यामाहुरनुमां ..
परार्थानुमानोपयुक्तावयवसङ्ख्यानियमनिराकरणम्
मूलम्
- यामाहुरनुमां केचित् त्रियाद्यवयवात्मिकाम् ।
सा व्यर्था, नोपपत्त्या हि विना साऽपि प्रमाणताम् ।
यात्यतो युक्तिरेवैका प्रमाणमनुमात्मकम् ।
युक्तिः प्रतिज्ञारूपा च हेतुदृष्टान्तरूपिका ।
तथोपनयरूपा च परा निगमनात्मिका ।
पृथक्पृथक्प्रमाणत्वं याति युक्तितयैव तु ।।
तत्त्वमञ्जरी
इदानी तदभिमतमवयवनियमं दूषयति- यामिति ।। केचिदनुमां प्रतिज्ञाहेतूदा-हरणात्मिकामाहुः । केचित् पुनः प्रतिज्ञाहेतूदाहरणोपनयनिगमनरूपाम् । केचिद् दृष्टान्तोपनय-रूपाम् । सा व्यर्था । उपपत्तिविहीना चेत् पञ्चावयवप्रयुक्ताऽप्यर्थं न साधयति हि । उपपत्तिमती चेदनियतावयवाऽप्यर्थं साधयेदेव । नियमाभावे कथं प्रयोग इत्यत आह- युक्तिरिति ।।
टीका
एवं प्रत्यक्षादीनां लक्षणं निरूपितम् । विभागस्तु निरूपणीयः । तत्रानुमानविभाग-निरूपणस्य बहुत्वात् तदेवाऽदौ करोति । द्विविधमनुमानं स्वार्थं परार्थं चेति । तत्र यत्परोपदेशमनपेक्ष्य स्वयमेव व्याप्तिं ज्ञात्वा (गृहीत्वा) व्याप्त्यनुसारेण विवक्षितस्थले व्याप्यं च प्रतीत्य व्याप्तिं च स्मृत्वा व्याप्यमनुसन्धत्ते तत्स्वार्थानुमानम् । तेनास्य विवक्षितस्थले व्यापकप्रमितिरुत्पद्यते । इदमेव व्याप्त्यादिज्ञानं परोपदेशमपेक्ष्योत्पद्यते चेत्तदा परार्थानुमानमित्युच्यते । तत्सम्बन्धात् परोपदेशोऽपि तथोपचर्यते । परोपदेशे च वादिनो विप्रतिपद्यन्ते । प्रतिज्ञाहेतूदाहरणैः उदाहरणोपनयनिगमनैर्वा त्रिभिरेवावयवाख्यैरवान्तरवाक्यैरुपेतं महावाक्यं परोपदेश इत्येके । प्रतिज्ञादयः पञ्चाप्यवयवाः सर्वथाऽपेक्षिता इत्यपरे । उदाहरणोपनयौ द्वावेवावयवावित्यन्ये । तानेतान्नियमपक्षाननूद्य दूषयति- यामिति ।। अनुमाम् अनुमानोपयुक्तं परोपदेशवाक्यम् । त्रियाद्यवयवात्मिकां नियमेनेति शेषः। सा व्यर्था सोऽवयवनियमो निष्प्रयोजन इति यावत् । ‘त्रियम्बकं यजामहे’ ‘भूवादयो धातवः’ इत्यादिप्रयोगसिद्ध्यर्थं यणागमोऽपि कैश्चिद्व्याख्यातः । ततस्त्रियादीत्युपपन्नम् ।
ननु प्रमाणाकाङ्क्षाजननार्थमादौ तावत्साध्यनिर्देशरूपा प्रतिज्ञा सर्वथाऽपेक्षिता । ततस्तत्र प्रमाणाकाङ्क्षायां साधनत्वव्यापकं लिङ्गवचनं हेतुसञ्ज्ञमवश्यं वक्तव्यम् । तदनन्तरं तस्य सामर्थ्य-जिज्ञासायां व्याप्तेः प्राथमिकत्वात्तां दर्शयितुं व्याप्तिग्रहणस्थलस्य दृष्टान्तस्य सम्यग्व्याप्तिनिर्देश-पूर्वकं वचनमुदाहरणाख्यमावश्यकम् । ततः पक्षधर्मताज्ञापनाय दृष्टान्ते प्रसिद्धाविनाभावस्य साधनस्य पक्षे व्याप्तिख्यापकं वाक्यमुपनयाख्यं वाच्यमेव । तत एतेषामैकार्थ्यप्रतिपत्तये निगमनाख्यमुपसंहारवाक्यमपि सर्वथा भाव्यम् । अथवा हेतुनैवार्थात् पक्षधर्मताया