तत्साधनमनुप्रमाणम्
अनुप्रमाणलक्षणम्
प्रमाणलक्षणटीका
अनुप्रमाणलक्षणमाह
प्रमाणलक्षणम्
तत्साधनमनुप्रमाणम्
तदिति यथार्थज्ञानपरामर्शः । यथार्थेति संशयादि-साधनदुष्टेन्द्रियसन्निकर्षादिव्युदासः । ज्ञानग्रहणमनुप्रमाण-साधननिवृत्त्यर्थम् । साधनमिति केवलप्रमाणव्युदासः । अनुमानादेरपि लिंङ्ग्यादिविषयेनुप्रमाणत्वात् ।
हेतुरित्युच्यमाने प्रमातृप्रमेययोरपि प्रसङ्गात् साधनग्रहणम् । सतोरपि कर्तृकर्मणोर्यदभावात् कार्याभावो यदनन्तरं चासति प्रतिबन्धे भवत्येव कार्यं तदुच्यते साधनमिति । यथा व्यापार-वान् कुठारः । अत एव न यादृच्छिकसंवादिलिङ्गविभ्रमा-दावतिव्याप्तिः ।
यथार्थमित्येवोक्ते केवले अतिव्याप्तिः । ज्ञानमित्येवोक्ते तत्र संशयादौ च । प्रत्यक्षे अव्यप्तिश्च । साधनमित्येवोक्ते कुठारादौ । अतो विशिष्टग्रहणम् । प्रमावान् प्रमाता । प्रमाविषयः प्रमेयम् । यथार्थज्ञानं प्रमा । प्रमातुः प्रमेयत्वेपि विवक्षावशात् पृथगुक्तिः ।
प्रमाणलक्षणटीकाभावदीपः
ननु प्रागुक्तदिशा लिङ्गादिस्वविषये केवलप्रमाणभूते लिंङ्गज्ञाने च क्रमात् अनुमितौ वाक्यार्थज्ञाने च साधनत्वसत्वात् अतिव्याप्तिः इत्यतो यदंशे लक्षणं तदंशे लक्ष्यत्वमस्तीति न दोष इत्याह ।। अनुमानादेरिति ।। लिङ्ग्यादीति ।। लिङ्गिनि वाक्यार्थे चेत्यर्थः ।। प्रमातृप्रमेययोरिति ।। यद्यपि प्रमेयमपरोक्षज्ञानेपि न हेतुः धर्मिग्राहकप्रमाणसिद्धहेतुताकेन्द्रियसन्निकर्ष एवोपक्षीणत्वात् तस्य, तथापि अभ्युपेत्यवादेन वा नियतपूर्ववृत्तित्वमात्रेण वा एतदुक्तिः ।
साधनस्वरूपं व्यक्तीकुर्वन्नेव तेन तयोर्निरासप्रकारमाह ।। सतोरपीति ।। कर्तृकर्मणोः प्रमातृप्रमेययोः । तथैव वाच्येप्येवमुक्ति कर्तृकर्मणोः कारकतया ‘क्रियां कुर्वद्धि कारकं’ इति प्रसिद्धेः हेतुत्वमस्तीति सूचनाय ।। तदुच्यत इति ।। तादृशं च करणसन्निकर्षो वा सन्निकृष्टं करणं वेति भावः ।। व्यापारवानिति ।। उद्यमनादिर्व्यापारः ।। अत एवेति ।। उक्तरूपसाधनग्रहणादेवेत्यर्थः ।
न च दैवात् वह्निमति प्रदेशे धूलीपटले धूमभ्रमात् जायमानवह्निज्ञानस्य प्रमात्वेन तत्र भ्रमे उक्तरूप साधनत्वमप्यस्ति, तथा पञ्चफलोपेते तीरे ‘नदीतीरे पञ्च फलानि सन्ति’ इत्यनाप्तवाक्ये च अस्त्येव यथार्थज्ञानसाधनत्वम्, तस्मिन् सत्येव लिङ्गिज्ञानादेरुदयात् इति वाच्यम् । यदभावात् इत्यनेनैव तन्निरासात् । न हि लिङ्गभ्रमादियादृच्छिकसंवादिनोभावे कार्यानुदयोस्ति । लिङ्गप्रमित्यापि तदुपपत्तेः इति भावः । केचितु अत एवेत्यस्य यदभावादिति विशेषणोपादानादेवेत्यर्थ इत्याहुः ।।
पूर्व प्रमातृप्रमेययोरिति व्याहृतम् । तयोः स्वरूपमाह ।। प्रमावानिति ।। स्वस्वामिभावसम्बन्धोमतुबर्थः । स तु संयोगसमवायतादात्म्यादिः । विषयो नाम यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते स तस्य विषयइत्यवधेयम् । यज्ज्ञानमित्यत्र कर्मधारयः, न षष्ठीतत्पुरुषः । का प्रमा? इत्यत आह ।। यथार्थेति ।। केवललक्षण इवात्रापि पदकृत्यं ध्येयम् ।। विवक्षेति ।। तद्वत्वतद्विषयत्वरूपेत्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
