अकृतसमयसंज्ञास्मरणसहायं तत्समभिव्याहृत-वाक्यार्थप्रत्यभिज्ञाप्रत्यक्षं उपमानम्
तार्किकोक्तोपमानस्यानुमानान्तर्भावः
प्रमाणलक्षणटीका
अकृतसमयसंज्ञास्मरणसहायं तत्समभिव्याहृत-वाक्यार्थप्रत्यभिज्ञाप्रत्यक्षं उपमानम् । संज्ञासंज्ञिसम्बन्धप्रमिति-स्तत्फलमित्यन्ये ।
तत्रातिदेशवाक्यार्थस्त्रिविधः । साधर्म्यं वैधर्म्यं धर्ममात्रं चेति। तद्भेदात् तत्प्रतिसन्धानात्मकमुपमानमपि त्रिधा भिद्यते ।
तत्र साधर्म्योपमानं यथा, ‘यथागौर्गंवयस्तथा’ इति श्रुतातिदेशवाक्यस्य नागरिकस्य वनं गतस्य गोसदृशं गवयमवलोकयतोऽव्युत्पन्नगवयपदस्मरणवतः ‘अयमसौ गोसदृशः य आप्तेनोपदिष्ट’ इति प्रतिसन्धानं,तेन तस्य गवयपदार्थत्वप्रमा।
वैधर्म्योपमानं यथा,‘गवादिवत् द्विशफो न भवत्यश्व’ इत्यतिदेशवाक्यं श्रुतवतः अश्वं पश्यतः अश्वपदं स्मरतः ‘अयमसौ गवादिविसदृश’ इति प्रतिसन्धानम् , तस्य तेनाश्वपदार्थत्वप्रमितिः ।
धर्ममात्रोपमानं यथा, ‘दीर्घग्रीवत्वाऽदिमान् पशुरुष्ट्र’ इत्यतिदेशवाक्यं श्रुतवतः क्रमेलकं पश्यतउष्ट्रपदस्मृतिमतः ‘अयमसौ तद्वर्मा’ इति प्रतिसन्धानम्, तेनोष्ट्रपदव्युत्पत्तिरिति।
तदेतत् त्रयमप्यनुमान एवान्तर्भूतम् । विमतो गवय-शब्दवाच्यः अगोत्वे सति गोसदृशत्वात् व्यतिरेेकेण घटवदिति प्रयोगसंभवात् । अतो न विभागानुपपत्तिः । अत्रोपमानद्वयस्य अन्तर्भावानुक्तिः अतिस्फुटप्रतिभासत्वात्, आगमान्तर्भूतत्वे विवादाभावाच्चेति ।
प्रयोगप्रकारवैचित्र्यात् कथमनुमानत्वमित्यत उक्तम् ।। अनुमाविशेष इति ।। यथाखल्वन्वयिनो व्यतिरेकिणश्च प्रयोगप्रकारवैचित्र्येऽपि नानुमानाद्बहिर्भावः अनुमान-विशेषत्वात् अपेक्षितसाधर्म्यसद्धावाच्च तथाऽत्रापीति ।
एतेनोपमानस्यार्थविशेषनिष्ठतया पार्थक्यशंकाऽपि परास्ता । तादृशसंप्रतिपन्नानुमानवदेव तदुपपत्तेः । अनेनैव ‘‘न च केवलतर्केण’’ इत्यादिपृथगुक्तेर्गतिश्चोक्ता भवति
प्रमाणलक्षणटीकाभावदीपः
तार्किकोक्तमुपमानमाह ।। अकृतेति ।। तन्मते सङ्केतमात्रस्य कृतिमत्वात् अकृतेत्युक्तम् । अकृतः अज्ञातः , समयः सङ्केतः वाच्यवाचकसम्बन्धः यस्याः सा अकृतसमया, सा च सा सञ्ज्ञा च, तस्याः स्मरणसहायं अव्युत्पन्नवाचकपदस्मृतिसहकृत प्रत्यभिज्ञाप्रत्यक्षम् इत्यन्वयः ।
।। तत्समभिव्याहृतेति ।। अकृतसमयसञ्ज्ञासमभिव्याहृतेत्यर्थः ।। अतिदेशवाक्यार्थ इति ।। सादृश्याऽदिपदघटितवाक्यार्थ इत्यर्थः ।। तद्भेदादिति ।। अतिदेशवाक्यार्थभेदात् । सञ्ज्ञासञ्ज्ञिसम्बन्धप्रमितिसाधनाऽत्मकमित्यर्थः।