लब्धत्वा-दविप्रकृष्टत्वेनोपसंहारस्यानपेक्षितत्वादाद्यास्त्रय एवावयवाः सर्वथा भाव्याः । यद्वोपोद्घातलक्षणया सङ्गत्या व्याप्तिपक्षधर्मतयोरभिहितयोस्तदाधारतया लिङ्गलाभान्निगमनेन साध्यप्रतीतेरुत्तरे त्रयोऽवश्यं वाच्याः । यदि वा विवादेनैव साध्यप्रतीतौ व्याप्तिपक्षधर्मतावचनेनैव साधनधर्मिलाभात् पूर्व-वन्निगमनस्य व्यर्थत्वाद् उदाहरणोपनयौ द्वावेवावश्यं वक्तव्यौ तत् कथमवयवनियमस्य वैयर्थ्यमित्यत आह- नोपपत्त्येति ।। व्याप्त्यादिमल्लिङ्गमुपपत्तिः । तत्स्मृतिजिज्ञासोपलक्षण-मेतत् । हिशब्दो हेतौ । साऽपि नियतावयवत्वेनाङ्गीकृतं वाक्यम् । प्रमाणतामुपयुक्तताम् ।
इदमुक्तं भवति । परोपदेशो हि गृहीतव्याप्त्यादिकं प्रति तत्स्मारकत्वेनेतरं प्रति तद्विषयजिज्ञासा-जनकत्वेनैवोपयुज्यते । नत्वागमतया प्रमितिजननाय प्रयुज्यते, प्रतिवादिन्यनाश्वासात् । आश्वासे वा प्रतिज्ञामात्रेणैव पूर्तेरितरवैयर्थ्यादिति ।
ततः किमित्यत आह- अत इति ।। यत एवं व्याप्त्यादिमल्लिङ्गस्मारकत्वादिना विना उपयुक्ततां न यात्यतो युक्तिरेवैका व्याप्त्यादिमल्लिङ्गस्मृत्यादिकं यावता भवति तावदेवानुमात्मकं प्रमाणं परोपदेशरूपं वाक्यम् । सत्यमेवमेतत् । व्याप्त्यादिमल्लिङ्गस्मरणादिकमेतैरेवावयवैर्विना न भवती-त्यतस्तदर्थमेवावयवनियम उपास्यत इति चेन्न, अन्यथाऽपि सम्भवादित्याह- युक्तिरिति ।। व्याप्त्यादिमल्लिङ्गम् । प्रतिज्ञा रूपं निरूपकं, स्मृत्यादिजननी यस्यास्सा तथोक्ता । एवं हेतु-रूपिकादृष्टान्तरूपिकोपनयरूपेत्येतद्व्याख्येयम् । दृष्टान्तशब्देन तद्वचनमुपलक्ष्यते । उदाहरणैकदेश-ग्रहणार्थं दृष्टान्तेत्युक्तम् । निगमनात्मिकेत्युपचरितोऽभेदव्यपदेशः । एवं परेत्यपि । कदाचिन्निगमन-मेवानुमानस्मृत्यादिकारणं भवतीत्यर्थः । चतथाशब्दाः समुच्चये । अथवा, रूपात्मशब्दौ स्वरूपस्यैव वाचकौ । युक्तिरिति तत्स्मरणादिकारणोपलक्षणम् । उक्तं पिण्डीकृत्याऽह- पृथगिति ।। प्रतिज्ञादिकं पृथक्पृथगेव युक्तितया युक्तिस्मरणादिहेतुतया प्रमाणत्वमुपयुक्तत्वं याति । तुशब्दो हेतुगर्भत्वादि-वक्ष्यमाणविशेषद्योतनार्थः । यदीदमागमतयाऽनुमानस्य बोधकं स्यात्, स्यात् तदाऽवयवनियमः तत्क्रमश्च । इदं तु स्मरणादिकारणत्वेनोपयुज्यते । स्मरणं तु यदैकदेशादिनाऽपि दृष्टं किमुत प्रतिज्ञादिभिः । अतो व्यर्थोऽयं नियम इति समुदायार्थः ।
भावबोधः
