सा प्रतिज्ञाहेतुद्दष्टान्तरूपा
अवयवनियमनिराकरणम्
तस्यावान्तरवाक्यान्यवयवाः ते च जिज्ञासासंशयशक्यप्राप्ति-प्रयोजनसंशयव्युदासप्रतिज्ञाहेतूदाहरणोपनयनिगमनातीति दशेति जरन्नैयायिकाः । प्रतिज्ञादयः पंचैवेति नवीनाः । प्रतिज्ञा-हेतूदाहरणानि उदाहरणोपनयनिगमनानि त्रय एवेति मीमांसकाः।
उदाहरणोपनयौ द्वावेवेति बौद्धाः । तत्र तृतीयपक्षव्यतिरिक्त-नियमपक्षास्तावन्नोपपन्ना इत्याह
प्रमाणलक्षणम्
सा प्रतिज्ञाहेतुद्दष्टान्तरूपा
सेत्युपपत्तिप्रतिपादकं वाक्यमुपलक्ष्यते । दृष्टान्तेऽति तत्प्रतिपादकमुदाहरणम् । प्रतिपादनाय पक्षवचनं प्रतिज्ञा । यथा ‘पर्वतोऽग्निमान्’ इति । साधनत्वाभिव्यंजकविभक्त्यन्तं लिङ्गवचनं हेतुः । यथा ‘धूमवत्वात्’ इति । व्याप्तिदर्शनपुरस्सरं सम्यग्दृष्टान्ताभिधानमुदाहरणम् । व्याप्तग्रहणस्थलं दृष्टान्तः। स द्विविधः । साधर्म्यदृष्टान्तो वैधर्म्यदृष्टान्तश्चेत्येके । अन्वय-व्याप्तिग्रहणस्थलं साधमर्यदृष्टान्तः । व्यतिरेकव्याप्तिग्रहणस्थलं वैधर्म्यद्दष्टान्तः । अत एवोदाहरणमप्येवं द्विविधम् । तत्र साधर्म्योदाहरणं यथा ‘यो धूमवानसावग्निमान् यथा महानस’ इति । वैधर्म्योदाहरणं यथा ‘योऽग्निमान्न भवति स धूमवान्न भवति यथा हृद’ इति । एतैस्त्रिभिरेवावयवैरुपपत्तेर्बोधयितुं शक्यत्वान्न तदृशावयवत्वाऽदिनियमो युक्तः ।
अथ वा दृष्टान्तपदेन तद्वचनमात्रोपलक्षणेनेदं पक्षान्तरम् । उपलक्षणं चैतत् । उदाहरणोपनयनिगमनैः उदाहरणोपनयाभ्यां वा शक्यते बोधयितुम् । दृष्टान्तोपमानेन लिङ्गस्य पक्षे उपसंहारः उपनयः । सोप्युदाहरणानुसारेण द्विविध इति । ‘तथा चायं धूमवान् पर्वतः’ इति साधर्म्योपनयः । ‘न तथाऽयं निर्धूमः पर्वतः’ इति वैधर्म्योपनयः ।
हेतुपुरस्सरं पक्षे साध्योपसंहारो निगमनम् । यथा ‘तस्मात् पर्वतोऽग्निमानेव’ इति । किं च जिज्ञासादयः शब्दा एव न भवन्ति । कुतो वाक्यावयवाः । कुतस्तरां तन्नियमः । उपनयनिगमनयोः प्रतिज्ञाहेतुभ्यां गतार्थत्वाच्चेति ।
प्रमाणलक्षणटीकाभावदीपः
।। द्विविधमनुमानमिति ।। व्याप्तिस्मृतिमद्व्याप्यदर्शनं द्विविधमित्यर्थ: परोपदेशानपेक्षितमित्यत्र अनुमानमित्यनुकर्षः । परोपदेशापेक्षं परार्थमिति सिद्धत्वात् अनुक्तिः । तदपेक्षं परार्थमित्येव पाठः ।
।। नोपपन्ना इति ।। तत्र हेतुः उत्तरत्र एतैस्त्रिभिरेवावयवैः इत्यादिना व्यक्तः । लक्षणाबीजसम्बन्धप्रदर्शनायोक्तम् उपपत्तिप्रतिपादकमिति । व्याप्तिमल्लिङ्गप्रतिपादकमित्यर्थः । एवमग्रेऽपि । तथा च परोपदेशवाक्यं प्रतिज्ञाहेतूदाहरणरूपमित्युक्तं भवतीति भावः ।
