त्रिवारमुक्तेऽपि परिषत्प्रतिवादिभ्यामविज्ञातार्थबोधक-पदप्रयोगोऽविज्ञातार्थकम्

अविज्ञातार्थकम्

प्रमाणलक्षणटीका

त्रिवारमुक्तेऽपि परिषत्प्रतिवादिभ्यामविज्ञातार्थबोधक-पदप्रयोगोऽविज्ञातार्थकम् । तच्चतुर्विधम् ।

स्वतन्त्रमात्रसिद्धम्, रूढिमनपेक्ष्य केवलयोगेन प्रवृत्तम्, निर्णायकाभावेन संशयाऽक्रान्तम्, अतिद्रुतोच्चारितं चेति ।

आद्यं यथा ‘स्फ्यकपालपुरोडाशाऽदि’ मीमांसकानाम् ।

द्वितीयं यथा ‘कश्यपतनयाधृतिहेतुरयं त्रिणयनतनयासन-समाननामधेययुक्तः’ इत्यादि ।

तृतीयं यथा ‘श्वेतो धावति’ इत्यादि ।

तत्राऽद्यं परस्परसिद्धान्ताभिज्ञताशौण्डीर्याभिमानेन उपादीयेतापि । उत्तरं तु नोपादेयमेव । ज्ञापनार्थत्वात् शब्दस्य। अनवधानाऽदिशङ्कानिरासाय पुनर्वचनं प्राश्निकैरपेक्ष्यते । त्रिरिति नियमश्च । ततः परमज्ञानस्य वचनदोषहेतुत्वनिश्चयात्। न हि प्राश्निकापेक्षयोच्यमाने तेषामनवधानं सम्भवति । नापि परिषदविदुषी, येनादोषमपि न जानीयादिति ।। ८ ।।

प्रमाणलक्षणटीकाभावदीपः

।। मीमांसकानामिति ।। स्वतन्त्रमात्रसिद्धमित्यन्वेति ।। कश्यपतनयेति ।। भूमिधारणहेतुः पर्वतोऽयमित्यर्थः । त्रिणयतनयः षण्मुखः तदासनं मयूरशब्दितः शिखी तत्समाननामधेयोऽग्निः तद्युक्त इत्यर्थः

।। श्वेत इति ।। शुक्लो वेगेन गच्छति, श्वा इतो धावति शुद्धं करोति इत्यनेकार्थप्रतीते: । शौण्डीर्यम् महिमा ।। उपादीयेतापीति ।। तादृशप्रयोगो न दोषावह इत्यर्थः । प्राश्निकानामनवधानात् अस्त्वज्ञानम्, परिषदोऽज्ञत्वात् अस्त्वज्ञानम् इत्यत आह ।। न हीति ।। ८ ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘त्रिभङ्ग्यतरमुक्तेऽपि प्राश्निकैः प्रतिवादिना

 वाक्यमज्ञायमानार्थमविज्ञातार्थमुच्यते’’

इति कारिकाऽनुसारेणाविज्ञातार्थं लक्षयति ।। त्रिवारमुक्तेऽपीति ।। वादिनेति शेषः । परिषदः प्राश्निकाः ‘परिषत्प्रतिवादिभ्यामविज्ञातार्थम्’ इति सूत्रस्थ-परिषच्छब्दस्य ‘त्रिभङ्ग्यन्तरमुक्तेऽपि प्राश्निकैः प्रतिवादिना’  इति तार्किकरक्षायां प्राश्निकपरतया व्याख्यातत्वात् इत्यवगन्तव्यम् ।

 ।। अविज्ञातार्थबोधकेति ।। अविज्ञायमानार्थबोधकपदप्रयोग इत्यर्थः । इदमुपलक्षणम् । अन्वितेत्यपि द्रष्टव्यम् । ताभ्यां च विशेषणाभ्यां क्रमेण निरर्थकापार्थकोभयव्यावृत्तिः ।

 ।। स्वतन्त्रमात्रसिद्धमिति ।। स्फ्यकपालेत्यादि ।। खङ्गाकारः खादिरो यज्ञाऽयुधविशेषः स्फ्यशब्देनोच्यते । कपालं खर्परखण्डः । अश्वशाफमात्रः पिष्टमयो हविर्विशेषः पुरोडाशः । आदिपदेन दशापवित्रद्रोणकलशाऽदेः संग्रहः