कदाऽपि गवयदर्शनं नेति प्रदर्शनायोऽक्तम् ।। नागरिकस्येति ।। प्रतिसन्धानमिति ।। दीर्घग्रीवाऽऽदिधर्मवानित्यर्थः ।। व्युत्पत्तिरितीति ।। सङ्केतज्ञानमित्यर्थः । गवान्तरे अव्यभिचारायोक्तम् ।। अगोत्वे सतीति ।। महिषाऽदौ अव्यभिचारायेक्तम् ।। गोसदृशत्वादिति ।। अन्वयव्याप्तौ दृष्टान्ताभावादाह ।। व्यतिरेकेणेति ।।
यद्यपि, अत्र अमुक इति दृष्टान्ताभावेऽपि अतिदेशवाक्यस्य आप्तवाक्यत्वेन ‘ब्राह्मणो न हन्तव्यः’ इति वाक्यस्येव ‘यो यो गोसदृशः स सर्वोऽपि गवयपदवाच्यः’ इति व्याप्तिग्राहकत्वसम्भवात् अन्वयव्याप्तिरेव वक्तुं शक्या, तथाऽपि उपायान्तरप्रदर्शनमेतत् । यथा, ‘पृथिवीत्ववती पृथिवीति व्यवहर्तव्या’ इति लक्षणवाक्यं श्रुतवतः पृथिवीत्वाभिसम्बन्धं क्वचित् द्रव्ये पश्यतः अनुमानेनैव सञ्ज्ञासञ्ज्ञिसम्बन्धप्रमितिरभ्यपगम्युते, लक्षणमपि केवलव्यतिरेकीति प्रसिद्धेः , तथा प्रकृतेऽपीति भावः ।
न चात्र साध्याप्रसिद्धिर्दोषः शङ्क्यः व्यतिरेकि णि तस्या अदोषत्वात् । सामान्यतः प्रसिद्धिस्तु ‘गयवपदं क्वचिच्छक्तम् पदत्वात्’ इत्यादिना भविष्यति । एतदर्थमेव प्राक् केवलव्यतिरेकिणा अन्वयव्यतिरेकिणा च व्युत्पत्तिप्रकारः प्रदर्शितः । एतदुपलक्षणम् । ‘विमतः अश्वपदवाच्यः एकशफत्वात् गवादिविसदृशात्वात्’ विमतः उष्ट्रपदवाच्यः दीर्घग्रीवाऽऽदिमत्वात् व्यतिरेकेण गवादिवत्’ इत्यपि ध्येयम् ।
।। अत्रेति ।। अर्थापत्त्युपमे इति वाक्ये, एतत्प्रकरण इति वा अर्थः । शबरोक्तोपमानत्रये आद्यन्तोपमानद्वयस्येत्यर्थः ।। अपेक्षितेति ।। व्याप्तिपक्षधर्मतासाधर्म्येत्यर्थः ।। अर्थविशेषेति ।। सङ्केतरूपेत्यर्थः । अनुमानविशेषत्वकथनेन परास्तेत्यर्थः ।। अनेनैवेति ।। अर्थापत्त्यादेरनुमान-विशेषत्वकथनेनैव । ‘‘न च केवलतर्केण नाक्षजेन न केचित्’’ इति तत्वनिर्णयाऽदौ तर्केणेति तर्कशब्दितानुमानेन न ज्ञेयो हरिः इत्यक्त्यैव न केन-चिदित्युक्तार्थाऽपत्त्यादिनाऽपि न ज्ञेय इत्यस्य लाभात् केनचिदिति आर्थाऽपत्त्यादेः पार्थक्योक्तेर्गतिश्चोक्ता भवतीत्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