।। अनुप्रमाणसाधननिवृत्त्यर्थमिति ।। अत्र अनुप्रमाणशब्देन सन्निकृष्टेन्द्रियविवक्षायां अनुप्रमाणं यत् इन्द्रियं तत्साधनं तदवयवः तन्निवृत्त्यर्थमिति व्याख्येयम् । इन्द्रियसन्निकर्षविवक्षायां तु अनुप्रमाणभूतो यः सन्निकर्ष तत्साधनभूतं यत् इन्द्रियं तन्निवृत्त्यर्थं ज्ञानग्रहणम् इति व्याख्येयम् ।। हेतुरित्युच्यमान इति।। यथार्थज्ञानकारणम् इत्युच्यमान इत्यर्थः । प्रसङ्गात् अनुप्रमाणत्वप्रसङ्गात् इत्यर्थः।
साधनशब्देन कथं तन्निवृत्तिः ? इत्यतः साधनत्वं निर्वक्ति ।। सतोरपीत्यादिना ।। यज्जातीयानन्तरं नियमेन कार्योत्पत्तिः तदेव साधनं विवक्षितम् । तत्र नियमांशविवरणं सतोरपि कर्तृकर्मणोः यदभावात् इत्यादिना कृतमिति द्रष्टव्यम् । यादृच्छिकसंवादिलिङ्गविभ्रमेतिव्याप्तिमाशङ्क्यातिदेशेन परिहरति ।। अत एवेति ।। निरुक्तसाधनत्वाभावादेवेत्यर्थः । तत्र केवले ।। प्रत्यक्ष इति ।। ज्ञानात्वरूपलक्षणस्य लिङ्गज्ञानवाक्यज्ञानरूपानुमानागमयोः सत्वेऽपि प्रत्यक्षेभावात् अव्याप्तिरित्यर्थः ।। विशिष्टग्रहणमिति ।। यथार्थज्ञानसाधनमिति समग्रलक्षणस्वीकरणं युक्तमित्यर्थः ।
हेतुरित्युच्यमाने प्रमातृप्रमेययोरपि प्रसङ्गात् इत्युक्तम् । तत्र, कः प्रमाता ? किं प्रमेयम् ? इत्यतः तयोर्लक्षणमाह ।। प्रमावानिति ।। ननु जन्यज्ञानं मनोनिष्ठमिति सिद्धान्तः ‘कामः सङ्कल्प’ इति श्रुतेः । तथा च अतिव्याप्त्यसम्भवौ स्यातामिति चेत् । उच्यते । यथा हि सिद्धान्ते इच्छावत्वं नाम इच्छास्वामित्वमेवाभिप्रेतम् न तदाधारत्वम् । यथोक्तमनुव्याख्याने
‘इच्छा स्वामित्वमेवोक्तमिच्छावत्वं न चापरम्’ इति ।
एवमेव प्रमावत्वं नाम तत्स्वामित्वमेवात्राभिप्रेतं , नान्यत् । एवं चैतादृशं प्रमावत्वं मनसि नास्ति, अस्तिचात्मनि इति नातिव्याप्त्यसम्भवाविति भावः । श्रुतिस्तु स्वामित्वात् अन्यस्योपादानत्वस्याभिधायिनीति ज्ञातव्यम् । यथोक्तमनुव्याख्याने
‘...तस्मात्सा तदन्याभिधायिनी’ इति ।
प्रमातृप्रमेयान्तर्गतप्रमालक्षणमाह ।। यथार्थेति ।। संशयविपर्ययनिरासाय यथार्थेत्युक्तम् । करणव्यावृत्त्यर्थं ज्ञानमिति । अस्मन्मते स्मृतेरपि लक्ष्यत्वात् नातिव्याप्तिरित्याशयेन अनुभव इत्यनुक्त्वा ज्ञानमित्येवोक्तम् । अत्र यत् ज्ञानं यदंशे यथावस्थितार्थमात्रविषयीकारि तत् ज्ञानं तदंशे प्रमा इति विवक्षितम् । अतः ‘इदं रजतम्’ इति ज्ञानस्यापि इदमंशे यथार्थज्ञानत्वात् अतिव्याप्तिरिति शङ्का परास्ता । तदंशे निरुक्तप्रमात्वसद्भावेन लक्ष्यत्वात् इति ध्येयम् ।