तदेवादौ करोतीति ।। परार्थानुमानजनकपरोपदेशस्वरूपनियमखण्डनपूर्वकं तत्स्वरूपनिरूपणे क्रियमाणे स्वार्थपरार्थानुमानविभागनिरूपणं कृतप्रायमिति भावः । केचिदित्यस्य सा व्यर्थेत्यादेश्चोपपत्त्यर्थमाह- नियमेनेति शेष इति ।। उपयुक्ततामिति ।। क्वचित्परोपदेशस्याविद्यमानार्थत्वादिति भावः । एवमुत्तरत्रापि द्रष्टव्यम् । यावता भवति तावदिति ।। अनेनानियमपक्षे परोपदेशानामनेकविधत्वात् परोपदेशत्व-प्रयोजकैकधर्माभावात्कथं परार्थानुमानमित्यादिशब्दप्रयोग इत्याशङ्कापरिहारार्थं व्याप्त्यादिमल्लिङ्गस्मृत्यादि-जनकत्वरूपैकधर्मावच्छिन्नत्वेनैक्यमापन्नानि वाक्यानि तथोच्यत इति वक्तुमेकेत्युक्तं भवति । एवं परेत्य-पीति ।। यथा ‘निगमनात्मिका’ इत्यत्र निगमनयुक्त्योरभेदव्यपदेश उपचरितस्तथा प्रतिज्ञादिनिरूपितयुक्त्या निगमननिरूपितयुक्तेरेकत्वेऽपि ‘परा’ इति भेदव्यपदेश उपचरित इत्यर्थः । परेत्यस्य तात्पर्यमाह- कदाचि-दिति ।। पौनरुक्त्यपरिहाराय पृथक्पृथगिति पदलब्धमर्थमाह- उक्तं पिण्डीकृत्येति ।।
भावदीपः
व्याप्यमनुसन्धत्त इति ।। वह्निव्याप्योऽयं धूम इत्यादिरूपेण परामृशतीत्यर्थः । अनुमानोपयुक्त मिति ।। अनुमानोपयुक्तव्याप्त्याद्यनुसन्धानजनकमित्यर्थः । इत्युपपन्नमिति ।। अन्यथा ‘इको यणचि’ इति यणादेशे दध्यत्रेतिवत् त्र्याद्यवयवेति स्यादिति भावः । सामर्थ्येति ।। व्याप्तिपक्षधर्मतारूप-सामर्थ्येत्यर्थः । एतेषामिति ।। प्रतिज्ञादीनामैकार्थ्यप्रतिपत्तय इत्यर्थः । न्यायमते पञ्चानामावश्यकत्वमुपपाद्य मीमांसकमते त्रित्वनियममुपपादयति- अथवेति ।। द्वित्वनियमं बौद्धाभिमतमुपपादयति- यदिवेति ।। विवादे-नेति ।। गिरिर्वह्निमान्न वेति वादिप्रतिवादिविवादेनेत्यर्थः । तत्स्मृतीति ।। व्याप्त्यादिमल्लिङ्गस्मृतिजिज्ञासयोरुप-लक्षणमित्यर्थः । उक्तशङ्कानिरासस्य ‘नोपपत्त्या हि’ इत्यादिना स्फुटमप्रतीतेराह- इदमुक्तं भवतीति ।। हिशब्दो हेतावित्युक्तं तद्व्यनक्ति-यत एवमिति ।। युक्तिरेवैकेत्यनुवादः । व्याप्त्यादिमदिति व्याख्या । प्रमाण-मित्यनुवादः । परेत्यादि व्याख्या । स्मृत्यादिजननीत्यत्रादिपदेन जिज्ञासाया ग्रहः । एवमिति ।। व्याप्त्यादि-मल्लिङ्गवचनरूपो हेतुः रूपं निरूपकः तादृशलिङ्गस्य स्मृतिजिज्ञासयोर्जनको यस्य स इत्यादिरूपेण व्याख्येय-मित्यर्थः । ‘निगमनात्मिका’ इतिवाक्ये व्याप्त्यादिमल्लिङ्गरूपयुक्तेः शब्दरूपनिगमनाभेदोक्तिः कथमित्यत आह- इत्युपचरित इति ।। प्रतिज्ञादिपञ्चविधानामपि युक्तिशब्दितव्याप्त्यादिमल्लिङ्गस्मृत्यादिजनकपरोपदेश-रूपत्वेन निगमनरूपोपदेशस्य परेत्यन्यत्वोक्तिः कथमित्यतः प्रकारभेदाभिप्रायेणोपचरितेयं भेदोक्तिरित्याह- एवं परेत्यपीति ।। उपचरितोऽन्यत्वव्यपदेश इत्यर्थः । फलितार्थमाह- कदाचिदिति ।। अनुमानेति ।। व्याप्तिमल्लिङ्गेत्यर्थः । पिण्डीकृत्येति ।। बुद्ध्यारोहाय संक्षिप्याहेत्यर्थः । तथा च न पुनरुक्तिरिति भावः । मूले युक्तेरनुक्तेस्तां वदन् निष्कृष्टार्थमाह- यदीदमिति ।। परोपदेशवाक्यमित्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
