अन्यच्च
अर्थान्तरादीनां असङ्गतान्तर्भावः
प्रमाणलक्षणटीका
निग्रहस्थानान्तरस्यापि असङ्गतान्तर्भावमाह
प्रमाणलक्षणम्
अन्यच्च
उक्तात् अन्यदपि निग्रहस्थानं किञ्चित् असङ्गतमेव । यथा अर्थान्तरम् । प्रकृतोपयोगिन एव सङ्गतत्वात् । परबोधनार्थं प्रवृत्तस्य तदङ्गपदप्रयोग एव सङ्गत इति निरर्थकमपि । अत एव अविज्ञातार्थम् । अपार्थकस्य स्फुटस्तत्रान्तर्भावः । अप्राप्तकाले तु अवयवविपर्यासादि निग्रहस्थानमेव न भवति अर्थाविरोधात् छन्दोभङ्गादिवत् । अर्थविरोधि असङ्गतमेव । विवक्षित क्रमानुल्लङ्घने हि सङ्गतिः स्यात् । अन्यथाृनुभाषणं च, उक्तानुवादस्यैव सङ्गतत्वात् । प्राप्तदूषणोद्भावनस्यैव सङ्गत-त्वेन पर्यनुयोज्योपेक्षणमपि असङ्गतिरेवेति ।
प्रमाणलक्षणटीकाभावदीपः
।। उक्तादन्यदिति ।। प्रतिज्ञासंन्यासप्रतिज्ञाविरोधापसिद्धान्त-रूपात् अन्यदित्यर्थः । तथा निरनुयोज्यानुयोगांशचतुष्टयाच्च अन्यदित्यर्थः । आद्यत्रयस्य मानविरोधश्च इत्यत्र, जातेः स्वन्यायविरोधे, अवशिष्टत्रयस्य असङ्गतौ अन्तर्गतेरुक्तत्वादिति भावः ।
।। निरर्थकमपीति ।। अबोधकपदादिप्रयोगरूपत्वात् तस्येति भावः ।। अत एवेति ।। परबोधाङ्गपदप्रयोगस्य सङ्गतत्वादेव परिषत्प्रतिवादिभ्यां अविज्ञाता-र्थपदप्रयोगरूपं अविज्ञातार्थमपि असङ्गतमित्यर्थः ।
।। अपार्थकस्येति ।। नान्वितार्थपदप्रयोगरूपत्वात् तस्य इति भावः ।। अप्राप्तकाल इति ।। क्रमविपर्यासरूपाप्राप्तकालनिग्रहस्थानमध्ये ‘धूमवत्त्वात् पर्वतोऽग्निमान्’ इत्याद्यवयवविपर्यासः ‘अग्निमान् पर्वतः’ इत्यवयवांशविपर्यासश्च न निग्रहस्थानमित्यर्थः ।
आरम्भविपर्यासवादांशविपर्यासादेः अर्थविरोधित्वात् कथम् ? इत्यत आह ।। छन्दोभङ्गादिवदिति ।। ‘अन्यच्च असङ्गतम्’ इत्यस्यार्थान्तरमाह ।। अन्यथाननु-भाषणं चेति ।। असङ्गतमित्यनुकर्षः ।। पर्यनुयोज्येति ।। अवयवशोद्भाव्यतया प्राप्तानुद्भावनानुरूपत्वात्तस्येति भावः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
।। उक्तादिति ।। निरनुयोज्यानुयोगादित्यर्थः ।। तदङ्गेति ।। परबोधनाङ्गेत्यर्थः ।। निरर्थकमपीति ।। असङ्गतमेवेत्यर्थः ।। अत एवेति ।। परबोधनार्थं प्रवृत्तस्य पुरुषस्य परबोधनाङ्गपदप्रयोगस्यैव सङ्गतत्वेन अज्ञायमानार्थकपदप्रयोगरूपाविज्ञातार्थमपि असङ्गतमेवेत्यर्थः ।।स्फुट इति ।। अन्वितार्थवाचप्रयोगस्यैव सङ्गतत्वेन अनन्वितार्थवाचकपदप्रयोगरूपापार्थकस्यापि तत्र असङ्गतौ अन्तर्भावः स्फुट इत्यर्थः ।
।। अवयवविपर्यासादीति ।। ‘धूमवत्त्वात् पर्वतोऽग्निमान्’ इत्यवयवविपर्यासः । आदिपदेन ‘अग्निमान् पर्वतः’ इत्यवयवांशविपर्यासो ग्राह्यः ।
