स्वोक्तापलापः प्रतिज्ञासन्न्यासः
प्रतिज्ञासन्न्यासः
प्रमाणलक्षणटीका
स्वोक्तापलापः प्रतिज्ञासन्न्यासः । हानिवदवान्तरभेदभिन्नः । चतुर्धा च प्रवर्तते – केनेदमुक्तम् ? इति वा परमत-मेतन्मयोक्तम् इति वा त्वयेदमुक्तम् इति वा परोक्तं मयाऽनूदितम् इति वेति ।। ४ ।।
प्रमाणलक्षणटीकाभावदीपः
।। हानिवदिति ।। साधनापलापो दूषणापलापः । तत्राऽद्यः पक्षे साध्यसाधनधर्मितद्विशेषणापलापभेदेन षड्विधः । दृष्टान्तेऽप्येवमित्या-दिरूपेण ज्ञेय इत्यर्थः । उदाहरणानि तु तत्रैव ‘पर्वतोऽग्निमान् प्रमेयत्वात्’ इत्यादौ अनैकान्त्योद्भावने ‘केनेदमुक्तम्’ इत्यादिरूपेण चतुर्धा प्रवर्तत इत्यर्थः ।। ४ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘स्वयमुक्तापलापेन प्रतिज्ञान्यासनिग्रह:’’
इति कारिकाऽनुसारेण प्रतिज्ञातं न्यासं लक्षयति ।। स्वोक्तेति ।। स्वोक्तस्य स्वयमेवापलाप इत्यर्थः । यद्वा स्वोक्तेति भावे क्तः । ततश्च स्वोक्त्यपलाप इत्यर्थः। अत एवोक्तम् पद्धतौ, सोऽयं प्रमाणविरोध एव , उक्तेः प्रमितत्वात् इति ।। हानिवदिति ।। प्रतिज्ञाहानिवदित्यर्थः ।। अवान्तरभेदेति ।। साध्यापलाप-साधनापलाप धर्म्यपलापतध्विशेषणापलापाऽदिभेदेन भेदवानित्यर्थः ।। पर-मतमिति ।। आवाभ्यामन्यस्य मतमित्यर्थः ।। त्वयेदमुक्तमिति ।। न मयेत्यर्थः ।। अनूदितमिति ।। न विहितमित्यर्थः ।। ४ ।।
प्रमाणलक्षणटीकाविवरणम्
अथ प्रतिज्ञासंन्यासं लक्षयति ।। स्वोक्तेति ।। स्वोक्तस्य स्वयमेवापलापः प्रतिज्ञासंन्यास इत्यर्थः ।। परमते तदिति ।। आवाभ्यामन्यस्य मतमित्यर्थः ।। ४ ।।