तदेवेति ।। अनुमानविभागनिरूपणमेवेत्यर्थः । यद्यप्युत्तरत्र यामाहुरित्यादिना परार्थानुमाने अवयवनियमखण्डनमेव क्रियते न त्वनुमानविभागनिरूपणम् । तथाऽपि परार्थानुमानजनकपरोपदेश-स्वरूपनियमखण्डनेन परार्थानुमानस्वरूपनिरूपणे क्रियमाणेऽर्थात्तद्भिन्नस्वार्थानुमाननिरूपणमपि कृतप्राय-मित्याशयेनैवमुक्तमित्यवगन्तव्यम् । मूलाभिप्रेतं विभागं स्वयं दर्शयति- द्विविधमनुमानमित्यादिना ।। व्याप्त्यनुसारेणेति ।। व्याप्तिग्रहणानुसारेणेत्यर्थः । तथा हि । कयोश्चित्समानकालभिन्नदेशयोर्व्याप्तिः । यथा धूमाग्न्योः । कयोश्चित्समानदेशकालयोः । यथा रसरूपयोः । कयोश्चिद्भिन्नदेशकालयोः । यथोर्ध्वदेशवृष्ट्यधो-देशनदीपूरयोः । इत्येवं व्याप्तिग्रहणस्य अनेकप्रकारेण जातत्वात्तदनुसारेणेत्युक्तमिति मन्तव्यम् । अनुसन्धत्त इति ।। अस्त्यत्र पर्वते वह्निना व्याप्तो धूम इति तृतीयलिङ्गपरामर्शो भवतीत्यर्थः । तेन तृतीयलिङ्गपरामर्शेन । ननु परोपदेशमपेक्ष्योत्पन्नस्य व्याप्त्यादिज्ञानस्य परार्थानुमानत्वे परोपदेशरूपपञ्चावयववाक्यस्य परार्थानु-मानत्वव्यपदेशो न घटत इत्यत आह- तत्सम्बन्धादिति ।। परोपदेशस्य व्याप्त्यादिज्ञानजनकत्वेन व्याप्त्यादिज्ञानेन साकं परोदपदेशस्य जन्यजनकभावसम्बन्धादित्यर्थः । तथेति ।। परार्थानुमानतयेत्यर्थः । ‘त्रीनुदाहरणान्तान्वा यद्वोदाहरणादिकान् । मीमांसकाः’ इति कारिकानुसारेणाऽह- प्रतिज्ञेत्यादि ।। ‘ते प्रतिज्ञादिरूपेण पञ्चेति न्यायविस्तरः’ इति कारिकाऽनुसारेणोक्तम् । प्रतिज्ञादयः पञ्चेति ।। ‘सौगतास्तु सोपनीतिमुदाहृतिम्’ इति (श्री.टि.) कारिकानुसारेणाऽह- उदाहरणेति ।। ननु परोपदेशरूपवाक्यस्यावयवत्रयात्मकत्वं सिद्धान्तेऽप्यङ्गी-कृतमिति कथं तत्प्रतिषेध इत्यत आह- नियमेनेति ।। शेष इति ।। तथा च नियम एवास्माभिर्नाङ्गीक्रियत इति युक्तस्तत्प्रतिषेध इति भावः ।
ननु त्रियादीति कथं त्रि आदीति स्थिते ‘इको यणचि’ इकः स्थाने यण् स्यादचि परत इत्युक्तत्वेन यणादेशे त्र्यादीति स्यादित्यत आह- त्रियम्बकमित्यादि ।। यणागमोऽपीति ।। न केवलं यणादेश इत्यर्थः । अन्यथा त्रीण्यम्बकानि चक्षूंषि यस्यासौ त्र्यम्बकः । भू आदयो भ्वादय इत्येव स्यादिति भावः । तथा चेकारात्परं यणागमे त्रियादीति साध्विति द्रष्टव्यम् । नैयायिकमतेन पञ्चावयवनियममुपपादयति- नन्विति ।। ‘तत्र प्रतिज्ञा पक्षोक्तिः’ इति कारिकानुसारेण प्रतिज्ञालक्षणमुक्तम् । साध्यनिर्देशरूपेति ।। साध्यवत्तया साधयितुं योग्यं साध्यं पक्ष इत्यर्थः । ‘लिङ्गस्य वचनं हेतुः साधकत्वप्रकाशकम्’ इति कारिकानुसारेण हेतुं लक्षयति- साधनत्व-ख्यापकमिति ।। धूम इत्यादिलिङ्गवचनस्य हेतुत्वपरिहारायेदं