कुतो न भवति ? इत्यतः अन्वयबोधप्रतिबन्धाभावादित्याह ।। अर्थेति ।। तत्र दृष्टान्तमाह ।। छन्दोभङ्गादिवदिति ।। यथा अष्टाक्षरापेतपादचतुष्टवत्त्वं अनुष्टुपछन्दसो लक्षणम् । तत्र एकस्य पादस्य दैवात् नवाक्षरत्वेऽपि अन्वयबोधप्रतिबन्धकत्वाभावात् छन्दोभङ्गो न दूषणम् ‘न वा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्यां’ इति वचनात् । तथा प्रकृतेऽपि अवयवविपर्यासादेरपि अन्वयबोधप्रतिबन्धकत्वाभावात् न निग्रहस्थानत्वेन दोषत्वमित्यर्थः । आदिपदेन गणव्यत्यासो ग्राह्यः ।। अर्थविरोधीति ।। अवयवविपर्यासादीति वर्तते । अन्वयबोधविरोधि यत् ‘निर्धूमत्वात् पर्वतोऽग्निमान्’ इत्याद्यवयवविपर्यासादि तत् असङ्गतमेवेत्यर्थः। कुत इत्यतः तदुपपादयति ।। विवक्षितक्रमेति ।। अन्वयबोधा-नुकूलत्वेन वक्तुमिष्टोयः क्रमः तदुल्लङ्घनाभाव एव हि सङ्गतिः स्यात् । तदुल्लङ्घने त्वसङ्गतिरेवेत्यर्थः ।
।। अन्यथानुभाषणं चेति ।। अनुभाषणमनुवादः । यत्तदित्याद्यनुवादः दूष्यैकदेशानुवादः अन्यथानुवादः केवलं दूषणोक्तिः तूष्णीम्भावश्चेत्यननुभाषणं पञ्चविधमस्ति । तन्मध्ये अन्यथानुवादरूपं यदननुभाषणं तदपि असङ्गतमेवेत्यर्थः।
कुतः इत्यतः तदुपपादयति ।। उक्तानुवादस्यैवेति ।। परोक्तानुवादस्यैवेत्यर्थः । पर्यनुयोज्योपेक्षणस्य असङ्गतत्वोपपादनायोक्तं प्राप्तद्ूषणेति । अवश्योद्भाव्यतया प्राप्तनिग्रहस्थानरूपदूषणोद्भावनस्यैव सङ्गतत्वेन तदनुद्भावनरूपं पर्यनुयोज्योपेक्षणमपि असङ्गतमेवेत्यर्थः ।
प्रमाणलक्षणटीकाविवरणम्
विरोधस्यानेकप्रकारत्वात् । कस्मिन्न विरोधेन्तर्भाव इत्यतः स्वन्यायविरोधेऽन्तर्भाव इत्याह ।। छलेति ।। वक्ष्यते चैतत् ।। अंशद्वयस्येति ।। हान्याद्याभासस्याप्राप्तकाले ग्रहणस्य चेत्यर्थः ।
अंशद्वयस्य छलेऽन्तर्भावमुपपादयति । प्राप्तेति ।। अर्थान्तरस्य प्रकृतानुप-योग्यभिधानत्वेनानाकांक्षितत्वादसङ्गतत्वमित्यर्थः । उपपादनपूर्वं निरर्थकस्याप्य-न्तर्भावमाह । परेति ।। शब्दो हि परप्रत्यायनार्थः । तथा च यादृशेन शब्देन परस्य प्रत्यायनं स्यात् तादृश एव शब्दः प्रयोक्तव्यः तदनभिधाने संगतिरिति भावः ।
।। अत एवेति ।। शब्दस्य परबोधानेकप्रयोजकत्वेन परप्रत्यायनांगशब्दस्यैव प्रयोक्तव्यत्वेन तादृशशब्दप्रयोगस्यैव संगतत्वादेवेत्यर्थः। ।। स्फुट इति ।। अनन्वितार्थवाचकत्वोक्तेरसङ्गतत्वादिति भावः
।। अर्थाविरोधादिति ।। अन्वयबोधप्रतिबंधाभावादित्यर्थः । तत्र दृष्टन्तमाह ।। छन्दोभंगादिवदिति ।। यथाऽष्टाक्षरोपेतपादचतुष्टयत्वं अनुष्टुप् छंदसो लक्षणम् । तत्रैकस्य पादस्य दैवात् नवाक्षरत्वेऽपि अन्वयबोधप्रतिबंधकत्वाभावात् छंदोभंगो न दूषणम् । न वा एकेनाक्षरेण छंदांसि वियंति न द्वाभ्यामिति वचनात् । तथा प्रकृतेऽपि अवयवविपर्यासादेरन्वयबोधप्रतिबंधत्वाभावान्न निग्रहस्थानत्वेन दोषत्वमित्यर्थः ।
।। अर्थविरोधीति ।। अन्वयबोधविरोधीत्यर्थः । तदेवोपपादयति विवक्षितेति ।। अन्यथाऽनुभाषायां चेति । यत्तदित्याद्यनुवाददूष्यैकदेशानुवादः अन्यथानुवादः केवलं दूषणोक्तिस्तूष्णींभावश्चेति पंञ्चविधाननुभाषणान्तर्गतमन्यथानुवादरूप-मननुभाषणं चासङ्गतमित्यर्थः ।। प्राप्तेति ।। तस्य चावश्योद्भाव्यतया प्राप्तनिग्रह-स्थानानुद्भावनरूपत्वादिति भावः ।