अथ वा पूर्वमित्यनेन कार्त्स्न्येनेशविषयत्वं

प्रकारान्तरेण व्याख्यानम्

प्रमाणलक्षणटीका

अथ वा पूर्वमित्यनेन कार्त्स्न्येनेशविषयत्वं लक्षणा-न्तरमीशज्ञानस्य सूचितम् । तत्र कार्त्स्न्येनेति लक्ष्म्यादि-ज्ञानव्युदासः । कृत्स्मजगद्विषयं लक्ष्मीज्ञानमपि भवतीतीश-ग्रहणम् । ईशेन्येभ्योऽधिकमसार्वत्रिकमिति लक्ष्मीज्ञानस्य लक्षणान्तरम् । ईशग्रहणं स्वरूपकथनार्थम् । असार्वत्रिकत्वा-संभवनिवृत्त्यर्थं च । अन्येभ्योधिकमिति ब्रह्मादिज्ञानव्युदासः। असार्वत्रिकमिति ईशज्ञाननिरासः । ईशेऽसार्वत्रिकमन्यत्र सर्वविषयमिति तल्लक्षणान्तरम् ईशादन्यत्रग्रहणं व्याघातपरि-हारार्थम् । ईशेऽसार्वत्रिकमिति ईशज्ञाननिवृत्तिः । अन्यत्र सर्वविषयमित्यस्मदादिज्ञानव्युदासः । ऋजुज्ञानेतिव्याप्ति-परिहारायानालोचनेऽपीति ग्राह्यम् । तस्याऽलोचने अन्यत्र सर्वविषयत्वं वक्ष्यति । स्पष्टत्व इत्यनेनापि निरतिशयस्पष्टं ईशज्ञानं, ईशज्ञानमेव यतोऽधिकस्पष्टं तत् लक्ष्मीज्ञानम् इत्यनयोर्लक्षणान्तरं सूचितं भवति ।

प्रमाणलक्षणटीकाभावदीपः

लक्षणोक्तिप्रस्तावे स्वरूपकीर्तनमरोचयमान आह ।। अथ वेति ।। अस्मिन् पक्षे परगतेत्याद्यंशस्य वैयर्थ्यात् पूर्वयोजनेति भावः । अन्येभ्यो ब्रह्मादिज्ञानेभ्योधिकविषयम् इत्येतावता ब्रह्मादिज्ञाननिरासात् ‘ईशेऽन्येभ्योधिकम्’इति वाक्ये र्ईश इति व्यर्थम् इत्यत आह ।। ईशग्रहणमिति ।। स्वरूपकथनार्थम् । न तु अतिव्याप्त्यादिवारणार्थम् । कृत्यान्तरं चास्तीत्याह ।। असार्वत्रिकत्वेति ।। जगति सार्वत्रिकत्वात् इति भावः ।। अन्यत्रेति ।। ईशात् इति योज्यम् ।। व्याघातेति ।। तथा च असम्भवनिरासः फलमिति भावः ।।। तस्येति ।। ऋजुज्ञानस्येत्यर्थः ।। वक्ष्यतीति ।। अनुपदमेवेति योज्यम् ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

पूर्वं स्वपरगतेत्यादिवाक्यपञ्चकं ईश्वरज्ञानलक्ष्मीज्ञानयोः विशेेषप्रतिपादनपरतया व्याख्याय इदानींतयोर्लक्षणकथनपरतयाऽपि व्याचष्टे ।। अथ वेत्यादिना ।। लक्षणान्तरमिति ।। स्वातन्त्र्यपारतन्त्र्याभ्याम् इति वाक्येनैव एकस्य लक्षणस्योक्तत्वात् इति भावः । प्रयोजनाभावेन स्वरूपकथनपरत्वोक्ता-वपरितोषादाह ।। असार्वत्रिकत्वेति ।। ईशपदाभावे लक्ष्मीज्ञानस्य जगद्गत-सर्वविशेषविषयकत्वेन जगद्विषये असार्वत्रिकत्वाभावात् असम्भवः स्यात् । अत ईशग्रहणम् । तथा च ईशे असार्वत्रिकम् इति सम्बन्धः । तथा च असम्भव-परिहारकत्वात् ईशग्रहणं सप्रयोजनमिति भावः ।। अन्यत्रेति ।। ईशात् अन्यत्रेत्यर्थः ।। तल्लक्षणान्तरमिति ।। तस्य लक्ष्मीज्ञानस्य लक्षणान्तरमित्यर्थः ।। व्याघातेति ।। अन्यत्र इति पदाभावे र्ईशे असार्वत्रिकं र्र्र्ईशे सर्वविषयम् इति प्रतीयते । अतो व्याघत इत्यर्थः ।।

