ऐतिह्यमागमभेदः

ऐतिह्यप्रामाण्यसमर्थनम्

प्रमाणलक्षणटीका

नन्विदं शान्तिके कर्मणि वेतालोत्थानमिव । यावता स्मृत्यादिप्रामाण्यसिद्ध्यर्थं उदाहृतश्रुतौ ऐतिह्यं चतुर्थ प्रमाणमापतितमित्यत आह

प्रमाणलक्षणम्

ऐतिह्यमागमभेदः

पुरावृत्तोक्तिरैतिह्यम् । तत् यथार्थमागम एवान्तर्भावति। ऐतिह्यमित्यशेषागमोपलक्षणम् । स्मृतिपदञ्च अशेषकेवलप्रमाणस्य । तथा च केवलमेकं अनुप्रमाणं प्रत्यक्षादिभेदेन त्रिविधमिति चतुष्टयमित्युक्तं भवति ।

प्रमाणलक्षणटीकाभावदीपः

यावतेति यत इत्यर्थे अव्ययम् ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

।। पुरावृत्तोक्तिरिति ।। ‘इहाहुर्वृद्धा:’ इति प्रवादपार-म्पर्योक्तिरित्यर्थः ।। यथार्थमिति ।। प्राय ऐतिह्यं यथार्थं न भवति । यथार्थं चेत् आगम एवान्तर्भूतमित्यर्थः । उक्तं च परैः

‘‘जगति बहु न तथ्यं नित्यमैतिह्यमुक्तं

भवति च यदि सत्यं नागमाद्भिद्यते तत्’’ इति ।

ऐतिह्यमितीति ।। ‘स्मृतिः प्रत्यक्षम्’ इति श्रुतावित्यर्थः ।। अशेषागमेति ।। पौरुषेयापौरुषेयरूपाशेषनिर्दोषशब्दरूपागमोपलक्षणमित्यर्थः । एवं सति केवलमेकं प्रमाणम्, अनुप्रमाणं चापरम् । तच्च प्रत्यक्षम् ऐतिह्यशब्दोक्तागमः अनुमानश्चेति त्रिविधम् । एवं च केवलमनुप्रमाणं च मिलित्वा प्रमाणचतुष्टयमिति विज्ञेयमिति श्रुत्यर्थ इत्यमिप्रेत्याह ।। तथा चेति ।।

प्रमाणलक्षणटीकाविवरणम्

नन्वेवमैतिह्यशब्देन आगमविशेषग्रहणे तस्यैवाप्रामाण्यं स्मृत्योक्तं नत्वागममात्रस्य । ततश्च न तस्य प्रामाण्यमिति पूर्वोत्तरविरोध इत्यत आह ।। ऐतिह्येति ।। ननु तथापि यत्प्रमाणं द्विविधं केवलमित्याद्युक्तं तदयुक्तं । उदाहृते प्रमाणे केवलस्य प्रामाण्यानुक्तेरित्यत आह स्मृतिपदं चेति । ननु तथापि केवलमनुप्रमाणमिति द्विविधत्वाच्चतुष्ट्वोक्तिरयुक्तेत्यत आह तथा चेति ।