स्यादेतत् । न तर्कोऽनुमानम्

उक्तमाक्षिप्य परिहारः

प्रमाणलक्षणटीका

स्यादेतत् । न तर्कोऽनुमानम् । तर्के  हि  प्रामाणिक-हानाऽदि आपाद्यते । न च तत् साध्यं भवति अपसिद्धान्तात्  प्रमाणविरोधाच्च, आरोपितलिङ्गत्वेनासिद्धेश्चेति । अत उक्तम् ।। दूषणेति ।।

द्विविधं ह्यनुमानम् । स्वपक्षसाधनं परपक्षदूषणं च । तत्राऽद्यं यथा ‘पर्वतोऽग्निमान् धूमवत्वात्’  इति । द्वितीयमपि द्वेधा प्रवर्तते ‘नायं निरग्निकः अनिर्धूमत्वात्’ इति वा ‘निरग्निकत्वां-गीकारे निर्धूमत्वाभ्युपगमः’ इत्यनिष्टप्रसंगरूपेण वा ‘तत्र दूषणानुमाने तर्कस्यान्तर्भावः ।

प्रसंगरूपानुमाने च न  साध्यवत् आपाद्यस्य प्रमाणविरोधाऽदि असिद्धिश्च  दूषणमिति वक्ष्यतीति न  कश्चिद्विरोध इति । एतदर्थ एव योगविभागः ।

प्रमाणलक्षणटीकाभावदीपः

‘पर्वतो निर्धूमः निरग्निकत्वात्’ इति प्रयोगप्रकारं मन्वानः शङ्कते ।। स्यादेतदित्यादिना ।। अपसिद्धान्तादिति ।। धूमवत्वस्याभ्युपगतत्वात् प्रत्यक्षसिद्धत्वाच्चेति भावः । तर्को हि साधनानुमानमिव विपर्यये पर्यवसानमुखेन क्वचित् स्वातन्त्र्येण अग्न्याद्यनुमितिजनकः क्वचित् व्याप्यत्वप्रमितिजननद्वारा प्रमाणानुग्राहकश्च भवतीति उभयानुरोधेनानुमानत्वमभिप्रेत्याऽह ।। नायमिति।।

यद्यपि ‘नेदं साध्यसाधकं असिद्धत्वात्’ इत्यादिदुष्टिप्रमितिसाधनमपि दूषणानुमानम् । अतः त्रेधेति वक्तव्यम् । तथाऽपि तस्य तर्कोक्तिप्रस्तावे अनुपयोगात् अनुक्तिः । ‘न चायं निर्धूमः तस्मान्निरग्निकः’ इति विपर्यये पर्यवसितस्या-यमनुमानत्वस्फोरणायैवमुक्तिः । ‘धूमोऽस्तु, निरग्निकश्चास्तु’  इति हेतोरप्रयोजकत्वेन अव्याप्यत्वशङ्कायां विपक्षे अनिर्धूमत्वरूपानिष्टप्रसञ्जनप्रदर्शनमुखेन हेतोरग्निव्याप्यत्वप्रमित्युत्पादनद्वारा परामर्शरूपकरणस्वरूपनिष्पत्तिलक्षणानुग्रहः क्रियत इति विपर्यये पर्यवसानं विना प्रसङ्गत्वमात्रमेव प्रदर्शितम् ।

 ।। तत्र दूषणानुमान इति ।। उक्तद्विविधदूषणानुमान इत्यर्थ: ।। प्रमाणविरोधाऽदीति ।। अपसिद्धान्त आदिपदार्थः ।। वक्ष्यतीति ।। ग्रन्थान्त्यभागे परसिद्धैर्दूषणम् इति वक्ष्यतीत्यर्थः ।। अर्थाऽपत्त्युपमा तर्कश्चानुमाविशेषः’ इति वक्तव्यम् । कुतो वाक्यभेदः ? इत्यत आह ।। एतदर्थ इति ।। दूषणानुमानत्वज्ञापनार्थ एवेति वा, अर्थाऽपत्त्यादौ बाधाऽदिदोषो, न तर्के इति ज्ञापनार्थ इति वा अर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

