प्राप्तिपक्षनिरासेन अप्राप्तिपक्षं शेषयित्वा तद्दूषणम् अप्राप्तिसमः

अप्राप्तिसमजातिः

प्रमाणलक्षणटीका

प्राप्तिपक्षनिरासेन अप्राप्तिपक्षं शेषयित्वा तद्दूषणम् अप्राप्तिसमः । यथा, पूर्ववत् प्राप्तिपक्षस्य दुष्टत्वात् अप्राप्य इति वक्तव्यम् । न च तत् युक्तम् । न हि अप्राप्याग्निः काष्ठं दहति । न हि अप्राप्य दीपः प्रकाश्यं प्रकाशयति ।

प्राप्तावुक्तानुपपत्तिदर्शनमुत्थानहेतुः । साध्यप्राप्तेर्हेतु-विशेषणत्वेन विशेषणासिद्धिरारोप्या । पुर्ववत् दुष्टत्वमूलम् इति ।। ९ ।।

प्रमाणलक्षणटीकाभावदीपः

।। दुष्टत्वादिति ।। हेतोर्विशेषणासिद्धत्वरूपदोषयुक्तत्वप्रसङ्गात् इत्यर्थः ।। विशेषणत्वेन  इत्यनन्तरं इह च तदभावात् इति योज्यम् ।। पूर्ववद्दुष्टत्व-मूलमिति ।। ‘नायं हेतुः साधकः विशेषणासिद्धत्वात्’ इति प्रतिषेधहेतावपि प्रतिषेधेन प्राप्तिपक्षं निरस्य परिशिष्टाप्राप्तिसिद्धेः  विशेषणासिद्धेः सुवचत्वात् व्याघातः अप्राप्तिसमजातेर्दुष्टत्वमूलं ज्ञेयमित्यर्थः ।। ९ ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

अप्राप्य साधयेत्साध्यं हेतुः सर्वं च साधयेत् ।

अप्राप्तेरविशिष्टत्वादित्यप्राप्तिसमस्थितिः ।।

इतिकारिकानुसारेण अप्राप्तिसमजातिं लक्षयति ।। प्राप्तिपक्षेति ।। इयमपि कृतिज्ञप्तिसाधारणी जातिः ।। पूर्ववदिति ।। कृतौ ज्ञप्तौ च उक्तरीत्या अनुमानवैयर्थ्य-प्रसङ्गेन प्राप्तिपक्षस्य दुष्टत्वादित्यर्थः ।। अप्राप्येतीति ।। धूमवत्त्वज्ञानं अग्नि-मत्त्वज्ञानम् एवं धूमवत्त्वज्ञानं अग्निं च अप्राप्यैव उत्पादयति ज्ञापयति च इति वक्तव्यमित्यर्थः । कुतो न युक्तम् ? इत्यतः कृतिपक्षे अतिप्रसङ्गं सूचयति ।। न हीति ।। तथा च ‘अप्राप्याप्यग्निः काष्ठदाहं कुर्यात् इत्यतिप्रसङ्ग इति भावः । ज्ञप्तिपक्षे अतिप्रसङ्गं सूचयति ।। न हीति ।। तथा च ‘अप्राप्यापि दीपः प्रकाश्यं प्रकाशयेत्’ इत्यतिप्रसङ्ग इति भावः ।

।। अनुपपत्तीति ।। अनुमानवैयर्थ्यानुपपत्तीत्यर्थः ।। हेतुविशेषणत्वेनेति ।। अप्राप्तिपक्षे च तदनङ्गीकारात् विशेषणासिद्धिरित्यर्थः ।। पूर्ववदिति ।। प्राप्तिसमवदेव व्याघातरूपं दुष्टत्वमूलं द्रष्टव्यमित्यर्थः । तथा हि ‘नायं धूमवत्त्वहेतुः साध्यसाधकः विशेषणासिद्धत्त्वात्’ इति प्रतिषेधहेतावपि प्राप्तिपक्षस्य अनुमानवैयर्थ्येन दुष्टत्वात् विशेषणासिद्धत्वज्ञानं असाधकत्वज्ञानं असाधकत्वं च अप्राप्यैव उत्पादयति ज्ञापयति च इति वक्तव्यम् तदयुक्तं अतिप्रसङ्गात् इति स्वन्यायेन व्याघात इति ।। ९ ।।

प्रमाणलक्षणटीकाविवरणम्

।। पूर्ववदिति ।। सा चैव प्राप्तिरिति अनुमानवैय्यर्थ्यमिति कारणात् प्राप्तिपक्षौ न संभवति ।। पूर्ववदिति ।। अयं भावः ।। प्रतिषेधहेतावपि प्राप्तिपक्षस्य दुष्टत्वादप्रामाण्येन वक्तव्यम् । तच्च न संभवति । अप्राप्योत्पादकत्वे ज्ञापकत्वे वाऽतिप्रसंगात् । तस्मादप्राप्यापि न संभवतीति स्वव्याहतिरिति ।। कारणादीत्यत्र आदिपदेन प्रमाणसंग्रहः ।। ९ ।।