साधनस्य साध्याप्राप्तिपक्षनिरासेन प्राप्तिपक्षमवशेष्य तददुषणं प्राप्तिसमः
प्रप्तिसमजातिः ।
प्रमाणलक्षणटीका
साधनस्य साध्याप्राप्तिपक्षनिरासेन प्राप्तिपक्षमवशेष्य तददुषणं प्राप्तिसमः । यथा धूमवत्वज्ञानं अग्निमत्वज्ञानं प्राप्य उत्पादयति अप्राप्य वा । द्वितीयेऽतिप्रसङ्गात् प्राप्येति वक्तव्यम्। सता च प्राप्तिः इति प्रागेव अग्निमत्वज्ञानसद्भावात् व्यर्थमनु-मानम् । एवं धूमवत्वज्ञानं अग्निमत्वं ज्ञापयति प्राप्य अप्राप्य वा । द्वितीये अतिप्रसङ्गात् प्राप्य इति वक्तव्यम् । लिङ्गज्ञानस्य साध्यप्राप्तिश्च विषयविषयिभाव एव सम्भवति । तथा च धूमवत्वज्ञाने वह्निमत्वस्यापि स्फुरणात् व्यर्थमनुमानमिति ।
प्रमाणलक्षणटीकाभावदीपः
उत्पत्तौ प्रदर्श्य ज्ञप्तावपि प्राप्तिसमप्रकारं दर्शयति ।। एवं धूमवत्त्वज्ञानमिति ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
प्राप्य साध्यं साधयति हेतुश्चेत्प्राप्तिकर्मणः ।
साध्यस्य पूर्वं सिद्धिः स्यादिति प्राप्तिसमोदयः ।।
इतिकारिकानुसारेण प्राप्तिसमजातिं लक्षयति ।। साधनस्येति ।।
कृतज्ञप्तिसाधारणीऽयं जातिः इत्यभिप्रेत्य कृतौ तावद्विकल्पयति ।। यथेति ।। प्राप्य सम्बध्य ।। अतिप्रसङ्गादिति ।। काष्ठासम्बद्धस्याप्यग्नेर्दाहजनकत्व-प्रसङ्गादित्यतिप्रसङ्गात् इत्यर्थः ।
।। प्रागेवेति ।। धुमवत्वज्ञानेऽग्निमत्वज्ञाननिरूपितसम्बन्धात् प्रागेवेत्यर्थः । ज्ञप्तौ विकल्पयति ।। एवमिति ।। अग्निमत्वमिति ।। अग्निमतो भावः अग्निरेव तमित्यर्थः । धूमज्ञानमग्निंप्राप्य ज्ञापयति चेत् इति पद्धतिवचनात् ।। अतिप्रसङ्गादिति ।। प्रकाश्यासम्बद्धस्यापि दीपस्य प्रकाशकत्वप्रसङ्गादित्यतिप्रसङ्गादित्यर्थः ।। विषयविषयिभाव इति ।। लिङ्गज्ञानस्य साध्येन संयोगादिरूपायाः प्राप्तेरसम्भवात् ज्ञानज्ञेययोर्विषयविषयिभाव एव सम्भावित इत्यर्थः ।। स्फुरणादिति ।। धूमज्ञानस्य यदा वह्निविषयकत्वं प्राप्तं तदा धूमज्ञाने धूमवत् वह्नरपि स्फुरणं जातमेवेत्यर्थः ।
प्रमाणलक्षणटीकाविवरणम्
कृतिज्ञप्तिसाधारणमिदं जातिद्वयमित्यभिप्रेत्य विकल्पयति यथेत्यादिना ।। द्वितीयेऽतिप्रसंगादिति ।। अप्राप्योत्पादकत्वे काष्ठासंबद्धस्याग्नेः काष्ठदाहकत्वपत्तेरित्यतिप्रसंगादित्यर्थः ।। अतिप्रसंगादिति ।। अप्राप्यज्ञापकत्वे प्रकाशप्रप्यैव दीपः घटादिकं प्रकाशयेदित्यर्थः ।