रूढ्या योगेन वा प्रतिपाद्योऽर्थो मुख्यः
शब्दानां मुख्यार्थादिनिरूपणम्
प्रमाणलक्षणटीका
रूढ्या योगेन वा प्रतिपाद्योऽर्थो मुख्यः । बहुलप्रयोगमात्र-सिद्धा रूढिः प्रवृत्तिनिमित्तविवक्षया प्रवृत्तिर्योगः । अखण्डवृत्ती रूढिः अवयववृत्तिर्योग इति वा । गौण्या लक्षणया वा वृत्त्या शब्दबोध्योऽर्थः अमुख्यः । मुख्यार्थगुणयुक्तार्थान्तरवृत्तिर्गौणी। मुख्यार्थसम्बन्धिन्यर्थान्तरे वृत्तिर्लक्षणेति ।
प्रमाणलक्षणटीकाभावदीपः
प्रसङ्गप्राप्तमुख्यार्थादेर्लक्षणमाह ।। रूढ्येति ।। योगरूढेः समाहारवृत्तित्वेन वृत्यन्तरत्वाभावात् द्वयोरेवोक्तिः ।। मुख्यार्थगुणेति ।। मुख्यार्थगुणसदृशागुणयुक्तेत्यर्थः ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
मुख्यार्थविवक्षयेत्यादिना वाक््यलक्षणमुक्तम् । तत्र कोऽसौ मुख्यार्थः ? इत्यतः तं दर्शयति ।। रूढ्येति ।। बहुलप्रयोगमात्रसिद्धेति ।। प्रयोगमात्रबाहुल्यानुमिता रूढिरित्यर्थः । यथा घटादिशब्दानां कुम्भादाविति द्रष्टव्यं।
प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ।
इत्यनुव्याख्यानस्याप्येवमेवार्थो वर्णनीयः ।
............................बहुलातिप्रयोगतः .
रूढमित्येव साध्यं स्यात् ..................... ।
इति निरवकाशनामपादीयानुव्यख्यानोक्तेः ।
रूढिर्हि द्विविधा मता .................... ।
इत्यनुव्याख्यानस्थरूढिपदस्य रूढिरिति रूढिज्ञापको बहुलातिप्रयोगो लक्ष्यते इति सुधायां व्याख्यातत्वाच्च । तथा च ‘घटादिशब्दाः कुम्भादौ रूढाः प्रयोगमात्रबाहुल्यवत्वात् व्यतिरेकेण यौगिकशब्दवत्’ इत्यनुमानं द्रष्टव्यं । अत्र मात्रपदेन अवयवार्थमुख्यगुणसादृश्यमुख्यार्थसम्बद्धसापेक्षताव्युदासः । तेन अवयवार्थापेक्षया भेकादौ प्रयुज्यमाने केवलयौगिके पङ्कजादिशब्दे, मुख्यार्थगुणसादृश्यं निमित्तीकृत्य बटौ प्रयुज्यमाने सिंहादिशब्दे, मुख्यार्थसम्बन्धं निमित्तीकृत्य तीरादौ प्रयुज्यमाने लाक्षणिके गङ्गादिशब्दे च व्यभिचारपरिहार इति ज्ञातव्यं ।
बहुलेति स्वरूपसङ्कीर्तनं बाहुल्यमिति स्वरूपकथनं इति सुधावचनात् । अत्र यद्यपि प्रयोगमात्रबाहुल्यानुमेयाऽखण्डशक्त्या प्रतिपादकत्वरूपा रूढिः प्रयोगघटिता अन्यैवास्ति तथापि रूढ्यनुमापकप्रयोगोऽपि असाधारणधर्मत्वात् गोत्वानुमापकसास्नादिमत्त्वमिव तल्लक्षणमपि भवतीत्यभिप्रेत्येदमुक्तमिति मन्तव्यम् ।
योगलक्षणमाह ।। प्रवृत्तीति ।। यथा पङ्कजादिशब्दानां भेकादौ । अत्र प्रवृत्तिनिमित्तापेक्षप्रयोगबाहुल्यं योगरूढिः इति रूढ्यनुमापकप्रयोगगर्भं योगरूढिलक्षणं द्रष्टव्यम् ।
एवं ज्ञापकमुखं रूढिलक्षणमुक्त्वा प्रयोगमात्रबाहुल्यानुमेयाऽखण्डशक्त्या प्रतिपादकत्वरूपा रूढिः प्रयोगाघटिता अन्यैवास्ति इत्याशयेन ज्ञाप्यमुखलक्षणमाह ।। अखण्डवृत्तिरिति ।। अवयवार्थनिरपेक्षेत्यर्थः । वृत्तिः प्रतिपादकत्वं । प्रवृत्तिनिमित्तापेक्षया प्रवृत्तिर्योग इति योगलक्षणस्य घटत्वादिरूपप्रवृत्तिनिमित्त-सापेक्षरूढ्यां अतिव्याप्तत्वात् लक्षणान्तरमाह ।। अवयववृत्तिरिति ।। अवयवार्थ-मपेक्ष्यवृत्तिरित्यर्थः । नन्वस्मिन्पक्षे योगरूढिेलक्षणं विरुद्धत्वादयुक्तमिति चेत् । सत्यं, तथापि ज्ञापकमुखमेव रूढिलक्षणमङ्गीकृत्य प्रयोगबाहुल्यापेक्षा अवयववृत्ति-र्योगरूढिरिति रूढ्यनुमापकप्रयोगगर्भमेव तल्लक्षणं बोद्धव्यं । अवयवशक्ति-सापेक्षसमुदायशक्त्या अर्थप्रतिपादकत्वरूपं अपरं च योगरूढिलक्षणं रूढ्यनु-मापकप्रयोगाघटितं तर्कताण्डवोेक्तमनुसन्धेयम् ।