प्रतिज्ञाऽऽदिस्वरूपमाह ।। प्रतिपादनायेति ।।। पक्षः इत्याद्युक्तेः प्रतिज्ञात्ववारणाय एतदुक्तिः । साध्यप्रमितिव्युत्पादनाय हेत्वाद्युपन्यासाय वा इत्यर्थः । पक्षस्वरूपं तु साध्यधर्मवान् धर्मो पक्ष इति प्रागेवोक्तम् । लिङ्गेत्याद्युक्तेः धूम इत्याद्युक्तेश्च हेतुत्ववारणायोक्तम् साधनत्वाभिव्यञ्जकविभक्त्यन्तमिति । अन्वयव्याप्तौ व्यतिरेकाऽदिदृष्टान्तोक्तेरुदाहरणत्ववारणायोक्तम् सम्यगिति ।। साध्यसाधनोभयोपेतेत्यर्थः । इत्येक इति द्वैविध्योक्तावेवारुचिं सूचयति । तद्बीजं तु व्यतिरेकस्य प्रकृतानुुमित्यनुपयोगादिति अन्यत्र व्यक्तम् । शिष्यव्युत्पा-दनार्थमेवात्रोपन्यासः ।। अत एवेति ।। दृष्टान्तस्य द्वैविध्यादेव तद्वचनरूप-मुदाहरणमपीत्यर्थः ।। उपपत्तेरिति ।। व्याप्तिमल्लिङ्गस्येत्यर्थः ।
प्राक् मीमांसकेतरमतनियमनिरासपरतया व्याख्यातं वाक्यम् । उपपत्ति-बोधकपरोपदेशे अवान्तरपक्षभेदोक्तिपरतया व्याचष्टे ।। अथ वेति ।। तद्वचन-मात्रेति ।। व्याप्तिप्रदर्शनपूर्वकमित्यंशो मात्रपदेन व्यावर्त्यते ।। पक्षान्तरमिति ।। ‘पर्वतोऽग्निमान् धूमवत्वात् महानसवत्’ इत्येवंरूपं परोपदेशवाक्यम् । प्रागुक्तत्र्यवयवरूपपक्षात् किञ्चिन्यूनत्र्यवयवरूपं पक्षान्तरमित्यर्थः । एतेन मीमांसकपक्षोऽप्यपोढो ध्येयः ।। दृष्टान्तोपमानेनेति ।। दृष्टान्तसादृश्येनेत्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
।। व्याप्तिमल्लिङ्गबोधकमित्यादि ।। यथाऽहुः,
‘‘यः परार्थानुमानस्य प्रयोगो वाक्यलक्षणः ।
तस्यावान्तरवाक्यानि कथ्यन्तेऽवयवा इति’’ इति ।
।। शक्यप्राप्तीति ।। शक्यसाधनेत्यर्थः ।। नवीना इति ।। यथाऽऽहुः – ‘‘ते प्रतिज्ञाऽऽदिरूपेण पञ्चेति न्यायविस्तरः’’ इति । मीमांसका इति ।। यथाऽऽहुः–‘‘त्रीनुदाहरणान्तान्वा यद्वोदाहरणाऽदिकान् । मीमांसका:...................’’ इति । ।। बौद्धा इति ।। यथाऽऽहुः ‘‘.... सौगतास्तु सोपनीतिमुदाहृतिम्’’ इति । मीमांसकपक्षस्योत्तरत्र दूषणात् तावदित्युक्तम् ।। इत्याहेति ।। त्र्यवयवनियम-वादिमीमांसकपक्षमङ्गीकृत्याऽहेत्यर्थः ।
सा इति तच्छब्दोक्तस्य लिङ्गरूपोपपत्तिलक्षणार्थस्य पक्षवचनरूपप्रतिज्ञा-दिरूपत्वाभावादाह ।। सेतीति ।। प्रतिपादकमिति लक्षणाबीजशक्यसम्बन्धोप-पादनायेति ज्ञेयम् । वाक्यं परोपदेशरूपम् ।
नन्वथापि उपपत्तिप्रतिपादकवाक्यस्य प्रतिज्ञाहेतुरूपत्वसंभवेऽपि व्याप्तिग्रहणस्थानभूतमहानसाऽदिदृष्टान्तरूपत्वाभावादाह ।। दृष्टान्तेतीति ।। इतिपदेनोदाहरणं ग्राह्यमित्यर्थः । प्रतिपादकपदप्रयोजनं पूर्ववत् ज्ञातव्यम् ।
