न च सम्यगनुभवसाधनं प्रमाणम्

नैयायिकाभिमतप्रमाणलक्षणनिरासः

प्रमाणलक्षणटीका

नैयायिकलक्षणं निराकरोति

प्रमाणलक्षणम्

न च सम्यगनुभवसाधनं प्रमाणम्

सम्यग्ग्रहणं संशयविपर्ययापोहनम् । अनुभव इति कुठारादेर्निरासः । ज्ञानग्रहणे स्मृतौ प्रसङ्गादनुभवग्रहणम् । साधनग्रहणं फलात् भेदज्ञापनार्थं प्रमातृप्रमेयव्यवच्छेदार्थं चेति।

एतदपि लक्षणं नोपपद्यते । कस्मात् ? इत्यत आह

ईश्वरज्ञानादावव्याप्तेः

नैयायिकैः खल्वीश्वरस्यापि प्रमाण्यमङ्गीकृतम् । अतः तस्मिन्नीश्वरे तज्ज्ञाने अस्मदादिज्ञाने चाव्याप्तत्वादिदमलक्षणम् । न हीश्वरादेः सम्यगनुभवसाधनत्वमस्ति । ईश्वरातिरिक्त-प्रमाणलक्षणं तत् इत्यङ्गीकारेऽपि तज्ज्ञानादावव्याप्ति-रपरिहार्यैवेति ज्ञापनाय स्वरुपेण तज्ज्ञानग्रहणम् ।

ज्ञानं प्रमाणमेव न भवति । किं तु ? तत्फलमेव  । अतः कथं तत्राव्याप्तिर्दूषणम् इत्यत आह 

अप्रामाण्ये प्रमाणाभावाच्च

ज्ञानस्येति शेषः । चशब्देन ‘‘स्मृतिः प्रत्यक्षमैतिह्यं’’ इत्यादि प्रमाणविरोधं समुच्चिनोति ।

प्रमाणलक्षणटीकाभावदीपः

।। फलाद्भेदज्ञापनार्थमिति ।। प्रमितिरूपफलादित्यर्थः ।। प्रमातृप्रमेयेति ।। तयोरनुभवहेतुत्वेऽपि साधनत्वाभावादिति भावः ।। स्वरूपेण तज्ज्ञानग्रहणमिति ।। ईश्वरादावित्यनुक्त्वा ईश्वरज्ञानादाविति ग्रहणमित्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

।। सम्यगनुभवेति ।। यथार्थानुभवेत्यर्थः प्रमेति यावत् । तथा च ‘प्रमाकरण प्रमाणम्’ इति फलितोऽर्थ इति द्रष्टव्यम् ।। संशयविपर्ययेति ।। तयोरप्यनुभवत्वेन प्रमात्वापत्त्या तत्साधनस्यापि दुष्टेन्द्रियादेः प्रमाणत्वं  स्यात् तदपोहार्थं सम्यक्पदग्रहणमित्यर्थः ।

।। कुठारादेरिति ।। साधनत्वमात्रस्य तत्रापि सत्त्वादिति भावः ।। ज्ञानग्रहण इति ।। सम्याज्ञानसाधनं प्रमाणमित्युक्ते स्मृतेरपि यथार्थज्ञानत्वेन प्रमात्वापत्त्या तत्साधनस्य संस्कारस्यापि प्रमाणत्वं स्यात् । अतोऽनुभवग्रहणमित्यर्थः । स्मृतिव्यतिरिक्तज्ञानस्यैव अनुभवत्वात् तेन तद्व्यावृत्तिरिति भावः ।

।। फलाद्भेदेति ।। सम्यगानुभव एव प्रमाणमित्युक्ते फलभूततया अलक्ष्ये अनुभव एवातिव्याप्तिः स्यात् । अतः साधनग्रहणमिति भावः । ननु तर्हि फलात् भेदज्ञापनार्थं सम्यगनुभवकारणम् प्रमाणम् इत्येवास्तु ।  किं साधनग्रहणेन ? इत्यत आह ।। प्रमात्रिति ।। ‘यस्मिन् सति नियमेन प्रमा भवत्येव, नासति’ तदिह साधनं विवक्षितमिति तद्व्यवच्छेद इति भावः ।

।। अङ्गीकृतमिति ।। ‘साक्षात्कारिणि नित्ययोगिनि परद्वारानपेक्षस्थितौ’ इतिकारिकायां ‘तन्मे प्रमाणं शिवः’ इत्युक्तत्वादिति भावः ।

आदिपदार्थमाह ।। अस्मदादिज्ञाने चेति ।।  ईश्वरादेरित्यत्र आदिपदेन तज्ज्ञानादिसंग्रहः । ईश्वरीयसम्यगनुभवस्य नित्यत्वेन ईश्वरे तदाश्रयत्वसद्भावेऽपि तत्साधनत्वाभावात् , तदीयज्ञाने तु साधनत्वस्यैवाभावादिति भावः ।

ईश्वरादावव्याप्तेः इत्युक्तावपि आदिपदेन तज्ज्ञानलाभात् तथा अनुक्त्वा कण्ठरवेण तज्ज्ञानग्रहणस्य प्रयोजनमाह ।। ईश्वरातिरिक्तप्रमाणेति ।। लौकिकप्रमाणेत्यर्थः ।

 ।। तत्फलमेवेति ।। तस्य प्रमाणस्य फलमेवेत्यर्थः ।। अथ इति ।। अलक्ष्यत्वादित्यर्थः । अप्रामाण्य इति मूलस्य ज्ञानस्य प्रमाणफलत्वमेव अङ्गीकृत्य प्रमाणत्वानङ्गीकार इत्यर्थः ।। इत्यादिप्रमाणेति ।। तत्र स्मृतिपदस्य केवलप्रमाणपरतया व्याख्यातत्वादिति भावः ।

प्रमाणलक्षणटीकाविवरणम्

आदिशब्दार्थमाह अस्मदादीति । कुतो व्याप्तिरित्यत आह नहीति । आदिपदेन तदा न संग्रहः । ईश्वरज्ञानस्य नित्यत्वेन ईश्वरस्य तदसाधनत्वं तज्ज्ञानस्य सम्यगनुभवत्वात्तदभाव इति विवेकः स्वरूपेण ज्ञानशब्देनैव ईश्वरात् पृथक्त्वेन ग्रहणं नत्वस्मदादिज्ञानवदादिपदेनेति भावः ।