।। तदिति ।। प्रामाणिकहानरूपं धूमाभावाऽदि ।। अप-सिद्धान्तादिति ।। स्थापनानुमान कर्त्रा धूमस्याङ्गीकृतत्वात् इत्यर्थंः ।। प्रमाणेति ।। प्रमाणबाधादित्यर्थः ।। आरोपितलिङ्गत्वेनेति ।। तर्कस्याऽरोपितलिङ्गत्वेनेत्यर्थः । वम्तुतो वह्नेः सत्वेन तदभावरूपस्य लिङ्गस्य आरोपितत्वेन स्वरूपासिद्धत्वात् इत्याशयः । ।। परपक्षदूषणमिति ।। परपक्षप्रतिक्षेपरूपमित्यर्थः ।। नायमिति ।। इदमपि साधनानुमानसरूपमेव । परं तु ? परपक्षप्रतिक्षेपरूपत्वात्  दूषणानु-मानत्वमिति ध्येयम् ।।  दुषणानुमान इति ।। अनिष्टप्रसङ्गरूपे द्वितीये दूषणानुमान इत्यर्थः ।

अनुमानान्तर्भावपक्षे पूर्वोक्तं दूषणं परिहरति ।। प्रसङ्गरूपानुमाने चेति ।। प्रकृतत्वानुमन्धानार्थश्चशब्दः । अनिष्टप्रसङ्गरूपे दूषणानुमाने चेत्यर्थः ।। साध्यवदिति ।। इदमुपलक्षणम् । साधनवत् इत्यपि द्रष्टव्यम् । व्यतिरेकदृष्टान्तः । असिद्धिश्चेत्यत्र आपादकस्येति शेषः । तथा च साधनानुमाने यथा साध्ये प्रमाणबाधः  अपसिद्धान्तश्च  दूषणम्, साधने च स्वरूपासिद्धिर्दूषणम् , एवं दूषणानुमाने आपाद्यस्य प्रमाणबाधाऽदिकं न दूषणमित्यर्थः । साध्यवत् साधनानुमानवत् इत्यर्थ इत्यप्याहुः  ।। वक्ष्यतीति ।। अतो न दूषणेऽपसिद्धान्ता-दित्यत्र । अत्रापि योगविभागकरणे निमित्तमाह ।। एतदर्थ एवेति ।। अत्र योगविभागः आत्माऽश्रयाऽदिरूपे प्रसङ्गानुमाने बाधाऽदेरदूषणत्वरूप विशेषकथनप्रयोजनक एवेत्यर्थः ।

प्रमाणलक्षणटीकाविवरणम्

।। प्रमाणविरोधश्चेति ।। प्रत्यक्षेण धूमस्य सिद्धत्वेन तदभावे साध्यमाने प्रमाणविरोधापत्तेः । ननु तर्कस्यानुमानत्वे प्रोच्यमाने पूर्वोक्तं दूषणं तदवस्थमित्यत आह ।। प्रसङ्गानुमानेति ।।

नन्वेवमस्याप्यनुमानत्वे योगविभागः किमर्थं कृत इत्यत आह ।। एदतर्थमेवेति ।। अनुमानविशेषदूषणानुमाने अंतर्भावज्ञापनार्थं योगविभागः कृत इत्यर्थः ।  एकार्थत्वमेकार्थनिष्ठत्वं । स्तुतिर्नाम गुणसङ्कीर्तनं दोषसङ्कीर्तनं निंदा । एककर्तृकवाक्यं पराकृतिः । बहुकृर्तृकं वाक्यं पुराकल्प इति स्वार्थे आगमत्वेन तत्रानुमानत्वा-संभवाद्वाक्यतात्पर्य इत्युक्तं ।