स्मृतिप्रमाणद्वैविध्यमात्रकल्पने मिथ्याज्ञानादेर्निरासादनुभवविरोधः
स्वोक्तप्रमाणलक्षणपरीक्षा
प्रमाणलक्षणटीका
इदमपि लक्षणं न युक्तम् । द्विविध एव हि प्रत्ययः स्मृतिरनुभवश्चेति । तत्रानुभवः सर्वोऽपि प्रमाणमेव । स्मृतिरपि यदि प्रमाणं तदा यथावस्थितविशेषणस्य कृत्याभावादित्यत आह
प्रमाणलक्षणम्
स्मृतिप्रमाणद्वैविध्यमात्रकल्पने मिथ्याज्ञानादेर्निरासादनुभवविरोधः
स्मृतिश्च प्रमाणं चेति प्रत्ययद्वैविध्यमात्रकल्पनं युज्यते। तथा सति विपर्ययसंशययोः अपाकरणप्रसङ्गात् । न च तथा-स्त्विति वाच्यम् । विपर्ययादेरनुभवसिद्धत्वेन तद्विरोधादिति।
विपर्ययादिविषयोऽनुभव एव नास्ति । किं तु ? व्यवहार-मात्रमित्यत आह
तदनुभवाभाव इत्युक्ते अनुभवः स्मृतिश्च नास्तीत्युक्ते किमुत्तरम्?
यदि विपर्ययादिविषयोऽनुभवः स्वयं प्रकाशमानोऽपि नास्तीत्युच्यते तर्हि पराभ्युपगतं अनुभवमात्रं स्मृतिमात्रं च न स्यात् । अविशेषात् । तथा च जगदान्ध्यं स्यात् ।
प्रमाणलक्षणटीकाभावदीपः
।। कृत्याभावादिति ।। ज्ञानं प्रमाणमित्येवास्त्विति भावः ।। यदि विपर्ययादिविषयोऽनुभव इति ।। भ्रान्तोऽस्मि विपरीतं प्रतिपन्नोऽस्मीत्या दिरूपसाक्ष्यनुभाव इत्यर्थः ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
स्वकीयप्रमाणलक्षणपरीक्षां कर्तुमाह ।। इदमपीति ।। प्रमाणमेवेति ।। यदि अप्रमाणभूतोऽपि कश्चिदनुभवः । स्यात् तदा तद्व्यावृत्त्यर्थं यथावस्थितविशेेषणं सार्थकं स्यादिति भाव: । स्मृतिव्यावृत्त्यर्थं तद्विशेषणमिति चेत् तत्राह ।। स्मृतिरपीति ।। प्रमाणं यथावस्थितार्थविषयीकारिणी ।। कृत्याभावादिति ।। तथा च तद्वैयर्थ्यमिति भावः ।
।। प्रमाणं चेतीति ।। यथार्थानुभवश्चेत्यर्थः। मिथ्याज्ञानपदार्थो विपर्ययेति। आदिपदार्थः संशयेति ।।अनुभवसिद्धत्वेनेति ।। ‘इदं रजतमिति ज्ञानवानहम्’ इत्याद्यानुव्यवसायसिद्धत्वेनेत्यर्थः ।
ननु विपर्ययादिविषयानुभवाभावे ‘रजतज्ञानवानहम्’ इत्याद्यनुभवस्य तर्हि का गतिः ? इति पृच्छति ।। किं त्विति ।। उत्तरमाह ।। व्यवहारमात्रमिति ।। स्वयं प्रकाशमानोऽपीति ।। विपर्ययादिस्वरूपस्य सत्यत्वेन स्वयं प्रकाशमानसाक्षिसिद्धोऽपीत्यर्थः ।। नास्तीति ।। किं तु ? व्यवहारमात्रमित्यर्थः ।। पराभ्युपगमतमिति ।। ‘प्रमाणं स्मृतिश्च न: प्रत्ययः’ इति परेणोक्तत्वादिति भावः ।। अविशेषादिति ।। स्वयंप्रकाशमानसाक्षिसिद्धत्वाविशेषादित्यर्थः । तथा च तद्विषयकानुभवस्यापि व्यवहारमात्रत्वसम्भवादिति भावः । इष्टापत्तिपरिहारायाह ।। तथा चेति ।। अनुभवस्मृत्योरभाव इत्यर्थः । जगदान्ध्यं जगत्प्रवृत्तिविलयः ।