।। कश्यपतनयेत्यादि ।। ‘पर्वतोऽग्निमान्’ इति वक्तव्ये कश्यपतनयेत्यादि प्रयुज्यते । इदं तु रूढिमनपेक्ष्य केवलयोगेन प्रवृत्तम् । तथा हि, कश्यपतनया भूः । ‘क्षोणी ज्या काश्यपी क्षितिः’ इत्यमरः । तस्या या धृतिर्धारणा । तद्धेतुः तत्कर्ता भूधरः । त्रिनयनो महारुद्रः । तस्य तनयः षण्मुखः । तदासनं मयूरः । तस्य समानं  साधारणं शिखीति नामधेयं यस्य वह्नेः । ‘शिखिनौ वह्निबर्हिणौ’ इति कोशात् । तेन युक्त इत्यर्थः । इत्यादीत्यादिपदेन ‘तद्ध्वजवत्वात्’ इत्यस्य संग्रहः ।

तथा

‘‘गोगजवाहनभोजनभक्षादुद्भवपक्षविपक्षजशत्रोः ।

 वाहनवैरिकृतासनजुष्टा पातु शिवा वो जगत्त्रयजुष्टा’’

इत्यादेः संग्रहः । गवा वृषभेन गच्छतीति गोगो रुद्रः । तज्जः षण्मुखः । तस्य वाहनं मयूरः । तस्य भोाजनं सर्पः । तस्य भक्षो भक्ष्यम् आहारो वायुः । तस्मादुद्भवो हनुमान् । तस्य पक्षो रामः । तस्य विपक्षोविरोधी रावणः । तज्ज इन्द्रजित् । तस्य शत्रोरिन्द्रस्य । यत् वाहनम् गजः । तद्वैरी सिंहः । तत्कृतं यदासनं सिंहासनम् । तत्र जुष्टा धातूनामनेकार्थत्वात् स्थितेति यावत् । जगत्त्त्रयेण जुष्टा सेविता । शिवा पार्वती । वः पातु इति तदर्थो द्रष्टव्यः ।

 ।।श्वेत इति ।। श्वित्री शोधनं करोति, श्वा इतो धावति इत्यादिनानार्थ-प्रतीतेरित्यर्थः । शौण्ड्यम् चातुर्यम् । तथा चोभयानुमत्यभावे निग्रहस्थानत्वम् , उभयानुमतौ सत्यां न निग्नहस्थानत्वम् इति भावः ।

नन्वाद्यवत् उत्तरेषां त्रयाणामपि किमनियतं निग्रहस्थानम् ? इत्याशङ्क्याऽह ।। उत्तरं त्विति ।। उत्तरत्रिकमित्यर्थः । कुतः ? इत्यत आह ।। ज्ञापनार्थत्वादिति ।। तथा च तदभावे अविज्ञातार्थबोधकत्वप्राप्त्या निग्रहस्थानत्वमेवेति भावः ।

ननूत्तरत्रिकस्य सर्वथा अनुपादेयत्वे किम् त्रिवारवचननियमेन ? त्रिवार-मुक्तेऽपि प्राश्निकाऽदेरबोधे अविज्ञातार्थत्वमस्तु । अतो लक्षणे त्रिवारमुक्तेऽपीति विशेषणं व्यर्थमित्यत आह ।। अनवधानाऽदीति ।। स्वेषामिति शेषः । अनवधानम् मनोव्यासङ्गः । एकवारोक्त्या अबोधस्य वक्तृदोषानिश्चामकत्वात् इति भावः ।

तर्हि चतुर्वारमप्यभिधानं किम् न स्यात् ? इत्यत आह त्रिरितीति ।। नियमश्चा-पेक्ष्यत इति सम्बन्धः । ततः किम् ?  इत्यत आह ।। ततःपरमिति ।। त्रिवारोक्त्य-नन्तरमपीत्यर्थः ।। वचनदोषहेतुत्वेति ।। वादिप्रयुक्तवचनदोषहेतुकत्वनिश्चयात् इत्यर्थः । ननु त्रिवारोक्त्यनन्तरमपि प्राश्निकानामनवधानं किं न स्यात् ? अतस्त्रिवारात् अधिकमपि वक्तव्यमेवेत्यत आह ।। न हीति ।। प्राश्निकापेक्षयेति ।। प्राश्निकान् अभिमुखीकृत्येत्यर्थः ।