विशेषणम् । पञ्चम्यन्तं तृतीयान्तं वेत्यर्थः । सामर्थ्येति ।। व्याप्तिपक्षधर्मतारूपसामर्थ्येत्यर्थः । उदाहरणलक्षणस्य दृष्टान्तघटितत्वात् ‘व्याप्तिसंवेदनस्थानं दृष्टान्त इति गीयते’ इति कारिकानुसारेण दृष्टान्तस्वरूपं दर्शयन् ‘सम्यग्व्याप्तिनिर्देशपूर्वकं दृष्टान्तवचनम्’ इति कारिकानुसारेणोदाहरणलक्षणमाह- व्याप्तिग्रहणस्थलस्येत्यादि ।। यथा महानस इति वचनमात्रस्योदा-हरणत्वपरिहाराय व्याप्तिनिर्देशपूर्वकमित्युक्तम् । यत्र वह्निस्तत्र धूमो यथा महानस इति वचनस्याप्युदाहरणत्व-परिहारायोक्तम्- सम्यगिति ।। ‘व्याप्यस्य वचनं पूर्वं व्यापकस्य ततः परम्’ इत्युक्तरीत्या सम्यगित्यर्थः । ‘दृष्टान्तापेक्षया पक्षे हेतोर्व्याप्तिप्रदर्शकम् । वचनं स्यादुपनयः’ इति कारिकानुसारेणोपनयं लक्षयति- दृष्टान्त इत्यादिना ।। एतेषां चतुर्णामवयवानाम् । ऐकार्थ्यप्रतिपत्तय इति ।। साध्यरूपैकार्थप्रतिपादनाय प्रवृत्तत्व-ज्ञापनायेत्यर्थः । ‘हेतुपूर्वं पुनः पक्षवचो निगमनं मतम्’ इति कारिकां हृदि निधाय निगमनलक्षणतात्पर्यमेवोक्तम्- निगमनाख्यमुपसंहारवाक्यमिति ।। उपसंहारवाक्याख्यं निगमनमिति योज्यम् ।
मीमांसकमतेन त्र्यवयवनियममुपपादयति- अथवेति ।। ननु हेतोः पक्षधर्मताज्ञापनायोपनयवाक्यमपेक्षित-मित्याशङ्क्य तस्य हेतुवाक्येन गतार्थतामाह- हेतुनैवेति ।। हेतुवाक्येनैवेत्यर्थः । नन्वेतेषामैकार्थ्यप्रतिपत्तय उपसंहाररूपं निगमनवाक्यमपेक्षितमित्याशङ्क्य तस्यानपेक्षितत्वमुपपादयति- अविप्रकृष्टत्वेनेति ।। काल-व्यवधानाभावेनेत्यर्थः । आद्यास्त्रय इति ।। प्रतिज्ञाहेतूदाहरणरूपाः । मीमांसकमतेनैव प्रकारान्तरेण त्र्यवयव-नियममुपपादयति- यद्वेति ।। नन्वादौ लिङ्गमनभिधाय तद्धर्मभूतयोर्व्याप्तिपक्षधर्मतयोरेवादावुदाहरणोपनय-वाक्याभ्यामभिधाने असङ्गत्यापत्तिस्तदर्थं हेतुवाक्यमपेक्षितमिति चेत्तत्राह- उपोद्घातलक्षणया सङ्गत्येति ।। ‘चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षते’ इति लक्षणलक्षितयोपोद्घातसङ्गत्येत्यर्थः । अभिहितयोः सतोः । उदाहरणोपनयवाक्याभ्यामिति शेषः । नन्वथापि लिङ्गालाभान्न्यूनतेत्यत आह- तदाधारतयेति ।। व्याप्ति-पक्षधर्मताधारतयेत्यर्थः । तथाच न हेतुवाक्यमपेक्षितमिति भावः । ननु साध्यधर्मविशिष्टधर्मिरूपपक्षप्रतिपत्त्यर्थं (श्री.