साध्यस्य साधनस्य वा अननुगमो दृष्टान्तविरोधः
दृष्टान्तविरोधः
प्रमाणलक्षणटीका
दृष्टान्तविरोधं दर्शयति
प्रमाणलक्षणम्
साध्यस्य साधनस्य वा अननुगमो दृष्टान्तविरोधः
उभयोर्वेति ग्राह्यम् । अननुगमो अनुगत्यप्रमितिः । साधर्म्य दृष्टान्तस्यायं विरोधः । साध्यस्य साधनस्य उभयोर्वा व्यावृत्त्यप्रमितिर्वैधर्म्यदृष्टान्तविरोधोऽपि द्रष्टव्यः । अनेन पक्षसाधनदृष्टान्तलक्षणराहित्यं प्रतिज्ञाहेत्वादिविरोधलक्षणं सूचितं भवति । तल्लक्षणविभागादि संग्रहेणैव ज्ञापयितु-मियमुक्तिः ।
प्रमाणलक्षणटीकाभावदीपः
उभयोर्वेति ग्राह्यमिति ।। उभयवैकल्यस्थले तत्वेन रूपेण अनुद्भाव्यत्वेऽपि अन्यत सवैकल्यस्य तत्रापि उद्भाव्यत्वात् उभयोर्वेत्युक्तम् । अन्यथा तादृशस्थले अग्रे दृश्यत्वहेतुदृष्टान्ते दोषोद्भाव नस्याप्राप्तिप्रसङ्गात् इति तर्कताण्डव एव व्याख्यातमिदं वाक्यम् ।
।। अनेन पक्षेति ।। साध्यधर्म विशिष्टत्वरूपपक्षलक्षणराहित्यं प्रतिज्ञा-विरोधः, साधनत्वाभिव्यञ्जकविभक्त्यन्तलिङ्गवचनत्वराहित्यं हेतुविरोधः, व्याप्ति प्रदर्शनपूर्वकं सम्यग्दृष्टान्तवचनत्वहीन उदाहरणाभासः इति प्रतिज्ञाविरोधादिलक्षणं अनेन प्रमाणविरुद्धार्थेत्यादिकथनेनोक्तं भवतीत्यर्थः ।। इयमुक्तिरिति ।। प्रमाणविरुद्धार्थेत्याद्युक्तिरित्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
।। उभयोश्चेति ग्राह्यमिति ।। रीत्येति शेषः । उभयोर्वादिप्रतिवादिनो रीत्या चशब्दात् अन्यतररीत्या च दूषणमिति ग्राह्यमित्यर्थः । यथोक्तमनुव्याख्याने
..................एकपक्षेऽपि दूषणं ।
साध्यसाधनवैकल्यं दृष्टांतस्य ..... ।। इति ।
व्याख्यातं च सुधायां यद्वा दृष्टान्तस्य साध्यसाधनवैकल्यमपि व्यभिचारादिवत् उभयान्यतररीत्या द्विविधं प्रतिपत्तव्यं न पुनरेकविधमेव । अभिमानतो द्वैविध्यस्यापि सम्भवादित्याह ।। साध्येति ।। एकपक्षेऽपि दूषणमित्यनुवर्तते इति ।
‘साध्यस्य साधनस्य वा अननुगमो दृष्टान्तविरोधः’ इत्येव न । किं तु ? ‘उभयोः साध्यसाधनयोश्च अननुगमो दृष्टान्तविरोध इति ग्राह्यम्’ इत्येवं उभयोश्चेति ग्राह्यं इति वाक्यव्याख्यानं तु, साध्यसाधनवैकल्यं दृष्टांतस्य इत्यनुव्याख्यानेन तथा साध्यसाधनवैकल्यमेव दृष्टान्तस्य दूषणं नापरम् । तथा हि, उभयवैकल्यं तावत् पृथङ्न वाच्यम् । एकैकवैकल्येनैव दृष्टान्तस्य दुष्टत्वे समुदितवैकल्यकल्पनावैयर्थ्यात्। अन्यथैकैकवैकल्यस्य दूषणत्वाङ्गीकारासम्भवात् । सम्भवमात्रेण पृथग्वचने अनैकान्तिककालातीतत्वं नाम हेत्वाभासान्तरं वाच्यं स्यात् इति सुधया, अन्यतरवैकल्येनैव दृष्टान्तस्य दुष्टत्वे उभयवैकल्यं पृथङ्न गणनीयम् । तस्मात्सा-ध्यवैकल्यं साधनवैकल्यं च द्वयमेव दृष्टान्तदूषणम्’ इति पद्धत्या च विरुध्दम् । नचेदं पररीत्योक्तमिति वाच्यम् । स्वमतनिरूपणपराचार्यवाक्यस्य पररीत्या व्याख्यानस्य अकौशलापादकत्वात् ।