प्रतिज्ञाऽऽदीनां लक्षणमाह ।। प्रतिपादनायेति ।। परबोधनायेत्यर्थः ।। पक्षवचनमिति ।। साध्यधर्मविशिष्टधर्मिवचनमित्यर्थो द्रष्टव्यः । अन्यथा ‘पर्वतः’ इति वचनस्यापि प्रतिज्ञात्वाऽपत्तेः । यथाऽऽहुः – ‘‘तत्र प्रतिज्ञा पक्षोक्तिः प्रतिपादयितुं परम्’’ इति । ।। साधनत्वेति ।। धूमेति लिङ्गवचनेऽतिव्याप्तिपरिहाराय विभक्त्यन्तमित्युक्तम् । तथाऽपि ‘धूमः’ इत्यादिवचने तत्परिहाराय साधनत्वाभिव्यञ्जकेति विभक्तिविशेषणम् । हेतौ पञ्चमीविधानात् साधनत्वाभिव्यञ्जकविभक्तिः पञ्चमीविभक्तिरिति ज्ञातव्यम् । यथाऽहुः, ‘‘लिङ्गस्य वचनं हेतुः साधनत्वप्रकाशकम्’’ इति । तृतीयाविभक्त्यन्तमित्यपि ज्ञातव्यम् । ‘‘पञ्चम्यन्तं तृतीयाऽन्तं वा लिङ्गप्रतिपादकम् । वचनं हेतु:’ ’ इत्यभियुक्तवचनात्।
।। सम्यगिति ।। ‘महानस’ इति दृष्टान्तवचनेऽतिव्याप्तिपरिहाराय व्याप्तिप्रदर्शनपूर्वकमित्युक्तम् । तथाऽपि ‘यो वह्निमान् असौ धूमवान् यथा महानस’ इति वचनेऽतिव्याप्तिवारणाय सम्यगित्युक्तम् । ननु दृष्टान्तस्य द्वैविध्येऽपि उदाहरणस्य किमायातम् ? इत्यत आह ।। अत एवेति ।। दृष्टान्तस्य द्विविधत्वादेव तद्वचनरूपम् उदाहरणमपि द्विविधमित्यर्थः । यथाऽऽहुः –
‘‘द्विधोदाहरणं सम्यग्व्याप्तिनिर्देशपूर्वकम् ।
दृष्टान्तवचनं तत्स्यादन्वयव्यतिरेकतः’’ इति ।
उपपत्तेर्व्याप्त्यादिमल्लिङ्गस्य । बोधयितुं स्मृतिं जनयितुमित्यर्थः ।
उपलक्षणमेतत् । जिज्ञासां जनयितुं चेत्यपि द्रष्टव्यम् । तथा हि, न तावदिदं पञ्चावयवाऽद्युपेतं वाक्यमाप्तवाक्यतया परप्रत्यायनाङ्गम् वादिप्रतिवादिनो-रन्योन्यस्मिन्ननाश्वासात् । किं तु ? गृहीतव्याप्तेः स्मारकत्वेन अगृहीतव्याप्तेर्जिज्ञासा-जनकत्वेनोपयुज्यत इत्येव वक्तव्यम् । तत्स्मरणाऽदिकं यावता भविष्यति तावान् परोदेश इति वक्तव्यम् । तच्च एतैस्त्रिभिरेवावयवैर्भविष्यतीति न नियमपक्षो युक्त इति भावः ।
पूर्वं मीमांसकपक्षमङ्गीकृत्य नियमपक्षो दूषितः । तदर्थं दृष्टान्तपदेनोदाहरणं गृहीतम् । इदानीं इदमपि पक्षान्तरमित्यभिप्रेत्याऽह ।। अथ वेति ।। तद्वचनमात्रेति ।। दृष्टान्तवचनमात्रेत्यर्थः । न च पूर्ववत् समग्रोदाहरणोपलक्षणमित्यर्थः । तथा च सा प्रतिज्ञेति वाक्यम्, सा उपपत्तिप्रतिपादिकं वाक्यं प्रतिज्ञारूपा हेतुरूपा इत्येकः पक्षः दृष्टान्तरूपेत्यपरः पक्षः इति पक्षद्वयप्रदर्शनपरतया व्याख्यातं भवतीति ज्ञातव्यम् ।
