विवक्षितस्य कस्यचिद्धर्मस्य तदतद्रूपतां विकल्प्य ..
नित्यसमः
प्रमाणलक्षणटीका
विवक्षितस्य कस्यचिद्धर्मस्य तदतद्रूपतां विकल्प्य तद्दूषणेन धर्मिणः तद्विशिष्टत्वभङ्गो नित्यसमः । यथा ‘शब्दोऽनित्यः’ इत्युक्ते अनित्यत्वं नित्यमनित्यं वा ।आद्ये शब्दोऽपि तथा स्यात् । न हि धर्मो नित्यः धर्मी चानित्य इति युज्यते । द्वितीये यदाऽनित्यत्वाभावस्तदा शब्दस्य नित्यत्वमिति सारूप्येण । वैरूप्येण तु अनित्यत्वं शब्दात् भिन्नमभिन्नं वा । आद्ये अनवस्था । द्वितीये अन्यतरमात्रावशेषे आश्रयासिद्ध्यादीत्यादि ।
अत्र धर्मधर्मिभावदर्शनमुत्थानबीजम् । तर्कपराहति-रारोप्या । धर्मधर्मिभावनिरासे जातेरप्यनुत्थानात् व्याघातः। तर्कस्य व्याप्त्यभावात् युक्ताङ्गहानिश्चेति ।। २१ ।।
प्रमाणलक्षणटीकाभावदीपः
।। विवक्षितस्येति ।। सिषाधयिषितस्य धर्मस्येत्यर्थः ।। इति सारूप्येणेति ।। साध्यं यत् तद्रूपतद्विरोधिरूपेण विकल्प्य दूषणाभिधानमित्यर्थः ।। वैरूप्येणेति ।। साध्यापेक्षया वैरूप्येणेत्यर्थः ।
।। अनवस्थेति ।। भेदपरम्परयेति भावः । अनित्यत्वावशेषपक्षे दोषमाह ।। आश्रयासिद्ध्यादीत्यादीति ।। शब्दमात्रावशेषे च साध्यासिद्धिरिति प्रथमादिपदार्थः । द्वितीयादिपदेन धर्मान्तरेष्वप्येवमित्यर्थः। ।। जातेरपीति ।। ‘इदं असाधकं आश्रयासिद्ध्यादेः’ इत्युक्तजातेरपि असाधकत्वं धर्मितो भिन्नं अभिन्नं वा इत्यादिविकल्पदूषणयोः सम्भवात् इति भावः ।। व्याप्त्यभावादिति ।। अनित्यत्वं नाम ध्वंस तस्य नित्यत्वेऽपि प्रतियोगिनो नित्यताऽनापत्तेः नित्यजात्याश्रयस्य घटादेः नित्यताऽनुपलम्भादिति भावः ।। २१ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
धर्मस्य तदतद्रूपविकल्पानुपपत्तिः।
धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेत् ।।
इतिकारिकानुसारेण नित्यसमजातेर्लक्षणमाह ।। विवक्षितस्येति ।। तथेति ।। नित्य इत्यर्थः ।। सारूप्येणेति ।। अनित्यत्वं वा इति साध्यसाधर्म्येण विकल्प्य तद्द्षणेन इयं जातिः प्रवर्तत इत्यर्थः ।। वैरूप्येणेति ।। अनित्यत्वं शब्दात् भिन्नं अभिन्नं वा इति साध्यवैधर्म्येण विकल्प्य तद्द्षणेन प्रवर्तत इत्यर्थः ।। अनवस्थेति ।। भिन्नत्वं नाम भेदवत्त्वं । तथा च भेदः किं भेदिभ्यां भिन्नः ? उत अभिन्नः ? इत्यादिविकल्पप्रसरात् अनवस्था इत्यर्थः ।
