ब्रह्मा शिवः सुराद्याश्च शरीरक्षरणात् क्षराः

द्वितीयः परिच्छेदः

ब्रह्मा शिवः सुराद्याश्च शरीरक्षरणात् क्षराः । लक्ष्मीरक्षरदेहत्वादक्षरा तत्परो हरिः ॥

स्वातन्त्र्यशक्तिविज्ञानसुखाद्यैरखिलैर्गुणैः । निस्सीमत्वेन ते सर्वे तद्वशाः सर्वदैव च ॥

सर्गस्थितिक्षययतिप्रकाशावृतिबन्धनम् । सर्वक्षराणामेकः स कुर्यात् सात्विकमोक्षणम् ॥

सर्गस्थितियतिज्योतिर्नित्यानन्दप्रदोक्षरे । चेष्टाप्रदश्च सर्वेषामेक एव परो हरिः ॥

तस्य नान्योस्ति सर्गादिकर्ता निर्दोषकश्च सः ॥" इति परमश्रुतिः ।

ब्रह्मशेषसुपर्णेशशक्रसूर्यगुहादयः । सर्वे क्षरा अक्षरा तु श्रीरेका तत्परो हरिः ॥" इति स्कान्दे ।

यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ।

अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्त वा उ ॥

अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश । अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तस्समुद्रे ॥

यमन्तः समुद्रे कवयो वयन्ति तदक्षरे परमे प्रजाः । यतः प्रसूताः जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम् । यदोषधीभिः पुरुषान् पशूंश्च विवेश भूतानि चराचराणि । अतः परं नान्यदणीयसं हि परात् परं यन्महतो महान्तम् ॥

यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् । तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम् ।

अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । मुखादिन्द्राश्चाग्निश्च प्राणाद्वायुरजायत ।

एको नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ नेमे द्यावापृथिवी ।

एको नारायण आसीन्न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वा समचिन्तयत् तत एते व्यजायन्त ।

विश्वो हिरण्यगर्भोग्निर्यमो वरुणरुद्रेन्द्रा इति ।

वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न चशङ्करः । नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः ॥ इत्यादिश्रुतिभ्यश्च ।

यस्मात् परं नापरमस्ति किञ्चित् इत्यत्रापि अपरमस्तीत्येवार्थः । अन्यथा तेनेदं पूर्णं ततो यदुत्तरतरं तदरूपमनामयम् इति वाक्यशेषविरोधात् । तेनेदमित्युक्तमेव तत इति परामृश्यते । अन्यथा यस्मात् परं नेत्युक्तिविरोधात् ।

नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति ।

तस्यैव सर्वनामानि व्यतिरिक्तस्य सर्वशः । यः स्वतन्त्रः सदैवैकः स विष्णुः परमो मतः ॥

इत्यादि श्रुतिभ्यः अन्यनामान्यस्यैवेति नान्येषां सर्वेश्वरत्वादिकमुच्यते ।

सर्ववेदेष्वप्यस्यादोषवचनादादावभावावचनाच्च तद्वचनाच्चान्येषां सर्वेषां वेदेषु सर्वेषु । तेषां सर्वनामत्वानुक्तेश्च ।

उत्पत्तिर्वासुदेवस्य प्रादुर्भावो न चापरः । देहोत्पत्तिस्तदन्येषां ब्रह्मादीनां तदीरणात् ॥

देहोनादिर्हरेर्नित्यो ब्रह्मादीनामनित्यकाः । मुख्योत्पत्तिस्तदन्येषां प्रादुर्भावो हरेर्जनिः ॥" इति परमश्रुतेश्च ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमद्विष्णुतत्त्वविनिर्णयः द्वितीयः परिच्छेदः ॥