टि.) प्रतिज्ञावाक्यमपेक्षितमिति चेत्तत्राऽह - निगमनेनेति ।। तस्माद्वह्निमानित्येवं रूपेणेत्यर्थः । साध्येति ।। साध्यधर्मविशिष्टधर्मिरूपपक्षप्रतीतेरित्यर्थः । तथाच निगमनवाक्येन गतार्थत्वान्न प्रतिज्ञावाक्यमपे-क्षित्मिति भावः । उत्तरे त्रय इति ।। उदाहरणोपनयनिगमनरूपा इत्यर्थः । सौगतमतेन द्व्यवयवनियममुप-पादयति- यदि वेति ।। विवादेनैवेति ।। एको ब्रूते पर्वतोऽग्निमानिति अपरो ब्रूतेऽग्निमान्न भवतीति विवादेनैवे-त्यर्थः । साध्यप्रतीतौ तद्विशिश्व्धर्मिप्रतीतौ । तथा च प्रतिज्ञावाक्यमपेक्षितमिति भावः । व्याप्तिपक्षधर्मतेति ।। उदाहरणोपनयाभ्यामिति शेषः । साधनधर्मीति ।। साधनरूपो यो धर्मीत्यर्थः । व्याप्तिपक्षधर्मतारूपधर्माधि-करणत्वात् साधनस्य धर्मित्वमिति भावः । तथा च न तदर्थं हेतुवाक्यमपेक्षितमिति भावः । पूर्ववदिति ।। अविप्रकृष्टत्वेनोपसंहारस्यानपेक्षितत्वादित्यर्थः । स्वरूपसत्त्या उपपत्तेरनुपयुक्तत्वादाह- तत्स्मृतीति ।। तस्य व्याप्त्यादिमल्लिङ्गस्य ये स्मृतिजिज्ञासे तयोरुपलक्षणमित्यर्थः । वाक्यं परोपदेशरूपम् । लिङ्गाभाववति स्थले क्वचित्परोपदेशस्याविद्यमानार्थत्वेन प्रामाण्याभावादाह- प्रमाणतामुपयुक्ततामितीत्याहुः । वस्तुतस्तु नियतावयवत्वेनाङ्गीकृतवाक्यं व्याप्त्यादिमल्लिङ्गस्मृतिजिज्ञासाजनकत्वेन प्रमाणतां प्रमाकरणतां यातीति वक्तुं न युज्यते । स्मृतिजिज्ञासयोः प्रमात्वाभावेन तत्करणस्य प्रमाणत्वायोगादित्यत आह- प्रमाणतामुपयुक्तता-मिति ।। एवमुत्तरत्रापि द्रष्टव्यम् । ननु पञ्चावयवोपेतं महावाक्यं तावदाप्तवाक्यत्वेन व्याप्त्यादिमल्लिङ्ग-प्रमितिजननायोपयुज्यते । आकाङ्क्षाद्युपेतमेव च वाक्यम् । तत्र यथा पूर्वपदसञ्जाताकाङ्क्षापूरकत्वमुत्तरपदस्यैवं पूर्वावयवसञ्जाताकाङ्क्षापूरकत्वमुत्तरावयवस्य वक्तव्यम् । अन्यथा गौरश्व इत्यादिवद्वाक्याभासत्वापत्तेः । अत उक्तरीत्या आकाङ्क्षाचतुष्टयनिवर्तकत्वेन प्रतिज्ञाद्यवयवचतुष्टयस्य बुद्ध्यारोहायोपसंहाररूपनिगमनरूपाव-यवस्याप्यपेक्षितत्वेन आकाङ्क्षाद्यनुपपत्तिरेवावयवनियमकल्पिकेति चेत्तत्राऽह- इदमुक्तं भवतीति ।। आगमत-येति ।। आप्तवाक्यत्वेनेत्यर्थः । प्रमितीति ।। व्याप्त्यादिमल्लिङ्गप्रमितीत्यर्थः । येनोक्ताकाङ्क्षाद्यनुसारेण पञ्चावयवनियमः स्यादिति भावः । कुतो नोपयुज्यत इत्यत आह- प्रतिवादिनीति ।। अनाश्वासात् आप्त्यनिश्च-यात् । आश्वासे आप्तिनिश्चये । पूर्तेरिति ।। आकाङ्क्षापूर्तेरित्यर्थः । तथाचाकाङ्क्षानुपपत्तिरेव नास्तीति भावः । तावतैव वाक्यत्वनिर्वाहोऽपि युक्त इति हृदयम् । इतरेति ।। हेत्वाद्यवयवेत्यर्थः । तथा च हेत्वाद्यभिधानप्रयोजकी-भूतप्रमाणाद्याकाङ्क्षाया एवानुत्थानेन व्यवधानाभावेन उपसंहारस्य च अनपोहितत्वेन हेत्वाद्यवयव-वैयर्थ्यापत्तेरित्यर्थः ।
