अङ्गीकृतानधिकबलत्वेन बाधचोदनं प्रकरणसमः

प्रकरणसमः

प्रमाणलक्षणटीका

अङ्गीकृतानधिकबलत्वेन बाधचोदनं प्रकरणसमः । यथा ‘द्रव्यत्वात् पर्वतो नाग्निमानेव’ इति ।

अत्र प्रतिप्रमाणोपलम्भ  उत्थानहेतुः । बाध आरोप्यः । बाधकत्वेऽधिकबलवत्वस्याङ्गत्वात् युक्ताङ्गहानिः । बाधकस्य अधिकबलत्वानङ्गीकारे स्थापनयैव जातेर्बाधकप्राप्तेर्व्याहतिरिति ।। १४ ।।

प्रमाणलक्षणटीकाभावदीपः

।। स्थापन इवेति पाठे वाद्युक्तानुमान इव जात्युत्तरेऽपि ‘नायं हेतुः साधकः बाधितविषयत्वात् इत्यत्र वस्तुत्वात् साधकएवायं हेतुरिति बाधकप्राप्तेरित्यर्थः ।। स्थापनयैवेति पाठे वाद्यनुमानेनैव बाधाप्राप्तेनित्यर्थः ।।१४।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

तुल्यत्वमभ्युपेत्यैव परहेतोः स्वहेतुना ।

बाधेन प्रत्यवस्थानं प्रक्रियासम इष्यते ।।

इतिकारिकानुसारेण प्रकरणसमजातेर्लक्षणमाह ।। अङ्गीकृतेति ।। यथेत्यनन्तरं ‘धूमवत्त्वात् पर्वतोऽग्निमान्’ इति स्थापनाहेतौ प्रयुक्त इति शेषः । स्थापनया स्थापनयुक्त्या ।

।। जातेरिति ।। अग्निप्रतिषेधहेतोर्द्रव्यत्वस्य स्थापनाहेतुबाधकत्वोपयोगिनः तदपेक्षया अधिकबलवत्वस्याभावेऽपि तद्बाधकत्वोक्तौ स्थापनाहेतुनैव जातेः प्रतिषेधहेतोर्बाधप्राप्तेः स्वन्यायविरोधः । न च प्रतिषेधहेत्वपेक्षया स्थापनाहेतोरधिकबलवत्वाभावात्  कथं तेन प्रतिषेधहेतोर्बाधप्राप्तिः ? इति वाच्यम् बाधकत्वेन अधिकबलवत्वस्य त्वया तन्त्रताऽनङ्गीकारादिति भावः ।। १४ ।।

प्रमाणलक्षणटीकाविवरणम्

।। बाधकस्येति ।। प्रतिषेधहेतोः स्थापनाहेत्वपेक्षयाऽधिकबलत्वा-भावेऽपि तद्बाधकत्वे स्थापनाहेतोरेव प्रतिषेधहेतुबाधकत्वं स्यात् । न चाधिकबलत्वाभावात् कथं तद्बाधकत्वमिति चेत् । तस्य पूर्वमनङ्गीकारात् । अंगीकारे वा व्याघातादिति ।