वादिसाधनप्रतिबन्द्या धर्मान्तरेण सर्वस्य साध्य-धर्मवत्वापादनमनित्यसमः
अनित्यसमः
प्रमाणलक्षणटीका
वादिसाधनप्रतिबन्द्या धर्मान्तरेण सर्वस्य साध्य-धर्मवत्वापादनमनित्यसमः । यथा ‘यदि महानसवत् धूमवत्वात् पर्वतोऽग्निमान् तर्हि सत्त्वात् सर्वमप्यग्निमत् स्यात्’ इति । अविशेषसमायां तु सर्वाविशेषमात्रापादनम् । अन्यत् समानम्।
व्याप्त्यभावात् युक्ताङ्गहानिः । तदनभ्युपगमे ‘यदि असाधक प्रतिबन्दीग्रस्तत्वात् इदमसाधकं तर्हि पदार्थत्वात् सर्वमप्यसाधकं स्यात्’ इति व्याघात इति ।। २२ ।।
प्रमाणलक्षणटीकाभावदीपः
पौनरुक्त्यं निराह ।। अविशेषेति ।। सर्वाविशेषेति ।। धर्मान्तरेण अत्र तु साध्यधर्मेण इति भेदः इति भावः ।। अन्यदिति ।। उत्थानबीजदिकमित्यर्थः।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
साधर्म्यादेर्विपक्षस्य सपक्षत्वप्रसञ्जनं ।
साधनप्रतिबन्द्या यत्सह्यनित्यसमो मतः ।।
इतिकारिकानुसरेण अनित्यसमजाति ।। वादिसाधनेति ।। नन्वेवमविशेष-समजातिसाङ्कर्यम् । तत्रापि वादिसाधनप्रतिबन्द्या तदितरधर्मेण तद्वतां सर्वपदार्थानां विशेषापादनसद्भावात् । उक्तञ्च कारिकायां
धर्मेणैकेन केषाञ्चिदविशेषप्रसञ्जनम् ।
साधनप्रतिबन्द्या यत्सोऽविशेषसमो मतः ।। इति ।।
तत्राह ।। अविशेषसमायां त्विति ।। सर्वाविशेषमात्रापादनमिति ।। ‘यदि धूमवत्त्वात् पर्वतमहानसयोः अग्निमत्त्वाविशेषः तर्हि द्रव्यत्वात् सर्वद्रव्याणा-मनित्यत्वं स्यात्’ इत्येवमविशेषसमायां सर्वपदार्थानां केवलमनित्यत्वादि-धर्मान्तरेणैव अविशेषापादनमभिप्रेतम् अत्र पुनः साध्यधर्मवत्वापादनमिति भेदात् । अत एवोक्तं कारिकायां ‘अविशेषप्रसञ्जनम् , सपक्षत्वप्रसञ्जनम्’ इति ।
।। अन्यत्समानमिति ।। कस्यचिद्धर्मस्य किञ्चिदसाधकत्वदर्शनं उत्थानबीजम् , तर्कपराहतिरारोप्या इत्येवं उत्थानबीजं आरोप्यं च अविशेष-समजातिवदेव द्रष्टव्यमित्यर्थः ।। व्याप्त्यभावादिति ।। ‘यत्र सत्त्वं तत्र अग्निमत्त्वं’ इति व्याप्त्यभावादित्यर्थः ।। तदनभ्युपगम इति ।। व्याप्त्यनभ्युगम इत्यर्थः ।
।। असाधकेति ।। ‘सत्त्वात् सर्वमपि अग्निमत् स्यात्’ इति तर्कस्य व्यभिचारेण दुष्टत्वात् असाधकत्वमित्यर्थः । इदं धूमवत्त्वरूपं साधनं । तथा च ‘धूमवत्त्वात् इतिहेतुः साध्यसाधको न भवति तर्कपराहतत्वात्’ इति प्रतिषेधानुमानेऽपि ‘यदि असाधकोक्ततर्कप्रतिबन्दीग्रस्तत्वात् इदं धूमवत्त्वं साध्यासाधकं स्यात् तर्हि पदार्थत्वात् सर्वमपि असाधकं स्यात् , इत्येवं सर्वस्यापि असाधकत्व-रूपसाध्यधर्मवत्त्वापादनसम्भवात् स्वन्यायविरोध इति भावः ।। २२ ।।
प्रमाणलक्षणटीकाविवरणम्
नन्वेवमनित्यसमस्याविशेषसमसांकर्यम् । साधनप्रतिबंधाघातादि-तरधर्मेण तद्वतां सर्वपदार्थानामविशेषापादनं हि अविशेषसमः अनित्यसमोऽपि तथैवेति । अत आह ।। अविशेषेति ।। नाविशेषसमकार्यं अनित्यसमस्य यतः तत्र साधनप्रतिबन्धाघातादितरधर्मेण सर्वेषां धर्माविशेषापादनस्य विवक्षितत्वात्। अत्र पुनः साध्यधर्मवत्त्वापादनमिति भेदादिति भावः ।
नन्वत्रोेत्थानहेत्वादिकं कुतो नोच्यत इत्यत आह । अन्यत् समानमिति । अन्यत् उत्थानहेत्वादिकमविशेषसमेन समम् । कस्यचिद्धर्मस्य किंचित् असाधकत्वदर्शनमुत्थानहेतुः तर्कपराहतिरारोप्येति । अविशेषसमात्सममिति भावः व्यवहर्तव्यद्वैतमिति । व्यवहारविषयस्य सत्वासत्वमित्यर्थः ।। २२ ।।