मत्पक्षेऽपि किञ्चित् प्रमाणं भविष्यतीति तदुप-पादनमुपपत्तिसमः
उपपत्तिसमः
प्रमाणलक्षणटीका
मत्पक्षेऽपि किञ्चित् प्रमाणं भविष्यतीति तदुप-पादनमुपपत्तिसमः । यथा ‘धूमवत्वं यथा अस्ति त्वत्पक्षे प्रमाणं तथा मत्पक्षेऽपि किञ्चित् भविष्यति पक्षत्वात्’ इति।
अत्र सामान्यतः प्रमाणसम्भावना उत्थानबीजम् । बाधः प्रतिरोधो वा आरोप्यः । तस्यापि कश्चित् दोषो भविष्यतीति वक्तुं शक्यत्वात् व्याघातः । युक्ताङ्गहानिश्च । उपन्यस्तं प्रत्यनुप न्यस्तस्य प्राबल्यादेर्वाधाद्यङ्गस्य अनिश्चयादिति ।। १८ ।।
प्रमाणलक्षणटीकाभावदीपः
।। तदुपपादनमिति ।। हेतूपन्यासेनेति भावः ।। तस्यापीति ।। ‘धूमवत्त्वं असाधकं बाधदिमत्वात्’ इत्यत्र धूूमवत्त्वहेतोः बाधितत्वादिदोष इव ‘बाधितत्वात् सप्रतिपक्षत्वात् इति त्वदुक्तहेतावपि कश्चिद्दोषो भविष्यति हेतुत्वात्’ इति त्वदुक्तहेतोरपि दूषयितुं शक्यत्वात् व्याघात इत्यर्थः । युक्ताङ्गहानिं व्यनक्ति ।। उपन्यस्तं प्रतीति ।। १८ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
अस्मत्पक्षेऽपि किमपि प्रमाणमुपपत्स्यते ।
त्वत्पक्षवदिति प्राप्तिरुपपत्तिसमो मतः ।।
इतिकारिकानुसारेण उपपत्तिसमजातिं लक्षयति ।। मत्पक्षेऽपीति ।। बाध इत्यादि ।। मत्पक्षीयप्रमाणस्य प्रबलत्वे तद्विरुद्धस्य त्वत्पक्षस्य बाधः । समबलत्वे तु प्रतिरोध इत्यर्थः ।। तस्यापीति ।। मत्पक्षेऽपि किञ्चित् प्रमाणं भविष्यतीति सामान्यत उपन्यस्तस्याप्रीत्यर्थः । निर्वक्तुमितिपाठे नितरां वक्तुुमित्यर्थः ।
युक्ताङ्गहानिमुपपादयति ।। उपन्यस्तं प्रतीति ।। उपन्यस्तप्रमाणं प्रतीत्यर्थः ।। अनुपन्यस्तस्येति ।। किञ्चिद्भविष्यतीति सामान्येनैवोपन्यासेऽपि कण्ठतोऽनुपन्यस्तस्य प्रमाणस्येत्यर्थः । प्राबल्यादेरित्यादिपदेन समबलत्वग्रहणम् बाधादीत्यादिपदेन प्रतिरोधग्रहणम् । बाधाद्यङ्गस्य प्राबल्यादेरिति सम्बन्धः ।।अनिश्चयादिति ।। निश्चयेन निरूपणासम्भवादित्यर्थः । यथोक्तं वरदराजीये ‘अनुपन्यस्तप्रमाणस्य प्राबल्यसाम्ययोर्निरूपणासम्भवात्’ इति ।। १८ ।।
प्रमाणलक्षणटीकाविवरणम्
युक्तांगहानिमुपपादयति । उपन्यस्तं प्रतीति । उपन्यस्तप्रमाणं प्रतीत्यर्थः । अनुपन्यस्तस्येति । किंचिद्भविष्यतीति सामान्येनैवोपन्यासेऽपि कंठतो अनुपन्यस्तस्य प्रमाणस्येत्यर्थः ।