हेतोः साध्यात् पूर्वापरसहभावनिरासेन ओतुत्व-चोदनं ओतुसमः

अहेतुसमः

प्रमाणलक्षणटीका

हेतोः साध्यात् पूर्वापरसहभावनिरासेन ओतुत्व-चोदनं ओतुसमः । यथा दूमवत्त्वज्ञानं अग्निमत्वज्ञानात् अग्निमत्वाद्वा किं पूर्वभावि उतानन्तरभावि उत तेन सम-भावीति । नाद्यः । साध्याभावे तस्य साधनत्वायोगात् । न द्वितीयः । साधनाभावे साध्यस्य तत्वायोगात् । न तृतीयः । अविशेषेण साध्यसाधनभावायोगादिति ।

प्रमाणलक्षणटीकाभावदीपः

।।साध्यस्य तत्वायोगादिति ।। साध्यत्वायोगादित्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

हेतोर्विकप्ल्य साध्यार्थपूर्वापरसहोदयम् ।

त्रेधाऽपि तस्य हेतुत्वभङ्गोऽहेतुसमो भवेत् ।।

इतिकारिकानुसारेण ओतुसमजातिं लक्षयति ।। हेतोरिति ।। कृतिज्ञाप्तिसाधा-रणीऽयं जातिः । भावशब्दस्य पूर्वापरशब्दाभ्यामपि सम्बन्धो द्रष्टव्यः । अग्निमत्त्व-ज्ञानादिति कृतिपक्षाभिप्रायेण अग्निमत्त्वाद्वेति ज्ञप्तिपक्षाभिप्रायेणेति मन्तव्यम् । तस्य धूमवत्वज्ञानस्य ।। साधनत्वायोगादिति ।। साध्यं साध्यते अनेनेति साद्ध्यसिद्धिकरणत्वरूपसाधनत्वस्य साध्यनिरूप्यत्वेन पूर्व साध्याभावे किम-पेक्षयेदं साधनं स्यादिति साधनत्वायोगादित्यर्थः ।। तत्त्वायोगदिति ।। साधना-भावेऽपि  जायमानस्य साधनजन्यसिद्धिकर्मत्वरूपं साधनत्वं न युक्तम् । तथा च पूर्वसिद्धं यत् साध्यं तत् प्रति कथमिदं साधनं स्यात् ? इत्यर्थः ।

प्रमाणलक्षणटीकाविवरणम्

ओतुसमलक्षणमाह । हेतोरिति ।। कृतिज्ञप्तिसाधारणेयं जातिः साध्याभावेनेति । साधनत्वस्य साध्यप्रतियोगित्वरूपत्वात् पूर्वसाध्याभावे किमपेक्ष्येदं साधनं स्यादिति साधनत्वाभाव इत्यर्थः साधनाभाव इति । साधनाभावेऽपि जायमानस्य साधनत्वायोगात् । पूर्वं सिद्धं यत् साध्यं तस्य कथमिदं साधनं स्यात् इत्यर्थः । प्रतितर्कप्रतीतिरिति । साधनत्वं तस्य स्यादित्यादि प्रतितर्कप्रतीतिरित्यर्थः अन्योन्याश्रयत्वमिति । अन्योन्याश्रयलक्षणप्रतितर्कपराहतिरित्यर्थः । साधनत्वं साध्यनिरूपितं साध्यत्वं च साधननिरूपितमिति । तदभावे तदभाव इत्यन्योन्याश्रयो द्रष्टव्यः ।

।। प्रतिषेधोऽपीति ।। अयं भावः । विमतो हेतुः साध्यासाधकः तर्कपराहतत्वा-दिति त्वदीयप्रतिषेधोऽपि यदि प्रतिषेध्यात् पूर्वभावी तदा प्रतिषेध्यस्यैवाभावत् किमपेक्ष्याऽयं प्रतिषेधःस्यात् यदि पश्चाद्भावि तदापि तस्य प्रतिषेध्यत्वानुपपत्तेः। सहभावित्वे तु अविशेषात् प्रतिषेध्यप्रतिषेधकभावानुपपत्तिः ।

Load More