अवश्योद्भाव्यतया प्राप्तनिग्रहस्थानानामनुद्भावनं पर्यनुयोज्योपेक्षणम्
पर्यनुयोज्योपेक्षणम्
प्रमाणलक्षणटीका
अवश्योद्भाव्यतया प्राप्तनिग्रहस्थानानामनुद्भावनं पर्यनुयोज्योपेक्षणम् । न चेदमप्रतिभैव । स्फुरतोऽपि दोषस्या ल्पत्वाऽदिनोपेक्षणसम्भवात् । प्राश्निकैरुद्भाव्यमेतत् । वादिनैव वा ‘अस्य व्यामोहायेदं मयोक्तं नानेन ज्ञातम्’ इति ।। १९ ।।
प्रमाणलक्षणटीकाभावदीपः
।। निग्रहस्थानेति ।। पराजयहेतुदोषानुद्भावनमित्यर्थः । कथमिदं ज्ञेयम् ? इत्यत आह ।। प्राश्निकैरिति ।। वादिनोद्भावनाप्रकारमाह ।। व्यामोहनायेति ।। १९ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘अवश्योद्भाव्यमापन्नकालं निग्रहमागतं ।।
अनुद्भावयतः पर्यनुयोज्योपेक्षणं भवेत्’’
इतिकारिकाऽनुसारेण पर्यनुयोज्योपेेक्षणं लक्षयति ।। अवश्योद्भाव्यतयेति ।। उद्भाव्यतया उद्भावनयोग्यतया ।। प्राप्तेति ।। प्राप्तकालेत्यर्थः । अत्रानेकदूषण-संनिपातस्थले आधिक्यभयेन यदा एकमेव दूषणमुद्भाव्यते तदा तदितरदूषणा-नुद्भावने अतिव्याप्तिनिरासाय अवश्येत्युक्तं । तत्रोद्भावितेतरेषामुद्भावनयोग्यता-रूपोद्भाव्यत्वसत्त्वेऽपि अन्यतमोद्भावनेनैव परपराजयस्य जातत्वात् न तावतामवश्योद्भाव्यत्वमिति भावः ।
एवमपि झडिति संवरणेन तिरोहितोद्भावनावसराणामपशब्दादीनामनुद्भा-वनेऽतिव्याप्तिपरिहारायोक्तं प्राप्तेति । न च तत्रोद्भावनयोग्यत्वमेव नास्तीति वाच्यम् । अपशब्दादीनामुच्यमानदशाग्राह्यत्वेन तत्र झडिति संवरणेनोद्भावनावसरस्य अपगमेऽप्युद्भावनयोग्यत्वानपगमात् । एवं चोक्तस्थले उद्भाव्यत्वसत्वेन तन्नियत-प्राप्तेरवश्यंभावेऽपि प्राप्तकालत्वाभावात् नातिव्याप्तिरिति ध्येयम्
।। अप्रतिभैवेति ।। दोषस्यापरिस्फुर्त्याऽप्यनुद्भावनसम्भवेन अप्रतिभा-साङ्कर्यमित्यर्थः । कुतो न च ? इत्यत आह ।। स्फुरतोऽपीति ।। अल्पत्वाऽदिनेति ।। क्षुद्रत्वाऽदिनेत्यर्थः । तथा च नाप्रतिभासाङ्कर्यमिति भावः ।
नन्विदं निग्रहस्थानं केनोद्भाव्यम् । न तावत् वादिना ‘मया अनुमानं कृतं, तत्र अवश्योद्भाव्यतया प्राप्तं व्यभिचाराऽदिनिग्रहस्थानम् अयमुपेक्षितवान्’ इति स्वदोषोद्भावनस्य स्वेन कर्तुमयोग्यत्वात् । नापि प्रतिवादिना, आत्मनैवात्त्मनो निग्रहायोगात् । अतो दुर्घटोद्भावनमेतत् कथं निग्रहस्थानम् ? इत्यत आह ।। प्राश्निकैरिति ।। यथोक्तम् वाचस्पतिमिश्रैः
‘परिषदैतन्निग्रहस्थानमुद्भावनीयम्’ इति ।
ननु मध्यस्थस्य तन्निग्रहापरिस्फूर्तावनुद्भावनीयत्वमेव तस्य स्यात् इत्यतः पक्षान्तरमाह ।। वादिनैव वेति ।। न चात्रोक्तदोषः चातुर्येणोद्भाव्यत्वा-दित्याशयेनाह ।। व्यामोहनायेति ।। परशक्तिं जिज्ञासमानेन मया ‘विश्वरूप-जयन्तयोर्धूमवत्वं हेतुरस्तु’ इत्याभासवचनं प्रयुक्तम् । ‘नानेन मन्दमतिना ज्ञातम्’ इति वदता वादिनैवोद्भाव्यमेतदित्यर्थः ।। १९ ।।
प्रमाणलक्षणटीकाविवरणम्
पर्यनुयोज्योपेक्षणं लक्षयति ।। अवश्येति ।। ननु उत्तरा प्रति-पत्तिमंतरेणोपेक्षणायोगात् अप्रतिभवेयं किं संज्ञांतरकरणेनेत्याभिप्रायेण शंकते ।। न चेदमिति ।। नन्विदं पर्यनुयोज्योपेक्षणं किं वादिनोद्भाव्यं किं वा प्रतिवादिना किं वा प्राश्निकैः ? न तावदाद्यः । पर्यनुयोज्यं मामुपेक्षितवानयमिति वादिना स्वयमेव स्वदोषख्यापनायोगात् । न द्वितीयः आत्मनेवात्मनो निग्रहायोगात् । नापि प्राश्निकैः उपेक्षणसंभवात् । तथाचास्योद्भावनोत्थापनयोरसंभवात् कथं निग्रहस्थानत्वमित्यत आह ।। प्राश्निकेरिति ।। अस्तु वा द्वितीयः नचोक्तदोषः । चातुर्येणोद्भाव्यत्वादित्याह ।। व्यामोहायेति ।। १९ ।।