न च ‘मनोऽनित्यं मूर्तत्वात्’ इत्यनुमाने परमाणुवत् कर्मवच्च इत्यत्र क्रमेण साध्यवैकल्यसाधनवैकल्ययोरेव दोषत्वम् । यदातु तत्रैव प्रयोगे गगनं दृष्टान्ततयोपात्तं तत्रैकैकवैकल्यमात्रस्यायोगेन दृष्टान्तदोष एव नास्तीति दोषान्तरमेव वाच्यमिति शङ्का स्यात् । अतः तादृशस्थले सम्भावितत्वेन उभयवैकल्यमेव वाच्यमित्याशयेनैव उभयोश्चेति ग्राह्यम् इत्युक्तमिति वाच्यम् । सम्भवमात्रेण पृथग्वचने अनैकान्तिककालातीतत्वं नाम हेत्वाभासान्तरं वाच्यं स्यात् इति सुधाविरोधापत्तेरिति द्रष्टव्यम् ।
तर्कताण्डवे तु, या तु, साध्यस्य साधनस्य वाऽननुगमो दृष्टान्तविरोधः इति प्रमाणलक्षणव्याख्यावसरे टीकाकारीया ‘उभयोर्वेति ग्राह्यम्’ इत्युक्तिः, सा यथा मनोऽनित्यं मूर्तत्वात् परमाणुवत् कर्मवत् इत्यत्र क्रमेण साध्यवैकल्यं साधनवैकल्यं च दोषः तथा गगनवत् इत्यादावुभयवैकल्याख्यौ दोषौस्तः इत्यभिप्रेत्यैव , न तूभयवैकल्यदूषणस्य पृथग्दूषणत्वमित्यभिप्रेत्य, अन्यथा एकैकवैकल्येन दृष्टान्तस्य दुष्टत्वे समुदितकल्पनावैयर्थ्यात् इत्यादिसुधया, उभयवैकल्यं पृथङ्न गणनीयम् इति पद्धत्या च विरोधात् इत्युक्तम् ।
दृष्टान्ते साध्यस्य साधनस्य वा सत्त्वेऽपि यत्र तत्प्रमित्यभावः तस्यापि दोषत्वसंग्रहाय अनुगत्यप्रमितिः इत्युक्तम् । बैधर्म्यदृष्टान्ते साध्यसाधनयोरननुगमो गुण एव इत्यत आह ।। साधर्म्येति ।। उभयोर्वेति वाशब्दः साधनस्येत्यनेनापि सम्बद्यते । उभयोः वादिप्रतिवादिनो रीत्या वाशब्दात् अन्यतररीत्या चेति व्याख्येयम्। दृष्टान्ते साध्यसाधनयोर्व्यावृत्तिसद्भावेऽपि यत्र तत्प्रमित्यभावः तस्यापि दोषत्व-संग्रहाय व्यावृत्त्यप्रमितिः इत्युक्तम् । साधर्म्यदृष्टान्तस्यायं गुण एव इत्यतो वैधर्म्यदृष्टान्त इत्युक्तम् ।
नन्वेवं पद्धतिविरोधः तत्र व्यतिरेकव्याप्तेः प्रकृतसाध्यसिद्धावनुपयोगात् इत्यादिना व्यतिरेकव्याप्तिं निराकृत्य वैधर्म्योदाहरणस्यानुपयुक्तत्वात्तदाभास-कथनमनुपयुक्तम् इत्युक्तत्वादिति चेत् सत्यं, यद्यपि प्रकृतसाध्यसिद्धौ व्यतिरेकव्याप्तिरनुपयुक्तैव तथापि प्रकृतसाध्यसिद्ध्युपयुक्तान्वयव्याप्तिसाधकत्वेन परम्परयोपयोगस्य कथं तर्हि केवलव्यतिरेकिणः संव्यवहारः ? इत्थम् इत्यादिना तत्रैवाभिहितत्वात् तदभिप्रायेणेदमुक्तमित्यविरोध इति द्रष्टव्यम् ।
ननु प्रमाणविरुद्धार्थप्रतिज्ञा इत्यनेन वक्ष्यमाणरीत्या बाधसत्प्रतिपक्षरूपं द्वैविध्यमेव प्रतिज्ञाविरोधस्योक्तम् । न तु तल्लक्षणम् । अतः प्रतिज्ञाविरोधं लक्षयतीति कथमुक्तं ? एवं हेतुस्वरूपासिद्धिः इत्यादिवाक्यद्वयेनापि हेतुविरोधदृष्टान्त-विरोधयोर्विभाग एवोक्तो न तु लक्षणम् । अतो न्यूनता इत्यत आह ।। अनेनेति ।। वाक्यत्रयेणेत्यर्थः ।। लक्षणेति ।। साध्यधर्मविशिष्टः पक्षः लिङ्गं हेतुः, निदर्शनं दृष्टान्तः इत्युक्तलक्षणेत्यर्थः । ननु लक्षणमनुक्त्वा विभागोक्तौ किं प्रयोजनम् ? इत्यत आह ।। तल्लक्षणमिति ।। तेषां प्रतिज्ञाविरोधादीनां लक्षणमित्यर्थः ।। इयमुक्तिरिति ।। प्रमाणविरुद्धार्थप्रतिज्ञेत्याद्युक्तिरित्यर्थः ।