एवं शाबरोपमानस्यान्तर्भावमभिधाय तार्किकाभिमतोपमानस्या-प्यनुमान एवांतर्भावं वक्तुं तत्स्वरूपमाह ।। अकृतेति ।।। सहायमित्येतत् प्रत्यक्षविशेषणम् । तथा च अकृतः अज्ञातः, समयः वाच्यवाचकभावसम्बन्धः, यस्याः सञ्ज्ञायाः गवयपदस्येति यावत्, तस्याः यत् स्मरणं, तत्सहायं तत्सहकृतम्, तत्समभिव्याहृतं अकृतसमयसञ्ज्ञासमभिव्याहृतं सहोच्चरितं यत् ‘गोसदृशो गवय’ इत्यतिदेशवाक्यं, तस्य योऽर्थः साधर्म्याऽदिः , तस्य पूर्वं वाक्येनानुभूतस्य सञ्ज्ञिनि गवयाऽदौ ‘अयमसौ गोसदृशः पशु’ इत्यादि यत् प्रत्यक्षेण प्रत्यभिज्ञानम् तत् उपमानम् इत्यर्थः। यथाऽऽहुः ‘‘अव्युत्पन्नपदोपेतवाक्यार्थस्य च सञ्ज्ञिनि । प्रत्यक्षप्रत्यभिज्ञा-नमुपमानमिहोच्यते ’’ इति ।। ।। सञ्ज्ञासञ्ज्ञीति ।। गोसाद्दश्याऽदिज्ञानानन्तरं गवयाऽदौ वाच्यवाचकभावसम्बन्धप्रमितिरित्यर्थः । यथाऽऽहुः
‘‘प्रमेयं तस्य सम्बन्धः सञ्ज्ञायाः सञ्ज्ञिाना सह ।
तत्प्रतीतिः फलं चास्य नासौ मानान्तरात् भवेत्’’ इति ।
।। तद्भेदादिति ।। अतिदेशवाक्यार्थस्य त्रिविधत्वात् इत्यर्थः ।। तत्प्रतिसन्धानात्मकमुपमानमिति ।। तत्प्रत्यभिज्ञाप्रत्यक्षरूपमुपमानमित्यर्थः। यथाऽऽहुः– ‘‘तत्रातिदेशवाक्यार्थस्त्रिविधः परिगृह्यते । साधर्म्यं धर्ममात्रं च वैधर्म्यं चेति भेदतः’’ इति ।।
।। साधर्म्योपमानं यथेति ।। साधर्म्यप्रत्यभिज्ञाप्रत्यक्षमित्यर्थः । एवमेव वैधर्म्याेपमानं धर्ममात्रोपमानम् इत्येतदपि व्याख्येयम् ।। गवयपदार्थत्वप्रमेति ।। गवयपदवाच्यत्वप्रमेत्यर्थः । एवमेव अश्वपदार्थत्वप्रमितिरित्येतदपि व्याख्येयम् ।। तद्धर्मेति ।। सः दीर्घग्रीवत्वाऽदिः धर्मो यस्यासौ तद्धर्मेत्यर्थः । उष्ट्रपदव्युत्पत्तिः उष्ट्रपदवाच्यत्वज्ञानम् ।
तत्र साधर्म्योपमानस्यानुमानान्तर्भावम् उपपादयति ।। विमत इति ।। गोसदृशे गवान्तरे व्यभिचारवारणाय सत्यन्तम् । घटाऽदौ व्यभिचारवारणाय विशेष्यभागः । आदिशब्देन वैधर्म्योपमानधर्ममात्रोपमानयोरपि ‘विमतः अश्वशब्दवाच्य: द्विशफत्वशून्यत्वात् व्यतिरेकेण गवादिवत्’ तथा ‘विमतः उष्ट्रपदवाच्यः दीर्घग्रीवादिमत्वात् व्यतिरेकेण घटाऽदिवत्’ इत्यनुमानेऽन्तर्भावप्रकारो द्रष्टव्यः ।। अतो न विभागेति ।। अनुप्रमाणं त्रिविधमिति विभागेत्यर्थः।
ननु शबरनिरूपितत्रिविधोपमानमध्ये द्वितीयोपमानस्यैव भगवत्पादैरनुमाना-न्तर्भाव उक्तः । न प्रथमतृतीययोः । तत् कुतः ? इत्यत आह ।। अत्रेति ।। प्रथमोपमानस्यान्तर्भावानुक्तौ निमित्तमाह ।। अतिस्फुटप्रतिभासत्वादिति ।। प्रत्यक्षेऽन्तर्भावस्येति शेषः । तृतीयस्यानुक्तौ निमित्तमाह ।। आगमान्तर्भूतत्व इति ।। तृतीय उपमान इति शेषः ।
