तदनेन प्रतिज्ञासंन्यासविरोधापसिद्धान्तानां निरनुयोज्यानुयोगे च जातेः विरोध एवान्तर्भावः
प्रतिज्ञासंन्यासादीनां प्रमाणविरोधादिष्वन्तर्भावः
प्रमाणलक्षणटीका
तदनेन प्रतिज्ञासंन्यासविरोधापसिद्धान्तानां निरनुयोज्यानुयोगे च जातेः विरोध एवान्तर्भावः सूचितो भवति । संन्यासस्य मानसिद्धापलापरूपत्वात् । प्रतिज्ञाविरोधस्य एकवाक्यगतपदाऽदिविरोधरूपत्वात् । अपसिद्धान्तस्य साक्षात् ग्रहणात् । परोक्तजातेः प्रतिषेधाऽत्मकतृतीयजातिरूपत्वादिति ।
प्रमाणलक्षणटीकाभावदीपः
।। तदनेनेति ।। विरोधविभागकथनादिनेत्यर्थः ।। विरोधेति ।। प्रतिज्ञाविरोधेत्यर्थः । क्रमेणान्तर्गतिं व्यनक्ति ।। सन्न्यासस्येति ।। प्रतिज्ञासंन्यास-स्येत्यर्थः । अयं प्रमाणविरोधेऽन्तर्भवतीति भावः ।। साक्षादिति ।। स्ववाक्यविरोधो-ऽपसिद्धान्तजातिरूपेण इत्युक्तेरित्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
।। तदनेनेति ।। विरोधविभागकथनादिनेत्यर्थः ।। विरोधेति ।। प्रतिज्ञाविरोधेत्यर्थः ।। निरनुयोज्यानुयोगे च जातेरिति ।। छलं जातिः हान्याद्याभासः अप्राप्तकाले ग्रहणं च इति निरनुयोज्यानुयोगस्य चतुर्विधत्वात् निरनुयोज्यानुयोगे विद्यमानायाः तत्प्रभेदरूपाया इति यावत्
।। विरोध एवेति ।। मानविरोधस्ववाक्यविरोधरूपद्विविधविरोध एवेत्यर्थः। तत्र प्रतिज्ञासंन्यासस्य मानविरोधेऽन्तर्भाव इत्याह ।। संन्यासस्येति ।। उक्तेः प्रमितत्वादिति भावः ।
प्रतिज्ञाविरोधस्य स्ववचनविरोधेऽन्तर्भाव इत्याह ।। प्रतिज्ञाविरोधस्येति ।। साक्षात् ग्रहणादिति ।। स्ववाक्यविरोधोऽपसिद्धान्तजातिरूपेण इति स्ववाक्यविरोधप्रभेदत्वेन कण्ठत एव ग्रहणादित्यर्थः ।
जातेस्तु स्वन्यायविरोधे अन्तर्भाव इत्याह ।। परोक्तजातेरिति ।। आद्यकक्षो-द्भाव्ये स्थापनानुमाने गते स्वन्यायविरोधे द्वितीयाद्युत्तरकक्षाभाविपरोक्तजातेः अन्तर्भावासम्भवात् उक्तं प्रतिषेधात्मकतृतीयजातीति । परनिराकरणोत्तरा-त्मकतृतीयजातीर्त्यथः । तथा च परनिराकरणरूपोत्तरे प्राप्यमाणा या स्वन्याय-विरोधात्मकतृतीयजातिः तद्रूपत्वात् इति योज्यम् । अत एव दूषणासमर्थमुत्तरं जाति: इति वक्ष्यति । अथ वा परप्रतिषेधरूपस्वन्यायविरोधात्मकास्मदुक्त-तृतीयजातिमदुत्तररूपत्वादित्यर्थः । परप्रतिषेधरूपत्वम् उतरस्य विशेषणम् । एवं च न स्थापनानुमाने प्राप्यमाणस्वन्यायविरोधे जातेरन्तर्भावः । किं नाम ? प्रथमं वादिना स्थापनाहेतौ प्रयुक्ते सति दूषणाशक्तं प्रतिवाद्यदीरितं यत् उत्तरं द्वितीयाऽदिकक्षाभावि, तत्र प्राप्तो यः स्वन्यायविरोधः तत्र परोक्तजातेरन्तर्भाव इति नान्तर्भावासम्भव इति भावः ।
प्रमाणलक्षणटीकाविवरणम्
।। संन्यासस्येति ।। उक्तः प्रमितत्वादिति भावः । प्रतिषेधात्मकेति विरोधात्मकेत्यर्थः ।