ननु प्रमातर्यपि प्रमाविषयत्वसद्भावेन प्रमेयलक्षणेनैव प्रमातुरपि संगृहीतत्वात् प्रमातुः प्रमेयात् पृथगुक्तिर्व्यर्था । तथा हि सति प्रमेयलक्षणस्य तत्रातिव्याप्तिप्रसङ्ग इत्याशङ्क्याऽह ।। प्रमातुरिति ।। विवक्षावशादिति ।। सत्यं , प्रमातापि प्रमेयमिति। तथापि यदा प्रमाविषयत्वमविवक्षित्वा प्रमाश्रयत्वविवक्षा तदा प्रमातृत्वमेव तस्य विवक्षितं, ंन प्रमेयत्वम् । यथोक्तम् ‘विवक्षातः कारकाणि भवन्ति’ इति । अतः प्रमेयात् पृथगुक्तिसंभवेन न प्रमेयलक्षणस्य प्रमातर्यतिव्याप्तिरिति भावः ।
प्रमाणलक्षणटीकाविवरणम्
यथार्थं प्रमाणमिति प्रमाणसामान्यस्य यथार्थज्ञानमिति तद्विशेष-भूतकेवलप्रमाणस्य च प्रकृतत्वात्प्रकृतत्वमात्रस्यैव च परमर्शसिद्धत्व-प्रयोजकत्वाद्याथार्थ्यमात्रस्यैव वोभयोर्वातच्छन्देन परामर्शे अनुप्रमाणसाधने-न्द्रियादावतिव्याप्तिप्रसङ्गात् तत्परामर्शः । किंतु सन्निहितस्य केवलस्य परामर्श इत्याह । तदिति ज्ञानग्रहणमाज्ञानग्रहणमिति ।। अनुप्रमाणभूत सन्निकर्षसाधन-त्वेन यथार्थसाधनत्वादिंद्रियेऽतिव्याप्तिरित्यर्थः । नच सन्निकर्षस्य अनुप्रमाणत्वं अपितु तद्व्यापारत्वमिति वाच्यम् । निर्दोषार्थेंद्रियसन्निकर्षस्य प्रत्यक्षस्योक्तत्वेन तस्यापि करणत्वात् । नच व्यापारवत्वाभावान्न तस्य करणत्वम्। करणस्य व्यापार-वत्वनियमादिति वाच्यम् । व्यापारवत्वाभवेऽपि अविलंबेन कार्योत्पार्देरूप-कारणत्वसंभवादित्याहुः ।
वस्तुतस्तु अर्थसंनिकर्षलक्षणावान्तरव्यापारसहितेंद्रियादेरेवानुप्रमाणतया इंद्रियादिमात्रस्य तदभावादिंद्रियादिमात्रस्य विशेष्यादिरूपतयाअनुप्रमाणतयेष्टं विशिष्टसाधनत्वादिंद्रियादावतीव्याप्तिवारणाय ज्ञानग्रहणमिति भावः । अत एवेति अस्यार्थः । नतावत् अत्र बाष्पस्य बाष्पतया ज्ञातस्य वा यथार्थयथार्थज्ञानवक्तुं शक्यं । नापि धूमस्य । असतः साधनत्वायोगात् । सत्वेऽपि परामर्शाविषयत्वात् । तस्माद् धूमवत्वेन ज्ञानस्य बाष्पस्य वाष्पविषयस्य च धूमज्ञानस्येति वाच्यं । नच तत्संभवति । तज्जातीयस्य सर्वत्र यथार्थज्ञानसाधनत्वाभावात् । तथाविधस्यैव च विवक्षितत्वात् । नचाकारणिकक्रियोत्पत्तिः स्यादिति वाच्यम् । नच तत्संभवति । तज्जातीयस्य सर्वत्र यथार्थज्ञानसाधनत्वाभावात् । तथाविधस्यैव च विवक्षितत्वात्। लिङ्गादिज्ञानस्य लौकिकेकरणत्वेऽपि पारिभाषिकसाधनत्वाभावस्य वोच्य-मानत्वादिति ।।
नन्वेवमनुमानादेरनुप्रमाणत्वं न स्यात् । तस्यापि यथार्थज्ञानत्वेन तत्साधनत्वाभावादित्यतः विषयं हि यथार्थज्ञानत्वेऽपि तदंशे केवलत्वस्य सत्वेऽपि लिङ्गज्ञानजन्यव्याप्तिज्ञानजन्यानुमितिरूपयथार्थज्ञानसाधनत्वेन तदंशे अनुप्रमाणत्वं स्यादेवेत्याह ।। अनुमादेरिति ।। प्रमातृप्रमेययोरिति ।।
