उदाहरणरूपेषु कैश्चिद्युक्ताः कैश्चिद्रहिता उदाहरणाभासाः

उदाहरणभासा:

प्रमाणलक्षणटीका

उदाहरणरूपेषु कैश्चिद्युक्ताः कैश्चिद्रहिता उदाहरणाभासाः। ते चानेकप्रकाराः । तत्र साधर्म्योदाहरणे तावत् साध्यवैकल्यम् यथा, मनोऽनित्यं मूर्तत्वात् ‘यन्मूर्तं तदनित्यं यथा परमाणुः’ इति । साधनवैकल्यम् यथा ‘यथा कर्म’ इति । उभयवैकल्यम् यथा ‘यथाऽऽकाशम्’ इति । आश्रयहीनम् यथा ‘यथा शश-विषाणम्’ इति । अव्याप्त्यभिधानम्  यथा ‘मूर्तत्वात् घटवत्’ इति । विपरीतव्याप्त्यभिधानम् यथा ‘यदनित्यं तन्मूर्तम्  यथा घटः’ इति । वैधर्म्योदाहरणे साध्याव्यावृत्तिर्यथा ‘यदनित्यं न भवति तत् मूर्तं न भवति यथा कर्म इति ।

साधनाव्यावृत्तिर्यथा ‘यथा परमाणुः’ इति । उभयाव्यावृत्तिर्यथा ‘यथा घटः’ इति । आश्रयहीनत्वम् पूर्ववत् । अव्याप्त्यभिधानम् यथा ‘मूर्तत्वात् आकाशवत्’ इति । विपरीतव्याप्त्यभिधानम् यथा ‘यन्मूर्तं न भवति तदनित्यं न भवति यथाऽऽकाशम्’ इति ।

प्रमाणलक्षणटीकाभावदीपः

उदाहरणरूपेष्विति ।। साधनवत् साध्यवत्वादिरूपेष्वित्यर्थः ।। मूर्तत्वादिति ।। परिच्छिन्नपरिमाणवत्वादित्यर्थः । अव्याप्त्यभिधानं व्याप्त्यभि-धानाभावः । वैधर्म्योदाहरणे व्यतिरेकव्याप्त्युदाहरणे । दृष्टान्ते साध्यसाधन-व्यावृत्त्यादिना भाव्यम् । तदभावे चोदाहरणाभास इति भावेनाह ।। साध्या-व्यावृत्तिर्यथेत्य•दिना ।। या कर्मेति ।। तस्यानित्यत्वात् इति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

उदाहरणरूपेष्विति ।। असन्दिग्धतया साध्यसाधनयोर्दृष्टान्त सत्त्वम् इत्यादिविवक्षितोदाहरणरूपेष्वित्यर्थः । उदाहरणरूपेषु कैश्चिद्रहिता इत्येवोक्ते घटादावतिव्याप्तिः स्यात् । तत्परिहारायाऽद्यं विशेषणम् । सदुदाहरणव्यावृत्त्यै द्वितीयमिति बोध्यम् । साधनवैकल्यं यथा ‘यथा कर्म इत्याद्युत्तरत्रापि ‘मनोऽनित्यं मूर्तत्वात्’ इत्यनुमानमेव द्रष्टव्यम् ।। साध्या-व्यावृत्तिर्यथेति ।। वैधर्म्योदाहरणे दृष्टान्ते साध्यव्यावृत्तिर्गुणः तदव्यावृत्तिर्दोष इत्यवधेयम् ।

प्रमाणलक्षणटीकाविवरणम्

अथोदाहरणाभासाः । रूपाणि साध्यस्य दृष्टान्ते सत्वं तथा साधनस्याश्रयस्येत्यादिविवक्षितरूपेष्वित्यर्थः ।। उभयवैकल्यमिति ।।

नन्वेवं पद्धतिसुधाभ्यांविरोधः । पद्धत्यादावन्यतरवैकल्यमात्रेणैव दुष्टत्वोपपत्तौ उभयवैकल्यस्य पृथक् दूषणत्वासंभवादित्युक्तत्वात् । अत्र पुनस्तस्य दूषणत्वाङ्गीकारादिति । नचात्र परमताभिप्रायेण तस्य दूषणत्वोक्तेः न पुनः वस्तुतो दूषणत्वाभावोक्तेः न विरोधः । अत्रापि साध्यस्य साधनस्य वाऽननुगमो दृष्टान्तविरोध इत्यत्रोभयोर्वेति र्ग्राह्यं इत्यादिना स्वमतीयविभागकथनावसरे आचार्यग्रंथव्याख्यानरूपत्वेन तत्कथनस्य संभवात् । परमतानुसारेण तदुक्तौ तद्व्याख्यानत्वेन तदसंभवात् ।

तथाच पद्धत्या परस्परं च विरोधः स्यादिति चेत् अत्र भ्रूमः । यथा नित्यं मनो मूर्तत्वात् परमाणुवत् कर्मवच्चेत्यत्र क्रमेण यथा साध्यवैकल्यं साधनवैकल्यं च दोषः तथा गगनवदित्यादावुभयवैकल्यमपि दोष इत्यभिप्रेत्यैवमुक्तिः न तूभयस्य पृथक् दूषणत्वं अतो न विरोध इति भावः । उभयोर्वेति ग्राह्यमित्यस्याप्ययमेवार्थः।

यद्वा एवमुक्तरीत्या तस्य दूषणत्वाभावेऽपि । अस्त वा दूषणत्वं तथाऽपि न दोषः । इति अभ्युच्चयवादेन वा उभयोर्वेति ग्राह्यमित्युक्तमिति वा समाधानं बोध्यम् ।

Load More