।। अन्यतरमात्रावशेष इति ।। अनित्यत्वस्य शब्दाभिन्नत्वेन अन्यतर-मात्रावशेषेपि अनित्यत्वमेवास्ति न शब्दः इति प्राप्त्या आश्रयासिद्धिः । आदिशब्देन यदा च अन्यतरमात्रावशेषेण शब्द एवस्ति नानित्यत्वरूपं साध्यमिति प्राप्तं तदा बाध इति द्रष्टव्यम् ।
इत्यादीति आदिपदेन कार्यकार्याऽश्रितानाश्रितसत्यासत्यसदसत्स्थिरा-स्थिरैकानेकानुवृत्ताननुवृत्तविशेषणाविशेषणसापेक्षानपेक्षक्रमाक्रमवाच्यावाच्य-परोक्षापरोक्षवर्तमानावर्तमानहेयाहेयसहितासहितविरुद्धाविरुद्धाज्ञानाज्ञानेष्टानिष्ट-द्विष्टाद्विष्टकृताकृतशक्ताशक्तोत्पन्नानुत्पन्न व्यवहृताव्यवहृतसन्दिग्धासन्दिग्धेत्या-द्यवान्तरविकल्पक्रमाः वैरूप्येण एतज्जातिप्रवृत्तिपक्षे सङ्गृहीता भवन्ति । तथा च एतज्जातिवादिनो विशिष्टस्वरूपनिराकरणमात्रे तात्पर्यं इत्यवगन्तव्यम् ।
तर्कपराहतिरिति ।। ‘अन्यतरमात्रावशेषे सति आश्रयासिद्ध्यादिकं स्यात्’ इति प्रतिकूलतर्कपराहतिरित्यर्थंः ।। धर्मधर्मिभावेति ।। उक्तरीत्या धर्मिणः शब्दस्य अनित्यत्वरूपधर्मवैशिष्ट्यभङ्गेन शब्दानित्यत्वयोः धर्मधर्मिभावनिरासे क्रियमाणे सतीत्यर्थः ।। जातेरपीति ।। ‘शब्दोऽनित्यः कृतकत्वात्’ इत्यत्र कृतकत्वरूपो हेतुः अनित्यत्वरूपसाध्यसाधको न भवति आश्रयासिद्धत्वात् इति प्रतिषेधा-नुमानेऽपि साधकत्वरूपं साध्यं पक्षीभूतात् कृतकत्वरूपहेतोः सकाशात् भिन्नं अभिन्नं वा । आद्ये अनवस्था, द्वितीये अन्यतरमात्रावशेषे सति आश्रयासिद्ध्यादि इत्यापादनसम्भवेन पक्षीभूते कृतकत्वहेतौ असाधकत्वरूपसाध्यवैशिष्ट्यभङ्गेन जातेरपि अनुत्थानप्रसङ्गात् स्वन्यायविरोध इत्यर्थः ।
।। व्याप्त्यभावादिति ।। ‘अनित्यत्वस्य शब्दाद्भिन्नत्वे अनवस्था स्यात्’ इतितर्कमूलभूतव्याप्तौ दृष्टान्ताभावादिति भावः ।। २१ ।।
प्रमाणलक्षणटीकाविवरणम्
नित्यसमं लक्षयति ।। विवक्षितस्येति ।। सारूप्येणेति ।। साधर्म्येणेत्यर्थः । आद्येऽनवस्थेति । यद्यनित्यत्वशब्दात् भिन्नं तर्हि भिन्नत्वं नाम भेदत्वं भेदोऽपि धर्मएव सोऽपि भिन्न इत्यनवस्था स्यादित्यर्थः । असिध्यादीत्यत्रादिपदेन बाधसंग्रहः ।। धर्मधर्मिभावनिरास इति ।। अयं भावः विमतो हेतुरसाधकः आश्रयासिद्धत्वादित्यत्रापि साध्यधर्मः पक्षाद्भिन्नोऽभिन्नो वा । नाद्यः भिन्नत्वेऽनवस्थापत्तेः । अभिन्नत्वे अन्यतरमात्रावशेषः इत्यसिध्यादीति व्याघात इत्यर्थः ।