ननु ज्ञानत्वावच्छेदेन विषयस्य कारणत्वे अनुमित्यादो तदभावेन तदसंभवात् । अपरोक्षज्ञानत्वावच्छेदेन तत्वे सामान्यलक्षणप्रत्यासत्तिजन्यज्ञाने तदभावात् । लौकिकसाक्षात्कारत्वावछेदेन तत्वे इंद्रियार्थसन्निकर्षजनकत्वेन अन्यथासिद्धत्वेन तस्याप्यसंभवात् । विषयस्य स्वमते कारणत्वमेव नास्ति । एवं च प्रमेयेऽतितव्याप्ति-कथनमसङ्गतम् । पदार्थज्ञानसाधनत्वरूपलक्षणागमनात् । अन्यथाऽपसिद्धान्तः स्यादिति चेन्न । नात्र प्रमेयपदेन तत्र प्रमाविषयो गद्यते । येनापसिद्धान्तः । किंतु प्रमेयं यत्कालादिकं तदेव । तच्च कारणं भवत्येव । सर्वकार्यकारणचात्तस्येत्यभिप्रायः।
ननु गृहीतेऽपि साधनपदे कथमतिव्याप्तिपरिहारः । तयोरपि यथार्थज्ञान-साधनत्वादित्यतः साधनत्वलक्षणमाह ।। हीति ।। एवंसति दूषणान्तरं च परिहृतं भवतीत्याह ।। अत एवेति ।। नित्यमस्य विवक्षितत्वादेवेत्यर्थः । तत्रेति केवल इत्यर्थः । अतो विशिष्टग्रहणमिति ।।
ननु ज्ञातज्ञापकादौ अतिव्यापकमेतत्तस्यापि यथार्थज्ञानसाधनत्वात् । नच ज्ञातज्ञापकवाक्यादेरलक्ष्यत्वमेव नास्ति । येन तत्रातिव्याप्तिशङ्कावकाशः । तथासति स्मृत्यनुवादयोर्नाप्रामाण्यमित्याद्युत्तरवाक्यविरोधादिति वाच्यम् । अयथार्थज्ञान-साधनत्वाभावमात्रस्य तत्र विवक्षितत्वात् । नच तावता वाक्यस्य प्रामाण्यं । तज्जन्यज्ञानस्य यथार्थत्वनियमेऽपि वाक्यस्य दुष्टत्वेन भ्रान्तप्रतारकवाक्य-वदप्रामाण्यात् । अत एव पद्धत्यादौ निर्दोषः शब्द आगम इत्यत्र निर्दोषग्रहणेन ज्ञातज्ञापकादिवाक्यं आगमाद् बहिष्ष्कृतम् । अत एव सुधायां पारिभाषिक-साधनत्वविवक्षयैव यादृच्छिकसंवादिष्वतिव्याप्तिपरिहारेऽपि ज्ञातज्ञापक-वाक्यादेरपि व्यावर्त्यत्वाभिप्रायेण निर्दोषतया साधनं विशिष्यत इति पक्षान्तरमुक्तम्। तत् कथमेतदिति चेत्, न । अत्रापि निर्दोषतया साधनस्य विशेषणीयत्वात् । तथासति निर्दोषज्ञानसाधनमनुप्रमाणमित्येवास्तु । कृतं यथार्थेति विशेषणेनेति चेत्, न । तत्फलितार्थस्यैव निर्दोषग्रहणेन वर्णितत्वादिति । निर्दोषकरणजन्यं ज्ञानं याथार्थ्यं न व्यभिचरतीति, स्वरूपकथनं वा तदिति । एवं च निर्दोषत्वे सति ज्ञेयविषयी-कारित्वमेव प्रमाणसामान्यलक्षणमिति न ज्ञातज्ञापकवाक्यादौ तस्यातिव्याप्ति-रित्यूह्यम् । यथार्थज्ञानसाधनमनुप्रमाणमित्यनुप्रमाणलक्षणगतसाधनपद-व्यावर्त्यत्वेन प्रसक्तप्रमात्रादिकं लक्षयति ।। प्रमावानिति । अत्र प्रमावत्त्वं नाम प्रमासम्बन्धित्वम् । सम्बन्धश्च कर्तृकर्मभाव इति विवक्षितम् । तेन मनस एव प्रमाधिकरणत्वात् आत्मनस्तदभावात् तच्चोक्तिरयुक्तेति निरस्तं भवति । अनुप्रमाणलक्षणगत-साधनव्यावर्त्यत्वेन प्रसक्तप्रमात्रादिस्वरूपान्तर्गतां प्रमां लक्षयति ।। यथार्थेति ।। संशयादिव्यावृत्त्यै पूर्वभागः । घटादिव्यावृत्त्यै तूत्तरभागः।
ननु प्रमातुः पृथगुक्तिरयुक्ता । तस्यापि प्रमेयत्वेन प्रमयेपदेन तद्ग्रहणसम्भवा-दित्यत आह ।। प्रमातुरिति ।। विवक्षाभेदेनेति ।। प्रमातुः प्रमाकर्तृत्वं प्रमेयस्य प्रमाकर्मत्वमिति विवक्षाभेदेनेत्यर्थः।