वादिवाक्यस्यावधारणे तात्पर्यमारोप्य विकल्प्य तद्दूषणमुपलब्धिसमः

उपलब्धिसमः

प्रमाणलक्षणटीका

वादिवाक्यस्यावधारणे तात्पर्यमारोप्य विकल्प्य तद्दूषणमुपलब्धिसमः । यथा ‘पर्वतोऽग्निमान्’ इत्युक्ते किं पर्वत एवाग्निमान् ? उत पर्वतोऽग्निमानेव ? इति ।

नाद्यः महानसादेरप्यग्निमत्वात् । न द्वितीयः कदाचिद-नग्निमत्वात् इत्यादि ।

वाक्यस्यावधारणे तात्पर्यावश्यम्भावाभिमानोऽत्रोत्थान बीजम् । बाधादि आरोप्यम् । जात्युतरेऽपि अस्य साम्यात् व्याघातः । अयुक्ताङ्गाधिकत्वं च अन्ययोगायोगव्यवच्छेदस्य अयोगादिति ।। १९ ।।

प्रमाणलक्षणटीकाभावदीपः

बाधाद्यारोप्यमिति ।। साध्यवैकल्यमादिपदार्थः ।। जात्युत्तरेऽपीति ।। ‘ धूमवत्त्वं असाधकं बाधादिदुष्टत्वात् संमतवत्’ इत्यत्रापीत्यर्थः ।। १९ ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

अवधारणतात्पर्यं वादिवाक्ये विकल्प्य यत् ।

तद्बाधात्प्रत्यवस्थानमुपलब्धिसमो मतः ।।

इतिकारिकानुसारेण उपलब्धिसमजातेर्लक्षणमाह ।। वादिवाक्यस्येति ।। पर्वत एवेति ।। अस्य एवकारस्य विशेष्यसङ्गतत्वात्  तस्य च विशेष्यतावच्छेदकानाक्रान्ते विशेषणसम्बन्दव्यवच्छेदोऽर्थ इति द्रष्टव्यम् ।। पर्वतोऽग्निमानेवेति ।। अस्य च एवकारस्य विशेषणसङ्गतत्वात् तस्य च इतरपदार्थतावच्छेदके एवकारसमभि-व्याहृतपदार्थतावच्छेदकव्याप्यत्वमर्थ इत्यवधेयम् ।

।। कदाचिदनग्निमत्वादिति ।। अग्निं विनापि कदाचित् पर्वतस्योपलभ्य-मानत्वेन साध्याभावेऽपि धर्म्युपलब्धेर्बाध इत्यर्थः । इत्यादीति अदिपदेन तस्यामेव प्रतिज्ञायां धूमवत्त्वात् इत्युक्ते धूमः किं धर्मिणा अन्ययोगव्यवच्छेदेन पर्वते सम्बध्यते ? उत अयोगव्यवच्छेदेन ? । न प्रथमः  वृक्षादेरपि उपलब्धेः । न द्वितीयः धूमाभावेऽपि कदाचित् पर्वतस्योपलब्धेः । ततश्च साधनाभावेऽपि धर्मी उपलभ्यत इति असिद्धिः इत्यादि ग्राह्यम् । बाधादीति आदिपदेन असिद्धिग्रहणम् ।

 ।। जात्युत्तरेऽपीति ।। अयं भावः , ‘धूमवत्त्वात् इति हेतुः साध्यासाधकः बाधितत्वात्’ इति प्रतिषेधानुमानेऽपि किं पक्षीभूतो धृमवत्त्वहेतुरेव साध्यासाधकः ? उत साध्यासाधक एव ? इति । न प्रथमः प्रमेयत्वादेरपि बह्न्यसाधकत्वदर्शनात्। न द्वितीयः धूमवत्त्वहेतोः वह्निरूपसाध्यासाधकत्वेऽपि अभिधेयत्वरूपसाध्य-साधकत्वदर्शनात् बाधः इत्येवं अवधारणे तात्पर्यमारोप्य विकल्पदूषणयोः साम्यात् स्वन्यायविरोध इति ।

कथं ? इत्यत आह ।। अन्ययोगायोगव्यवच्छेदस्येति ।। अन्ययोगायोगयो-र्व्यवच्छेदस्येत्यर्थः । ‘एकसत्वेद्वयमिह नास्ति’ इति प्रतीतिसिद्धव्यासज्यवृत्ति-प्रतियोगिकाभावाभिप्रायेणेदम् । इह च अन्ययोगव्यवच्च्छेदस्य अयुक्तत्वेऽपि अयोगव्यवच्छेदस्य अङ्गीकारात् । उभयं विहाय वाक्यार्थायोगात् । न च अयोगव्यवच्छेदाङ्गी कारे उक्तदोष इति वाच्यम् इदानीं वह्निमत्वस्य साध्यत्वेन तदयोगव्यवच्छेदोपपत्तेः इति । अत एव ‘तस्माद्वह्निमानेव’ इति निगमनमिति सम्प्रदायः ।

उक्तं च वरदराजीये ‘अयोगव्यवच्छेदमात्रेण अवधारणोपपत्तौ’ इति । तथा च अयोगव्यवच्छेदमात्रेण अवधारणोपपत्तौ अन्ययोगव्यवच्छेदेन अवधारणस्य अयुक्तस्यैव त्वया अङ्गीकारात् अयुक्ताङ्गाधिकत्वं इति भावः ।। १९ ।।

प्रमाणलक्षणटीकाविवरणम्

।। जात्युत्तरेऽपीति ।। तद्यथा । विमतो हेतुः साध्यासाधको बाधितत्वादिति प्रतिषेधानुमानेऽपि किं धूमवत्वहेतुरेव साध्यासाधकः उत साध्यासाधक एव वा । नाद्यः संप्रतिपन्नमेयत्वादेरसाधकत्वात् । न द्वितीयः । वन्हिमत्वरूपसाध्यासाधकत्वेऽपि अभिधेयत्वादिरूपसाध्यसाधकत्वात् । असाधकत्वस्यैव वक्तुमशक्यत्वात् । न च प्रकृतसाध्यसाधकविवक्षितम् । इदानीं वन्हिमत्वस्य मयाऽपि विवक्षितत्वादिति समम् ।