परिशेषोऽर्थापत्तिरनुमानमित्यविशेषः
परिशेषार्थापत्योरनुमानत्वसमर्थनम्
प्रमाणलक्षणटीका
नन्वप्रसिद्धसाध्ययोः परिशेषार्थापत्त्योः प्रामाण्याभ्युप-गमेऽपि किमायातमप्रसिद्धसाध्यस्यानुमानस्य साधकत्वे ? इत्यत आह
प्रमाणलक्षणम्
परिशेषोऽर्थापत्तिरनुमानमित्यविशेषः ।
अप्रसिद्धसाध्यस्य परिशेषादेः साधकत्वे अनुमानस्यैव तदुक्तं स्यात् । परिशेषादिरनुमानमित्यनतिभिन्नार्थत्वात् । तत्कुतः ? इत्यत आह
उपपत्तिमात्रत्वात्
इहोपपत्तिरन्यथानुपपत्तिर्ज्ञातव्या । परिशेषार्थापत्त्योः अन्यथा-नुपपत्तित्वेऽपि कुतोऽनुमानत्वं ? इत्यत आह
उपपत्तेश्च व्याप्त्यपेक्षा सर्वथा
अङ्गीकार्येत्याग्रहमात्रेण भेदः ।
अन्यथानुपपत्तिर्हि केनचित् विना कस्यचिदसम्भवः । असम्भवश्च न तावदनुत्पत्तिः । बहिर्भावादिनाऽपि गूहाभावादे-रजन्यत्वात् । अतोऽनवस्थानमेवासम्भव इति वाच्यम् । तस्य च व्याप्त्यपेक्षा सर्वथा अङ्गीकार्या । केनचिद्विना कस्यचिदनव-स्थानं हि तयोर्व्याप्तिं विना नोपपद्यते । व्याप्त्यपेक्षया अर्थाव-गमकमनुमानमिति चोक्तम् ।
एवमपि परिशेषादेरनुमानत्वानङ्गीकारे धूमोऽप्यन्यथानुप पत्त्या अग्निं गमयन् नानुमानं स्यात् । अतो दुर्दर्शनाभ्यास-विशेषविजृम्भिताऽग्रहमात्रेण अनुमानात् अर्थापत्यादेर्भेदो वादिभिरङ्गीक्रियत इति ।
प्रमाणलक्षणटीकाभावदीपः
पृथक् प्रमाणत्वमुपेत्य शङ्कते ।। नन्वप्रसिद्धेत्यादिना ।। परिशेषार्थापत्त्योरिति अनुपपद्यमानार्थादिरूपकरणग्रहणम् । तस्यान्यथानुपपत्तित्वं अन्यथानुपपत्तिमत्त्वं । धर्मधर्मिणोरभेदेन अन्यथानुपपत्तित्वेऽपीत्युक्तिरिति ज्ञेयम्।
।। अन्यथानुपपत्तिर्हीति ।। परिशेषार्थापत्योरिति योज्यम् । उपपत्तिशब्दस्य अन्यथानुपपत्तिरर्थ इत्युक्तत्वात् अन्यथानुपपत्तिर्हीत्युक्तम् ।। तयोर्व्याप्तिं विना नोपपद्यत इति ।। यद्यपि केनचित् विना कस्य चित् अनवस्थानरूपान्यथानुप-पत्तिरेव अविनाभावरूपा व्याप्तिः । न तु ततोऽन्या । अत एवाग्रे ‘एवमपि व्याप्त्यपेक्षया अर्थगमकत्वेऽपि परिशेषादेरनुमानत्वानङ्गीकारे’ इत्यापादकमुक्त्वा आपाद्ये ‘धूमोऽपि व्याप्त्यागमयन्’ इति वक्तव्ये तयोरैक्यबुद्ध्या व्याप्तिपदस्थाने अन्यथानुपपत्त्येत्युक्तम् । तथापि इह भेदोक्तिः उपपत्तेश्च व्याप्त्यपेक्षा इति मूले भेदप्रतीत्या तन्निर्वाहाय अनुपपत्तिनियामकोर्ध्वाधरीभावकार्यकारणभावाद्यभिप्राया वा नियतसामानाधिकरण्यानौपाधिकसम्बन्धादिरूपपराभिमतव्याप्त्यभिप्राया वेति तर्कताणडवे व्याख्यातम् ।। इति चोक्तमिति ।। त एव सोपपत्तयो लिङ्गानि इत्येतद्व्याख्यानावसर इति भावः । मूलशेषस्यार्थमाह ।। दुर्दर्शनेति ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
।। अनुमानस्येति ।। न हि परिशेषादिकमनुमानमिति भावः ।। तदुक्तं स्यादिति ।। साधकत्वमुक्तं स्यादित्यर्थः । अविशेषशब्दार्थमाह ।। अनतिभिन्नार्थत्वादिति ।। घटपटशब्दवत् अत्यन्तभिन्नार्थत्वाभावादित्यर्थः ।
।। तदिति ।। विशेषशब्दोक्तमनतिभिन्नार्थत्वमित्यर्थः । ननु प्रसक्तप्रतिषेधे परिशिष्यमाणे बुद्धिरूपपरिशेषस्य अनुपपद्यमानार्थदर्शनात् तदुपपादके बुद्धिरूपार्थापत्तेश्च साध्यत्वेन साधनत्वापरपर्यायोपपत्तित्वाभावात् कथं परिशेषार्थापत्योरुपपत्तिस्वरूपत्वमुच्यते ? इत्यत आह ।। इहेति ।। अत्र परिशिष्यमाणे बुद्धिं विना प्रसक्तप्रतिषेधस्य अनुपपत्तेः परिशेषस्यापि अन्यथानुपपत्तित्वं ज्ञातव्याम् ।
मूले उपपत्तेरित्यस्य अन्यथानुपपत्तेरित्यर्थः । अनवस्थानस्य व्याप्त्यपेक्षा-मुपपादयति ।। केनचिदिति ।। बहिर्भावेनेत्यर्थः । कस्यचित् गृहे असत्त्वस्य ।। एवमपीति ।। व्याप्त्यपेक्षया अर्थगमकत्वे विद्यमानेऽपीत्यर्थः ।। विजृम्भितेति ।। उपोद्बलितेत्यर्थः ।
प्रमाणलक्षणटीकाविवरणम्
।। बहिर्भावेति ।। धूमो हि वन्हिना विनाऽनुपपन्नो वन्हिजन्यो भवति । नैवं प्रकृते तथात्वे हि गृहाभावं विना न संभवति बहिर्भावेन जन्य इति वक्तव्यम् । न च तदस्तीति भावः ।
ननु मास्तु केनचिद्विना कस्यचिदवस्थानव्याप्त्यभावे अनुपपन्नव्याप्त्यैव चोपपन्नं च तावताऽप्यनुमानत्वं कथमित्यत आह ।। व्याप्त्यपेक्षयेति ।। तथा चेदमनुमानं फलितं भवति । अर्थापत्यादिकमनुमानं व्याप्त्यपेक्षतयाऽर्थागमकत्वात्
न चाप्रयोजकत्वमित्यतः विपक्षे बाधकमुखेन तत्परिहरति ।। एवमपीति ।। व्याप्त्यपेक्षयाऽर्थावगमकत्वे प्रसंगादिति । स्मृतस्योपेक्षानर्हत्वं प्रसंगः । स्मृतिश्च अत्रान्तर्भावकथनप्रकरणत्वादिति भावः ।