एवकारेणास्य हेतुविरोधत्वं व्यवच्छिनत्ति

बाधसप्रतिसाधनयोः हेतुविरोधत्वनिरासः

प्रमाणलक्षणटीका

एवकारेणास्य हेतुविरोधत्वं व्यवच्छिनत्ति । प्रतिज्ञामात्र एवास्य स्फुरणात् । व्याप्त्यादिहेत्वङ्गस्यानेनाखण्डितत्वाच्च । एतेन प्रबलप्रमाणविरोधस्यापि हेतुविरोधत्वं प्रत्युक्तम् ।

प्रमाणलक्षणटीकाभावदीपः

प्रमाणविरुद्धार्थेत्युक्त्यैव प्रबलसमबलप्रमाणद्वयविरोधस्यापि लाभादुत्तरवाक्यं पुनरुक्तमित्यत आह ।। बाध एवेति ।। पूर्वत्र प्रमाणपदेन प्रबल-प्रमाणमभिप्रेतमिति मन्वानः शिष्यः । आह शङ्कत इत्यर्थः । तामेव शङ्कामाह ।। सप्रतिसाधनोऽपीति ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

ननु प्रमाणविरुद्धार्थप्रतिज्ञेत्यनेनैव सप्रतिसाधनस्यापि सङ्गृहीत-त्वात् कथमियं शङ्का ? इत्यत उक्तम् ।। बाध एवेत्यादि ।। कथमेवं त्रैविध्यमिति ।। तथा च चतुर्विधो विरोधः प्रतिज्ञाहेतुदृष्टान्तसप्रतिसाधनभेदेन इति वक्तव्यमिति भावः ।। बाधकत्वेनेति ।। साध्याभावप्रमाजनकत्वेन प्रतिज्ञाविरोध इत्यर्थः ।। प्रतिबन्धकत्वेनेति ।। कारणीभूताभावप्रतियोगित्वेन प्रतिज्ञाविरोध इत्यर्थः ।। युक्तमुक्तमिति ।। त्रिविधो विरोध इत्युक्तं युक्तमित्यर्थः ।

।। हेतुविरोधत्वमिति ।। अत एव तार्किकाः ‘असत्प्रतिपक्षत्वं हेतुरूपम्’ इत्याहुः । तत् एवकारेण व्यवच्छिनत्तीत्यर्थः । तदेवोपपादयति ।। प्रतिज्ञामात्र एवेति ।। अस्य सप्रतिसाधनस्य । तथा च प्रतिज्ञाविरोध एवायमिति भावः ।

किञ्च अस्य हेतुदोषत्वे हेतुनिष्ठव्यप्त्याद्यङ्गविघटकत्वं वक्तव्यम् । तदिह नास्तीत्याह व्याप्त्यादीति ।। एतेनेति ।। प्रतिज्ञामात्र एव स्फुरणेनेत्यर्थः ।

प्रमाणलक्षणटीकाविवरणम्

अननुगमो नामानुगत्यभावः । तथा च यद्यत्र साध्यस्य साधनस्य वा सत्वं तस्यैव दृष्टान्तदोषत्वं स्यात् । नतु तत्र तत्सत्वेऽपि तत्प्रत्ययाभावः स्यात्। अत आह ।। अनुगत्यप्रमितिरिति ।। तथा च यत्र साध्यसाधनवैकल्येन तत्र यत्र सत्वेऽपि प्रमितिर्नास्ति तत्रापि प्रमित्यभावः । तत्रापि प्रमित्यभावसत्वान्न दोषः।