वस्तुतस्तु, अवयववृत्तिर्योगः रूढिस्त्वखण्डवृत्तिः । न ह्येतयोरेकत्र समावेशो युज्यते विरोधात् इत्याशङ्ग्य सुधायामेव न हि योगरूढ्योः समाहारो योगरूढिरिति ब्रूमो येन विरोधः स्यात् । किं नाम ? यथा रूढलक्षणा लक्षणामात्रात् रूढगौणी च गौणीमात्रात् प्रयोगप्राचुर्येण भिद्यते तथा प्रवृत्तिनिमित्तापेक्षत्वात् रूढिमात्रात् प्रयोगबाहुल्येन योगमात्राच्च भिन्ना तृतीयेयं वृत्तिः इति समाहितत्वेन न कोपि दोष इति ।
प्रमाणलक्षणटीकाविवरणम्
करणत्वेनान्वयाभावात्गोः आनयनकर्मत्वेस्येवसत्वादितिभावः उपचारछलेवाक् छले च मुख्यार्थामुख्याथार् प्रविष्टौ तयोः स्वरूपाज्ञाने तद्भानं न संभवति अतस्तल्लक्षणमाह योगेनेति अत्र च योगापेक्षया रूढिः प्रबलत्वादादौ निर्दिष्टः ।
प्रथमोद्दिष्टत्वात्तल्लक्षणमाह अखंडेति ।अखंडा या वृत्तिः अवयववृत्यनपेक्षा या वृत्तिः प्रतिपादकत्वं सा रूढिरित्यर्थः ।
एवं कार्यमुखं लक्षणमुक्त्वा कारणमुखं लक्षणमाह ।। बहुलेति ।। बहुलो यः प्रयोगः तन्मात्रेण सिद्धिर्यस्याः सेत्यर्थः । अत एव प्रयोगमात्रबाहुल्याद्रूढिरित्य-भिधीयत इत्यनुव्याख्याने लक्षणं कारणमुखमुक्तम् । एतच्च तर्कतांडवे अनुमानखंडे स्पष्टमिति तत एवावगन्तव्यं ।
।। अवयववृत्तिरिति ।। यद्यप्यवयवेषु वृत्तिरवयववृत्तिरिति न सहयोगः । अवयवे तस्या रूढित्वात् । अथ समुदाये वृत्तिर्योग इति विवक्षितं तर्हि तदयुक्तम् । समुदाये अवयवानां वृत्तेरेवाभावात् इति । तथाऽपि अवयववृत्तिसापेक्षावृत्तिर्योग इत्यर्थः ।। शब्देति ।। विवक्षापेक्षया वृत्तिर्योगः न चैवं पूर्वलक्षणसांकर्यं तत्रावयवानां वृत्यनपेक्षणात् । अत्र पुनस्तच्छब्दप्रवृत्तिनिमित्तापेक्षणादिति भेदात् । अत्रापि लक्षणापेक्षया गौण्यः मुख्यत्वादादौ निर्देशः । प्राधान्यं च मुख्यार्थनिष्ठगुणस्यार्थांन्तरे सत्वात् अन्यत्र च संबन्धमात्रसत्वादिति उत्तरत्र वक्ष्यते । तदनुसारेणैव च लक्षणोक्तिरिति ध्येयम् । अनुमानस्य साधारणोसाधारणश्च संभावितः इति ।
नन्वनेन साधारणस्यासाधारणस्य च प्रत्येकं त्रिविधत्वोक्तिरनुपपन्ना प्रतिज्ञाविरोधस्य साधारणत्वेऽपि हेतुविरोधस्य दृष्टांन्तविरोधस्य चासाधारणत्वात् अन्यथा उभयोरपि त्रिविधत्वे तत्र प्रतिज्ञाविरोधः साधारणः । अन्यौ द्वौ आसाधारणावित्युत्तरग्रंथविरोधापाताच्चेति चेत् न अत्र हि अनुमानस्य संभावितो विरोधः साधारणः असाधारणश्च त्रिविध इति न प्रत्येकं वाक्यपरिसमाप्तिः । अपि तु अनुमानस्य संभावितो विरोधस्त्रिविधः वक्ष्यमाणन्यायेन तन्मध्ये कश्चित्साधारणः कश्चिदसाधारण इति वाक्यसमुदाये वाक्यपरिसमाप्तिरिति ।
यद्वा प्रतिज्ञाहेतुदृष्टान्ताभेदेनानुमानस्य संभावितः त्रिविधो विरोधः तत्र कश्चित्साधारणः कश्चिदसाधारण इति वाक्यार्थः अनुमाने साधारणासाधारण-विरोधयोर्न नियम इत्याशयेन संभावित इत्युक्तमिति केचित् ।