ननु दृष्टान्तवचनमात्रं कथं व्याप्त्यादिमल्लिङ्गस्मरणाऽदिकारणम् ? धर्मिलिङ्गाऽद्यन्यतरस्यापि ततोऽस्फुरणात् इति चेन्न । विवादेनैव प्रतिज्ञासिद्धौ कथं पर्वतोऽग्निमान् ? इति पृष्टे ‘महानसवत्’ इति दृष्टान्तवचनमात्रमपि व्याप्त्यादिमल्लिङ्गस्मरणाऽदिकारणं भविष्यत्येवेति ज्ञातव्यम् । यथोक्तम् ब्रह्मतर्कवाक्ये –
‘‘युक्तिः प्रतिज्ञारूपा च हेतुदृष्टान्तरूपिका ।
तथोपनयरूपा च परा निगमनाऽत्मिका ।।
पृथकू पृथक् प्रमाणत्वं याति युक्तितयैव तु’’ इति ।
।। उपलक्षणं चैतदिति ।। सा प्रतिज्ञेतिवाक्योक्त पक्षद्वयं पक्षान्तरस्याप्युप-लक्षणमित्यर्थः । तदेव दर्शयति ।। उदाहरणेति ।। मीमांसकबौद्धोक्तरीत्येति भावः । उपपत्तिर्व्याप्त्यादिमल्लिङ्गम् । बोधयितुं स्मृतिविषयीकर्तुम् । जिज्ञासितुं चेत्यपि द्रष्टव्यम् ।
।।दृष्टान्तोपमानेनेति ।। दृष्टान्तसादृश्येनेत्यर्थः । यथाऽऽहुः –
‘‘दृष्टान्तापेक्षया पक्षे हेतोर्व्याप्तिप्रदर्शकम् ।
वचनं स्यादुपनयस्तथेति न तथेति च’’ इति ।
।। हेतुपुरःसरमिति ।। यथाऽऽहुः – ‘‘हेतपूर्वं पुनः पक्षवचो निगमनं मतम्’’ इति । जरन्नैयायिकोक्तदशावयवपक्ष: अत्यन्तासम्बद्ध इत्याह ।। किं चेति ।। आदिपदेन संशयाऽदिग्रहणम् ।। न भवन्तीति ।। ज्ञातुमिच्छा हि जिज्ञासा संशयश्च ज्ञानम् संशयव्युदासश्च अभावरूपः इत्यादिप्रकारेण न शब्दाऽत्मकत्वं तेषामिति भावः ।
नवीनाभिमतः पञ्चावयवपक्षोऽप्ययुक्त इत्याह ।। उपनयेति ।। प्रतिज्ञाहेतुभ्यामिति यथायोगं सम्बन्धो न यथक्रमम् ।। गतार्थत्वादिति ।। हेतोः पक्षसम्बन्धस्य हेतुवाक्येनैव बोधितत्वेन उपनयस्य हेतुवाक्येन गतार्थत्वात् अविप्रकृष्टत्वेनोपसंहारस्यानपेक्षितत्वात् , प्रतिज्ञावाक्येन निगमनस्य गतार्थत्वाच्चेत्यर्थः ।
प्रमाणलक्षणटीकाविवरणम्
प्राधान्यक्रमानुसारेण प्रतिज्ञालक्षणमाह ।। प्रतिपादनायेति ।। साध्यवत्त्वेन पक्षवचनं प्रतिज्ञेत्यर्थः ।। अत एवेति ।। दृष्टांतस्य द्विविधत्वादेव दृष्टांताभिधानरूपं उदाहरणमपि द्विविधमित्यर्थः ।
पूर्वं दृष्टांतपदेनोदाहरणं लक्षित्वा मीमांसकोक्तपक्षाङ्गीकारेणावयवनियमो दूषितः । इदानीं तु इदमपि प्रक्षांतरमित्यभिप्रयेणाह ।। अथवेति ।। उपलक्षणं चैतदिति ।। सा प्रतिज्ञा हेतुदष्टांतरूपेति प्रतिज्ञाहेतूदाहरणानां यद्व्याप्तिमल्लिङ्गबोधकत्वमुक्तं तदुपलक्षणं । द्वयोर्वा एकस्य वाऽवयवस्य व्याप्तिमल्लिङ्गबोधकत्वसंभवात् ।
किंचेति ।। ज्ञातुमिच्छा हि जिज्ञासा । इच्छायां सन्विधानात् । सा च न शब्दः । एवं संशयादेरपि शब्दत्वाभावो द्रष्टव्यः । पक्षहेतूपसंहाररूपस्योपनयस्य हेतुवाक्येन पक्षे साध्योपसंहाररूपस्य निगमनस्य प्रतिज्ञावाक्येनैव सिद्धत्वात् पञ्चावयवनियमो न संभवतीत्याह ।। उपनयेति ।।