ननु वैधर्म्यदृष्टान्तस्य साध्यवैकल्यं साधनवैकल्यं गुण एव तत्कथं दोषत्वेनो-क्तिरत आह ।। अत्रेति ।। तर्हि वैधर्म्यदृष्टान्तस्य को दोष इत्यत आह ।। साध्यस्येति ।। ननु वैधर्म्यदृष्टान्ते साध्याव्यावृत्तत्वादिकमपि ग्राह्यमित्युक्तम् । व्यतिरिक्ते व्याप्तेः स्वयमेव निराकरणात् । न च परमतानुसारेणोक्तमिति वाच्यम् । आचार्यवाक्य-व्याख्यानरूपत्वेन तदुक्तेरसङ्गतत्वात् । अन्यथा तद्विरोध इति चेन्न । व्यतिरेके व्याप्तेः साक्षादनुमित्यंगत्वाभावेऽपि

अप्रयोजकत्वशंकापरिहारकत्वेनानुमित्यंगभूतान्वयव्याप्तिसाधकत्वेन प्रयोजकत्वसत्वात् साक्षात्प्रयोजके परंपराप्रयोजकं च संकल्प्य इयमुक्तिरिति भावः।

ननु प्रमाणविरुद्धार्थप्रतिज्ञेत्यनेन वक्ष्यमाणरीत्या बाधसत्प्रतिपक्षरूप-द्वैविध्यमेेव प्रतिज्ञाविरोधस्योक्तं न तु तल्लक्षणम् । अतःप्रतिज्ञाविरोधं लक्षयतीति कथमुक्तम्। एवं हेतुस्वरूपासिद्धिरित्यादिवाक्यद्वयेन हेतुविरोध दृष्टान्तविरोधयो-र्विभागोक्तौ किं प्रयोजनमित्यत आह  ।। तल्लक्षणमिति ।। तेषां प्रतिज्ञाविरोधादीनां लक्षणमित्यर्थः

।। इयमिति ।। प्रमाणविरुद्धार्थप्रतिज्ञे स्याद्युक्तिरित्यर्थः । ननु बाधवत् सत्प्रतिसाधनस्याऽपि प्रमाणविरोधत्वेन सत्प्रतिसाधनपक्षस्य पार्थक्यशंकाया एवानुदयात् । प्रतिज्ञायाः समबलप्रमाणविरोधत्वाभावात् कथं स एवेत्युच्यत इत्यत आह ।। द्विविध इति ।। यद्वा समबलप्रमाणविरोध एवेत्युक्त्या सूचितं विरोधद्वैविध्यमाह ।। द्विविध इति ।। आद्य इति ।। बाधकत्वेन साध्याभाव-प्रमाजनकत्वेनेत्यर्थः । यदर्थं द्वैविध्यमुक्तं तदाह सोऽयमिति ।

ननु एवकारो व्यर्थ इत्यतः सत्प्रतिसाधनस्य हेतुविरोधत्वं नैय्ययिकैरंगीकृत-मस्ति दूषणार्थं एवकार इत्याह एवकारेणेति ।। प्रतिज्ञामात्रस्य असाधकत्वान्निया-मकमाह ।। प्रतिज्ञेति ।। न चैवं बाधसत्प्रतिसाधनवदनैकांतिकविरुद्धादेरपि प्रतिज्ञाविरोधत्वमेव स्यादिति चेन्न । विकल्पासहत्वात् तथाहि । किमेषां हेत्वाद्यंग-घटकत्वात्तदुच्यते ? नाद्य इत्याह ।। व्याप्त्यादीति ।। विरुद्धादीनां च व्याप्त्याद्यंगविघटकत्वान्न दूषणत्वमिति । न द्वितीयः । प्रतिज्ञामात्र एव स्फुरणे न तद्दूषणत्वस्यांगीकार्यत्वादिति पूर्वमेवोक्तत्वात् ।

यद्वा अस्य हेतुदोषत्वे हेतुनिष्ठव्याप्त्याद्यंगविघटकत्वं वक्तव्यम् । तदिह नास्तीत्याह व्याप्त्यादीति ।। एतेनेति ।। प्रतिज्ञामात्र एव स्फुरणेन विरुद्धादिवत् व्याप्त्यद्यंगविघटकत्वाभावाच्च सप्रतिसाधनस्य हेतुदूषणत्वनिराकरणेनेत्यर्थः ।