।। प्रयोगप्रकारेति ।। द्वितीयस्य शाबरोपमानस्य भगवत्पादैरनुमानेऽतर्भाव उक्तः । स न युक्तः । केवलान्वयिनि प्रमेयत्वे अन्वयव्यतिरेकिणि धूमवत्वे केवलव्यतिरेकिणि प्राणाऽदिमत्वे च यथा व्याप्त्यादिप्रकारः तदपेक्षया अत्र वैचित्र्यमस्ति ‘गौः गवयसदृशी गवयगतसादृश्यप्रतियोगित्वात् यो यद्गतसादृश्य-प्रतियोगी स तत्सदृशः’ इति प्रयोगप्रकाराऽङ्गीकारात् । अतः कथमनुमानत्वमित्यर्थः।
।। वैचित्र्येऽपीति ।। केवलान्वयिनि हेतुसाध्ययोर्व्याप्तिः केवलव्यतिरेकिणि साध्याभावसाधनाभावयोरिति व्याप्त्यादिप्रयोगप्रकारवैचित्र्येऽपीत्यर्थः ।। अपेक्षितेति ।। केवलान्वयिसाधर्म्यस्य यथाकथंचित् व्याप्त्यपेक्षया अर्थगमकत्वस्य अर्थगमकत्वस्य व्यतिरेकिण्यपि सद्भावेन तद्वैचित्र्यस्याप्रयोजकत्वात् इत्यर्थः
।।तथाऽत्रापीति ।। केवलान्वयिसाधर्म्यंस्य व्याप्त्यपेक्षया अत्रापि सत्वेन तद्वैचित्र्यस्य अप्रयोजकत्वात् इत्यर्थः । इयं च सामान्यव्याप्तिः । तन्मूलकमिदमनुमानं च सामान्यतो दृष्टम् इत्युच्यते । यद्यपि ‘तदयोग्यार्थमुत्तरम्’ इति प्रत्यक्षायोग्यार्थानुमापकमेव सामान्यतो दृष्टं इत्यभिहितम् तथाऽपि सामान्यव्याप्तिमूलकमप्यनुमानं सामान्यतो दृष्टं भवत्येव । यथोक्तम् पद्धतौ ‘‘व्याप्यव्यापकयोः अन्यादृशत्वेऽपि तत्सामान्याऽकारानुगमेन लिङ्गलिङ्गिभावे सामान्यतोदृष्टम्, यथा कृषीवलस्य कर्षणाऽदिप्रवृत्तेर्धान्याऽदिफलवत्वदर्शनेन यज्ञाऽदेः स्वर्गाऽदिफलानुमानम् प्रेक्षावत्प्रवृत्तित्वफलवत्वसामान्यानुगमात्’’ इति।
ननु उपमानं पृथक्प्रमाणमिति वक्तव्यम् । सादृश्यरूपार्थविशेषनिष्ठत्वात् इति केनचिदुक्तमाशङ्क्य निराकरोति ।। एतेनेति ।। एतेनेत्युक्तमेव विशदयति ।। तादृशेति ।। अर्थविशेषनिष्ठेत्यर्थः।
।। तदुपपत्तेरिति ।। उपमानस्यार्थविशेषनिष्ठतोपपत्तेरित्यर्थ: । यथा हि केवलान्वय्यनुमानसाध्यं अभिधेयत्वाऽदि केवलान्वयिरूपं न तथा व्यतिरेकिसाध्यम्, तथा केवलव्यतिरेक्यनुमानसाध्यं सात्मकत्वाऽदि केवलव्यतिरेकिरूपं न तथा केवलान्वयिसाध्यमिति तयोः अर्थविशेषनिष्ठत्वेऽपि नानुमानात् पार्थक्यं तद्वत् इहापीत्येवमर्थविशेषनिष्ठत्वं न पृथक्प्रामाण्यसाधकं व्यभिचारात् इति भावः। ननु तथापि नार्थाऽपत्त्यदीनामनुमानेऽन्तर्भाव: सम्भवति ।। तथा हि, ‘‘न च केवलतर्केण नाक्षजेन न केनचित् । केवलाऽगमविज्ञेयो भक्तैरेव न चान्यथा’’ इति वाक्ये विष्णोः नाक्षजेनेति प्रत्यक्षाविषयत्वमुक्त्वा ‘न च केवलतर्केण’ इति तर्कशब्दोक्तानुमाना-विषयत्वं चोक्त्वा ‘न केनचित्’ इत्यर्थाऽपत्त्याद्यविषयत्वमुच्यते । इदं च तदैवोपपन्नं स्यात् यदि अर्थाऽपत्त्यादीनां पृथक्प्रामाण्यं स्यात् । अनुमानान्तर्भावाङीकारे तु ‘न च केवलतर्केण इति सामान्यतोऽनुमाननिषेधेनैव अर्थापत्त्यादीना-मपिप्रतिषेधलाभात् ‘न केनचित्’ इति पुनर्निषेधो व्यर्थ एव स्यात् । अतो ‘न केनचित्’ इति पृथङ्निषेधान्यथाऽनुपपत्त्या अर्थाऽपत्त्यादीनां पृथक्प्रामाण्यसिद्धिः इत्यत आह ।। अनेनैवेति ।। अनुमाविशेष इति अनुमाविशेषत्ववचनेनेत्यर्थः ।
।। गतिश्चोक्ता भवतीति ।। तथा च ‘न च केवलतर्केण’ इति सामान्यतः अनुमानं निषिद्ध्य कुरुपाण्डववत् सामान्यविशेषभावमाश्रित्य अर्थाऽपत्त्या-दिप्रतिषेधाय ‘न केनचित्’ इत्युक्तमिति भावः ।
प्रमाणलक्षणटीकाविवरणम्
नन्वेवमस्योपमानकरणत्वेन भाव्यं तत् किमित्यत आह ।। संज्ञासंज्ञीति।। संज्ञासंज्ञिसम्बन्धो नाम वाच्यवाचकभावसम्बन्धप्रतिपत्तिः।
नन्वेवमतिदेशवाक्यार्थस्य त्रिविधत्वेऽपि प्रकृते किमायातमित्यत आह ।। तद्भेदादिति ।। अतिदेशवाक्यस्य त्रिविधत्वेन तत्प्रत्यभिज्ञाप्रत्यक्षरूपमुपमानमेव त्रिविधमुक्तं भवति त्रिविधस्याप्युदाहरणमाह ।। यथेत्यादिना ।।
ननूपमानस्यार्थविशेषनिष्ठत्वात् कथमनुमानेऽन्तभार्वः सम्भवति ? अन्यथाऽनुमानादीनामपि प्रत्यक्षविशेषत्वमङ्गीकृत्यैकस्यैव प्रमाण्यं स्यादित्यत आह ।। एतेनेति।। एतेनेत्यनेन परामृष्टं दर्शयति ।। तादृशेति ।। तादृशत्वेन सम्प्रतिपन्नं विशेषनिष्ठत्वेन सम्प्रतिपन्नं यदनुमानं तद्वदेवोपपत्तेः। अन्यथा केवलान्वय्यादेरप्यनुमानेऽन्तर्भावो न स्यात् । अर्थविशेषनिष्ठत्वात् तेषाम् ।
नन्वेवमर्थापत्त्युपमानादेरनुमानान्तभावो न सम्भवति । तथात्वेन च केवलतर्केणेत्यनेन परमात्मनः तर्कविषयत्वौक्त्यैवार्थापत्त्याद्यविषयत्वस्यापि उक्तत्वेन पुनस्तदविषयत्वोक्तिः सङ्गता स्यात् । तथा च तद्बलात् तेषां पार्थक्यमेवाङ्गीकार्यमित्यत आह ।। अनेनेति ।। अर्थापत्त्यादेरनुमानविशेषत्व-कथनेनेत्यर्थः। तथा चार्थापत्त्यादेरनुमानत्वेऽपि पृथगुक्तिरनुपपन्नैव । तद्विशेषत्वात्। सामान्यविशेषभावेन चापौनरुक्त्योपपत्तेरिति भावः ।।