अनालोचनेऽपीति ग्राह्यमिति ।। अपिशब्दो भिन्नक्रमः । तथा च अनालोचन इत्यपि विशेषणं ग्राह्यमित्यर्थः । यद्वा अपिशब्दो विशेषणान्तरसमुच्चायकः । तेन सर्वदा इति सिद्ध्यति । अतो मुक्त्यवस्थाऽऽपन्नर्जुज्ञाने अनालोचने सर्वविषये नातिव्याप्तिः । यद्वा अपिशब्दोऽवधारणार्थः अनालोचन एवेति । तेनालोचनव्युदासः अन्यत्रानालोचनेऽपि सर्वविषयं लक्ष्मीज्ञानम् इति पद्धतावपि अपिशब्दः सदा इति विशेषणान्तरसमुच्चायकतया अवधारणार्थतया वा व्याख्येयः ।

एवं च, अत्र पद्धतौ च अनालोचनेऽपीत्यपिशब्देन लक्ष्मीज्ञानस्य अनालोचन आलोचने च सर्वविषयकत्वमुक्तम् अन्यथा तद्वैयर्थ्यापत्तेः । ऋजुयोगि-ज्ञानलक्षणकथनावसरे आलोचन इति लक्ष्मीज्ञानव्युदास इति च अत्र अभिहितम्। तेन च अलोचनाभावः प्रतीयते अन्यथा तद्व्यावृत्त्यनुपपत्तेः । अतोविरोध इति शङ्कानकाशः । अत्र अपिशब्दस्य भिन्नस्थानसम्बन्धाङ्गीकारात् । यथास्थानेन सम्बन्धाङ्गीकारेऽपिसर्वदेतिविशेषणान्तरसमुच्चायकतया अवधारणार्थतया वा व्याख्यातत्वात् । पद्धतिवाक्यगतापिशब्दस्य तु विशेषणान्तरसमुच्चायकतया अवधारणार्थतया च व्याख्यातत्वात् इति द्रष्टव्यम् ।

अन्ये तु, ईशात् अन्यत्र अनालोचने सर्वविषयकत्वं लक्ष्मीज्ञानस्य सम्भावितम् इति सम्भावनार्थः अपिशब्दः । अपिः पदार्थसंभावनेत्यादिस्मरणात् । अतो न विरोध इत्याहुः ।

नन्वनालोचनग्रहणेन कथं ऋजुयोगिज्ञानव्यावृत्तिः ? इत्यत आह ।। तस्येति ।। वक्ष्यतीति ।। ‘अन्यत्र आलोचने सर्वविषयम्’ इत्यत्रेत्यर्थः ।। ईशज्ञानमेवेति ।। ऋजुयोगिज्ञानादावतिव्याप्तिवारणाय अवधारणम् । तथा च ऋजुयोगिज्ञानाऽद्य-पेक्षया लक्ष्मीज्ञानस्याप्यधिकस्पष्टस्य सत्वात् नेशज्ञानमेव ततोऽधिकं स्पष्टमिति नातिव्याप्तिरित्यर्थः ।।

प्रमाणलक्षणटीकाविवरणम्

पूर्वं स्वपरगतेऽन्यादिवाक्यपञ्चकमीशज्ञानस्य लक्ष्मीज्ञानापेक्षया विशेषप्रतिपादनपरत्वेन व्याख्यानम् । इदानीं तयोर्लक्षणपराण्येवेमानि वाक्यानीत्यभिप्रायेणाह ।। अथवेति ।। ईश्चरगताखिलविशेषविषयं ज्ञानमीशज्ञानमित्यर्थः । ईश्चरगतविशेषविषयं ज्ञानमित्युक्ते लक्ष्मीज्ञाने अतिव्याप्तिः, तत्परिहारार्थमखिलेति ।। तच्चेश्चरगताखिलविशेषविषयं न भवतीति नातिव्याप्तिरित्यभिप्रायेणाह ।। तत्रेति ।।

अशेषविशेषविषयं ज्ञानमीशज्ञानमित्येवोक्तौ जगद्गताशेषविशेषं लक्ष्मीज्ञान-मपि भवतीति तत्रातिव्याप्तिस्तत्परिहारार्थमीशेत्युक्तमित्याह ।। कृत्स्नेति ।। ईशेऽन्येभ्योऽधिकमिति ।। ईशविषये ब्रह्मादिज्ञानेभ्योऽधिकविशेषविषयत्वे सति ईश्चरगताघिकविशेषविषयं ज्ञानं लक्ष्मीज्ञानमिति लक्षणान्तरं सूचितमित्यर्थः । ईशग्रहणमिति लक्ष्मीज्ञानस्वरूपकथनार्थम् ।

