तर्कपराहतिश्च प्रागुदिताऽत्माश्रयाऽदिप्रसङ्गदुष्टत्वमिति

तर्कपराहतिः 

प्रमाणलक्षणटीका

तर्कपराहतिश्च प्रागुदिताऽत्माश्रयाऽदिप्रसङ्गदुष्टत्वमिति ।। २४ ।।

प्रमाणलक्षणटीकाभावदीपः

।। प्रागुदितेति ।। आत्माश्रयान्योन्याश्रयेत्यादिवाक्यव्याख्या-वसरे इति भावः ।। २४ ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

ननु क्रमप्राप्तं तर्कपराहतिरूपं निग्रहस्थानं कस्माद्विविच्य न प्रदर्श्यत इत्यत आह ।। तर्कपराहतिश्चेति ।। प्रागिति ।। आत्माश्रयान्योन्या-श्रयेत्यादिनेत्यर्थः । तथा च भगवत्पादैरेव विविच्य तस्याः प्रदर्शितत्वात् नास्माभिः प्रदर्श्यत इति भावः ।। २४ ।।

प्रमाणलक्षणटीकाविवरणम्

ननु तर्कपराहतिः कुतो नोक्तेत्यत आह ।। तर्केति ।। तथा च पूर्वमेवोक्तत्वान्नोच्यत इति भावः ।

Load More