः । उत्तरदलेन प्रत्यक्षाऽदिनिरासः ।। उपपत्तिग्रहणमिति ।। निर्दोषमर्थगमकमनुमेत्युक्ते प्रत्यक्षाऽगमयोरतिव्याप्तिः । अतो निर्दोषं साहचर्यबलेनार्थगमकमित्युक्तमित्यर्थः ।

ननु साहचर्यबलेनार्थगमकस्य लिङ्गत्वे गृहस्थं प्रति पर्वतधूमाऽदेर्गमकत्व-प्रसङ्गात् । धूलीपटलत्वाऽदिना अन्यथाज्ञातस्य च तत्प्रसङ्गात् इत्यत आह ।। उपपतिश्चेति ।। लिङ्गं चेत्यर्थः । व्याप्त्याद्यनुसन्धानसहिता इत्यर्थ इत्यपि ज्ञेयम् । ‘स तदा वह्निमान्  तदा धूमवत्वात्’ इत्याद्यतीतानागतसाधारण्येनोपपत्ति-ज्ञानमेवार्थगमकम् न तूपपत्तिः । सा तूपपत्तिः ज्ञानगतेरव्यावर्तकधर्मज्ञापिकैव । अत एव सुधायां ‘‘न  धूमाऽदिकमेवानुमानं, किं तु तज्ज्ञानम्’’ इत्युक्तम् ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

।। निर्दोषोपपत्तिरिति ।। नन्वत्र निर्दोषग्रहणस्य कृत्यमस्ति न  वा ? नास्ति चेत् न कर्तव्यमेव । यद्यस्ति तर्हि युक्त्युपपत्तिशब्दयोः पर्यायत्वात्  अनुमा युक्तिरेवोक्ता इत्यत्रापि निर्दोषत्वविशेषणं देयमेव स्यात् इति चेत् । उच्यते । अस्ति खलु शब्दानां मुख्यामुख्यभेदेन द्वयी  वृत्तिः । एवं च उपपत्तिशब्दात् समीचीनोपपत्ताविव तदाभासेऽपि प्रतिपत्तावुत्पन्नायां  तह्यवच्छेदेन मुख्यार्थोप-दर्शनार्थं अत्र निर्दोषग्रहणं कृतम् अनैकान्तिको हेतुः इतिवत् ।  तत्र पुनरन्त-र्गतनिर्दोषत्वं  मुख्यमेवार्थमुपादाय युक्तिरित्येवोक्तमित्यवगन्तव्यम् ।

।। निर्दोषेति ।। अत्र प्रमाप्रतिबन्धकत्वं दोषत्वम् । प्रमाप्रतिबन्धकत्वं च द्वेधा । सर्वथा ज्ञानाजनकत्वेन ज्ञानजनकत्वेऽपि संशयविपर्ययजनकत्वेनेति ज्ञातव्यम् । यथोक्तम् पद्धतौ, ‘यत्सद्भावे लिङ्गाभिमतं ज्ञानमेव न जनयति संशयविपर्ययौ वा करोति ते दोषा’ इति ।

अनुमानलक्षणान्तर्गतनिर्दोषपदव्यावर्त्यत्वेन प्रसक्तानुमानाऽभासलक्षणमाह ।। व्याप्त्यादीति ।। आदिपदेन समुचितदेशसिद्धिपरिग्रहः । व्याप्त्यादिग्रहण-सापेक्षार्थप्रमापकत्वाऽदिरूपानुमानलक्षणेत्यर्थः । सदनुमानव्यावत्तये पूर्वभागः । घटाऽदिव्यावृत्तये विशेष्यभाग इति  द्रष्टव्यम् ।। ज्ञातैवेति ।। न प्रत्यक्षवद-ज्ञातेत्यर्थः । अज्ञातकरणत्वे बाधकमाह ।। अन्यथेति ।। पर्वते धूममजानतो गृहस्थस्याप्यनुमित्यापत्तिरित्यतिप्रसङ्ग इत्यर्थः ।

प्रमाणलक्षणटीकाविवरणम्

उपपत्तिशब्दार्थमाह ।। उपपत्तिरिति ।। साहचर्येति ।। अत्र टीकायां साहचर्यतन्नियमरूपव्याप्तौ नियमांशत्यागेन साहचर्यमात्राभिधानं तदावश्यकं । निर्दोषग्रहणादेव साधारणादौ नातिव्याप्तिरित्यभिप्रेत्येति ध्येयम् ।

।। निर्दोषग्रहणमिति ।। नचैवमनुमा युक्तिरेवोक्तेत्यनुव्याख्याने नतु निर्दोषत्वविशेषणविशेषितेति सुधाया च विरोध इति शंक्यं । तत्र युक्तिशब्दस्य यथार्थानुमितिजनकत्वरूपमुख्यार्थस्य विवक्षितत्वात् । अत्रच तदभावात् । अत एवोक्तं सुधायां । ‘‘अत्र पुनरन्तर्गतनिर्दोषत्वं मुख्यमेवार्थमुपादाय युक्तिरेवोक्ता’’ इति ।

अनुमानाभासः सव्यभिचार्यादिः, पद्धत्युक्तरीत्योपपत्तिशब्दस्य व्याप्यपरत्वे त्वसिद्धिव्युदासार्थं तदिति ज्ञेयं ।। साहचर्येति ।। अत्र टीकायां साहचर्य-नियमरूपव्याप्तौ नियमांशत्यागेन साहचर्यमात्राभिधानं तदावश्यकनिर्दोषग्रहणादेव साधारणादौ नातिव्याप्तिरित्यभिप्रेत्येति ध्येयं ।

अनुमानलक्षणगतनिर्दोषपदव्यावर्त्यत्वेन प्रसक्तानुमानाभासलक्षणमाह ।। व्याप्त्यादिरिति ।। आदिपदेन समुचितदेशसिद्धिपरिग्रहः । विशेष्यमात्रं सदनुमानसाधारणमित्यतः पूर्वभागः । विशेषणमात्रस्य च घटादिसाधारणत्वा-त्तद्व्यावृत्यर्थमुत्तरभागः ।

ननु प्रत्यवक्षवत् उपपत्तिरपि किमज्ञातैव हेतुः, उत ज्ञातेति जिज्ञासायामाह ।। उपपत्तिश्चेति ।। अन्यथेति ।। पर्वते धूमज्ञानस्यानुमितिकरणत्वाभावे स्वरूपतस्तस्मिन् विद्यमाने गेहस्थस्य तद्भनापतिरित्यतिप्रसङ्ग इत्यर्थः ।