ननु वादिवचनमदुष्टमेव । तथाऽपि प्राश्निकानामज्ञानित्वेन वादिना  त्रिवारमुक्तेऽपि तदज्ञानास्य कथं वादिदोषविनिश्चायकत्वम् ? इत्यत आह ।। नापीति ।। प्राश्निकोऽज्ञानी न हीत्यर्थः ।

।। अदोषमपीति ।। भूयो भूयः  सम्यगुक्तमपीत्यर्थः । तथात्वे प्राश्निकत्वमेव न स्यादिति भावः । यथोक्तमनुव्याख्याने स्युः सभ्याः सर्ववेदिनः ।। प्राश्निकाश्च इति । तथा च अनवधानाऽदिशङ्कानिवारणाय त्रिरिति नियमस्य प्राश्निकैरपेक्षणात् सकृदुक्ताविज्ञातार्थव्यावृत्यर्थं त्रिवारमुक्तेऽपीत्युक्तमिति विशेषणकृत्यमनेनोक्तं भवतीति ज्ञातव्यम् ।। ८ ।।

प्रमाणलक्षणटीकाविवरणम्

अविज्ञातार्थं लक्षयति ।। त्रिवारमिति ।। वादिनेति शेषः । वादिना त्रिवारमुक्तेऽपि परिषदा प्रतिवादिना चाविज्ञातो योऽर्थस्तस्य बोधकानि यानि पदानि तेषां प्रयोगेऽविज्ञातार्थमित्यर्थः ।। स्वतन्त्रेति ।। स्वस्य तंत्रं सिद्धांतः तन्मात्रे सिद्धमित्यर्थः ।। निर्णायकाभावेनेति ।। प्रकरणरूपाणीति शेषः ।

आद्यमुदाहरति ।। स्फर्य इति ।। स्वड्गाकारः खादिरो आयुधविशेषस्य कपालं खर्परखंडः । पुरोडाश अश्वशफमात्रः पिष्टमयो हविर्विशेषः । आदिपदेन दशपवित्रद्रोणकलशादीनां सङ्ग्रहः । इदं मीमांसकसिद्धांतमात्रसिद्धमिति भावः। उपलक्षणं चैतत् बौद्धमते पंचस्कंधादिकमपि स्वतंत्रमात्रसिद्धमित्यपि द्रष्टव्यं।

द्वितीयमुदाहरति ।। द्वितीय इति ।। कश्यपतनया पृथिवी तस्याः धृतिर्धारणं तस्य हेतुभूधरः पक्षः त्रिनयनो महादेवः तस्य तनयः षण्मुखः तस्यासनं मयूरः तेन समानं नामधेयं शिखीति । तद्युक्त इत्यर्थः ।। श्चेत इति ।। अत्रापि प्रकरणा-दिरूपनिर्णायकाभावे श्वेतो धावतीति वा श्चेतः कुष्ठः धावतीति वाऽर्थो न ज्ञायत इत्यर्थः । तत्र स्वतंत्रमात्रसिद्धस्याद्यस्य प्रभेदस्य निग्रहस्थानत्वमनियतमित्याह ।। अत्रेति ।। शौण्डीर्यं नाम चातुर्यम् ।

नन्वेवमाद्यवदुत्तरयोरपि किमनियतं निग्रहस्थानत्वं ? नेत्याह ।। उत्तरं त्विति ।। तत्र हेतुमाह ।। ज्ञापनेति ।। ननु सर्वथा तस्यानुपादयत्वे किं त्रिवारवचनेन ? एकवारं वचने उक्ते अविज्ञातार्थं कुतो नोद्भाव्यत इत्यत आह अनवधानादिति ।। प्रश्निकैः स्वदोषशङ्कानिरासार्थं पुनर्वचनमपेक्ष्यत इत्यर्थः । आदिपदमबोध-विपरीतबोधयोर्ग्राहकं । एवं चेत् किं त्रिवाराभिधाननियमेन चतुर्वारमपि किं न स्यादित्यत आह ।। त्रिरिति ।। नियमश्चेति ।। प्राश्निकैरिति ।। अपेक्षत इति शेषः। कुत इत्यतस्तावन्मात्रेण परिषदः स्वदोषशङ्कानिरासादित्याह ।। ततः परमिति ।। ननु त्रिवारमुक्तेऽपि परिषदोऽनवधानादेव तदवनबोधः किं न स्यादित्यत आह ।। नहीति ।। ननु परिषदः अज्ञानित्वात्तदनवबोध इत्यत आह ।। नापीति ।। ८