नन्वेवं चेत् तर्हि तद् व्यर्थम् । अतिव्याप्त्यव्याप्त्यसम्भवादिवारकत्वाभावे लक्षणान्तर्गतत्वासम्भवादित्यत आह ।। असार्वित्रिकेति ।। लक्ष्मीज्ञानस्यापि जगद्गतसर्वविशेषविषयत्वस्येव विद्यमानत्वेनासार्वत्रिकत्वाभावादसम्भवशङ्का स्यात् तत्परिहारार्थमीशपदमित्यर्थः । ईशे असार्वत्रिकमित्येतावन्मात्रोक्तौ ब्रह्मादिज्ञानस्यापि ईशविषये असार्वत्रिकत्वात्तत्रातिव्याप्तिरित्यतो अन्येभ्यो अधिकमित्युक्तमित्याह ।। अन्येभ्योऽधिकमितीति ।। अन्येभ्योऽधिकमित्यवोक्तौ ईशज्ञानस्यापि तथात्वात्तत्रातिव्याप्तिरतो ईश्चरे असार्वत्रिकमित्युक्तम् ।। ईश इति ।। ईश्चरगतसकलविशेषविषयकत्वे सति ततोऽन्यत्रगतसर्वविशेषविषयं ज्ञानं लक्ष्मीज्ञानमिति तल्लक्षणान्तरसत्वितमित्यर्थः ।

ननु ईश्चरे असार्वत्रिकं सर्वविषयं लक्ष्मीज्ञानमित्येवास्तु ततोन्यत्रेति किमर्थं ग्राह्यमित्यत आह ।। ईश्चरादन्यत्रेति ।। असार्वात्रिकं सर्वविषयमित्युक्तं व्याघातः प्राप्तः तत्परिहारार्थं ईशादन्यत्रेत्युक्तमित्यर्थः । अत्यत्र सर्वविषयमित्येवोक्ते ईशज्ञाने अतिव्याप्तिः, तत्परिहारार्थं ईशे असार्वत्रिकमित्युक्तमित्याह ।। ईशेऽति ।। ईशे असार्वत्रिकमित्युक्ते अस्मदादिज्ञाने अतिव्याप्तिः, तत्परिहारार्थमन्यत्र सर्वविषयमित्युक्तमित्याह ।। अन्यत्रेति ।।

ननु तथात्र ऋजुज्ञानेऽतिव्याप्तिस्तस्येश्चरेऽसार्वत्रिकत्वे सति अन्यत्र सर्वविषयत्वादित्यत आह ।। ऋजुज्ञान इति ।। ननु तस्याप्यानालोचने सर्वविषयत्वात् अतिव्याप्तिरित्यत आह ।। तस्येति ।। यद्यप्यत्र मुक्तऋजुज्ञानेऽतिव्याप्तिस्तस्याप्यनालोचने सर्वविषयत्वादीश्चरे असार्वत्रिकत्वाच्चेति वक्तुंशक्यम् । तथासत्यनालोचने सर्वदा सर्वविषयमिति विवक्षितमिति नातिव्यापिरिति हृदयमिति आहुः । वस्तुतस्तु अपिरवधारणे ततश्चेशेऽसार्वत्रिकत्वे सति अन्यत्रालोचन एव सर्वविषयमिति लक्षणलाभान्मुक्तब्रह्मज्ञानस्य च तदभावान्न तत्रातिव्याप्तिरिति द्रष्टव्यं 

वयं तु ब्रूमः । अनालोचन सर्वविषयत्वं नाम आलोचने सर्वविषयत्वा-त्यन्ताभावाधिकरणत्वं मुक्तब्रह्मज्ञानस्य च न तदत्यन्ताभावाधिकरणत्वं पुर्वमालोचने सर्वविषयत्वादिति नातिव्याप्तिः । नचापिशब्दवैय्यर्थ्यं । अनालोचने सर्वविषयत्वसंभावनार्थत्वात् । अभिप्रेतं चात्यन्ताभावघटितत्वं टीकाकारस्य । अन्यथा आलोचने सर्वविषयत्वरूपे ऋजुयोगिज्ञानलक्षणस्य मुक्तब्रह्मज्ञाने आलोचने सर्वविषयत्वरूपे ऋजुयोगिज्ञानलक्षणस्य मुक्तब्रह्मज्ञाने अव्याप्तिप्रसंगात्। आलोचने सर्वविषयत्वात्यन्ताभावानाधकरणत्वविवक्षायां तु नाव्याप्तिरिति न कश्चिद्दोषः ।

 ।। ईशज्ञानमेवेति ।। ईशज्ञानं यतोऽधिकं तल्लक्ष्मीज्ञानमित्येवोक्ते ब्रह्मादिज्ञानेऽतिव्याप्तिः । तदपेक्षयाईशज्ञानस्याधिकत्वादत ऐवेत्युक्तम् । ब्रह्मज्ञानं च न तथा लक्ष्मीज्ञानस्यापि ततोऽधिकत्वादिति भावः ।