शङ्कते - सत्यमेवमिति ।। तदर्थमेवेति ।। व्याप्त्यादिमल्लिङ्गस्मृत्याद्यर्थमेव पञ्चावयवनियम उपन्यस्यत इत्यर्थः । अन्यथाऽपीति ।। पञ्चावयवनियमं विनाऽपीत्यर्थः । सम्भवादिति ।। व्याप्त्यादिमल्लिङ्गस्मृत्यादेरिति शेषः । व्याख्येयमिति ।। हेतुर्दृष्टान्त उपनयश्च रूपो निरूपकः स्मृत्यादिजनको यस्यास्सा तथोक्तेत्येवं व्याख्येयमित्यर्थः । ननु दृष्टान्तस्य महानसादेः कथं व्याप्त्यादिमल्लिङ्गस्मारकत्वमित्यत आह- दृष्टान्तशब्दे-नेति ।। उदाहरणरूपिकेत्यनुक्त्वा वचनोपलक्षणाभिप्रायेण दृष्टान्तरूपिकेत्येव कस्मादुक्तमित्यत आह- (श्री.टि.) उदाहरणैकदेशेति ।। समग्रोदाहरणवाक्यस्य न व्याप्त्यादिमल्लिङ्गस्मारकत्वं किन्तु तदेकदेशभूत-दृष्टान्तवचनस्यैवेति ज्ञापयितुमुदाहरणरूपिकेत्यनुक्त्वा दृष्टान्तरूपिकेत्येवोक्तमित्यर्थः । ननु ‘निगमनात्मिक’ इति कथं युक्तेर्वचनरूपनिगमनात्मकत्वाभावादित्यत आह- निगमनात्मिकेतीति ।। उपचरित इति ।। तथा च प्रतिज्ञादिवन्निगमनरूपेत्येव व्याख्येयमिति भावः । अभेदव्यपदेश इति पदच्छेदः । ननु ‘परा निगम-नात्मिका’ इत्यत्र परेत्ययुक्तम् । परा भिन्नेति हि तदर्थः । तथा च प्रतिज्ञानिगमनयोरेकार्थत्वेन प्रतिज्ञानिरूपित-युक्तेर्निगमननिरूपितयुक्तेश्चैकत्वेन भेदाभावादित्यत आह- एवं परेत्यपीति ।। इत्यपि भेदव्यपदेशो निगमनात्मिकेत्यभेदव्यपदेशवदुपचरित इत्यर्थः । उपचरितत्वमात्रमपेक्ष्यैवमित्यतिदेश इति ज्ञातव्यम् । परेत्यस्य तात्पर्यमाह- कदाचिदिति ।। अनुमानेति ।। व्याप्त्यादिमल्लिङ्गेत्यर्थः । एवमुत्तरत्रापि द्रश्व्व्यम् । चतथाशब्दा इति ।। चशब्दौ तथाशब्दश्चेति चतथाशब्दा इत्यर्थः । अथवेत्यादि ।। तथा च युक्तिर्व्याप्त्यादिमल्लिङ्ग-स्मृत्यादिजनिका । प्रतिज्ञारूपा प्रतिज्ञास्वरूपा प्रतिज्ञैवेति यावदित्यादि व्याख्येयमिति भावः । पूर्वं रूपात्म-शब्दावुपचरितौ युक्तिशब्दो मुख्यार्थ इत्युक्तम् । इदानी तद्वैपरीत्येनेत्येवं योजनाभेदमात्रमर्थस्त्वेक एवेति द्रश्व्-व्यम् । ‘नोपपत्त्या हि’ इत्यादिग्रन्थसमुदायार्थमाह- यदीदमित्यादिना ।। इदं परोपदेशरूपं वाक्यम् । आगमतया आप्तवाक्यत्वेन, बोधकमनुभावकम् । व्याप्त्यादिमल्लिङ्गानुभवजनकमित्यर्थः । तत्क्रमश्चेति ।। ‘प्रमाणा-काङ्क्षाजननार्थम्’ इत्यादिनोक्तो नियतावयवानां क्रम इत्यर्थः । आप्तवाक्यतयाऽनुभावकत्वे यथा यथा आकाङ्क्षा स्यात्तथा क्रमेण नियतावयवान् स वदिष्यतीति भावः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
करोतीति ।। केशान् करोतीत्यादौ शोधनेऽपि प्रयोगदर्शनेन करोतेरनेकार्थत्वादभिप्रैतीत्यर्थः । परार्थं च इत्यतः परम् इतिशब्दो द्रष्टव्यः । अन्यथा प्रत्येकं द्वैविध्यप्रसङ्गादिति भावः । व्याप्त्यनुसारेणेति ।। व्याप्तिग्रहणप्रकारानुसारेणेत्यर्थः । परोपदेशमपेक्ष्योत्पन्नस्य व्याप्त्यादिज्ञानस्य परार्थानुमानत्वे परोपदेशे परार्थानु-मानप्रयोगो न स्यादित्यत आह- तत्सम्बन्धादिति ।। परार्थानुमानोपयोगित्वादित्यर्थः । एके मीमांसकाः । अपरे नैयायिकाः । अन्ये बौद्धाः । सिद्धान्तेऽपि परोपदेशस्य आद्यावयवात्मकत्वाङ्गीकारात्तन्निषेधानुप-पत्तिमाशङ्क्याऽह- नियमेनेति शेष इति ।। ननु त्रय आदयो येषामिति बहुव्रीहौ कृते यदि संहिततया निर्देशस्तदा प्रापकाभावेनेयङोऽप्राप्त्या ‘इको यणचि’ इति यणि त्र्यादीति भवितव्यम् । असंहिततया निर्देशपक्षस्त्वयुक्तः, ‘संहितैकपदे नित्या’ इति वचनात् । तत्पक्षाङ्गीकारेऽपि त्रिआदीत्येव प्राप्त्या त्रियादीति यकारस्याश्रवण-प्रसङ्गादित्यतः, एवं तर्हि ‘त्रियम्बकं यजामहे’ ‘भूवादयो धातवः’ इत्यादेरप्यसाधुत्वं स्यात्तत्रापि यदि संहिततया निर्देशस्तदोक्तरीत्या ‘इको यणचि’ इति यणि त्र्यम्बकं भ्वादय इत्यादिप्रसङ्गेन पृथग्यकारवकारश्रवणायो-गात् । नाप्यसंहिततया निर्देशः, ‘संहितैकपदे नित्या’ इति तन्निषेधात् । त्रिअम्बकं भूआदय इत्येव तथा सति वक्तव्यतया पृथग्यकारवकारयोरश्रवणस्य तुल्यत्वात् । यदि चेयङुवङ्प्रकरणे तन्वादीनामुपसङ्ख्यानबलादि-यङुवङ्प्राप्त्या वा, ‘अपूर्व एवाऽगमरूपो वकारः’ इति ‘भूवादयः’ इत्येतत्सूत्रीयश्लोकवार्तिकव्याख्यानानुरोधेन (पां.टि.) यकारवकाररूपागमकल्पनया वा ‘त्रियम्बकम्’ इत्यादौ यकारवकारश्रवणमुपपन्नमिति मन्यसे तर्हि उपसङ्ख्यानबलादियङादिश्रवणेन वाऽपूर्वागमरूपयकारश्रवणेन वा पृथग्यकारश्रवणोपपत्तेर्युक्तं त्रियादीत्यपी-त्याशयेनाह- त्रियम्बकमिति ।। ननु सिद्धान्ते परोपदेशस्य व्याप्त्यादिस्मृतिजिज्ञासाजनकत्वेनोपयोगाङ्गीकाराद् व्याप्त्यादि-स्मृतिजिज्ञासाजनकत्वेन विनोपयुक्ततां न यातीत्येव वक्तव्यतया ‘उपपत्त्या विना प्रमाणतां न याति’ इति कथमुक्तिरित्यतः, उपपत्तिशब्दस्य लक्षणया व्याप्त्यादिस्मृतिजिज्ञासापरत्वस्य प्रमाणताशब्दस्य चोपयुक्तत्वस्यैवानेनाभिधानान्नानुपपत्तिरित्याशयेनोपपत्तिशब्दमुख्यार्थं तावदाह- व्याप्त्यादिमदिति ।।
ननु परोपदेशस्यागमतया प्रमितिजनकत्वस्यैव सम्भवान्न व्याप्त्यादिस्मृत्यादिजनकत्वमित्यतस्तद्व्युत्पा-दयति- इदमुक्तं भवतीति ।। तावदेवेति ।। तावदेव परोपदेशरूपं वाक्यमनुमात्मकं प्रमाणमिति सम्बन्धः । ननु दृष्टान्तस्यार्थरूपतया व्याप्त्यादिमल्लिङ्गस्मृत्यादिजनकत्वाभावात्तथोक्तिरयुक्तेत्यतोऽत्र दृष्टान्तशब्दस्य लक्षणया तद्वचनपरत्वेन दृष्टान्तपरत्वाभावान्नानुपपत्तिरित्याशयेनाह- दृष्टान्तशब्देनेति ।। तद्वचनेति लक्षणा-बीजशक्यसम्बन्धप्रदर्शनम् । स्वायत्तन्यायविरोधपरिहारायाह- उदाहरणैकदेशेति ।। उपचरित इति ।। वाक्य-रूपनिगमनस्य व्याप्तिपक्षधर्मताविशिष्टलिङ्गरूपयुक्त्यात्मकत्वस्य बाधितत्वादिति भावः । व्याप्त्यादिमल्लिङ्गस्य व्याप्त्यादिमल्लिङ्गभिन्नताया बाधितत्वात् परेति तद्भिन्नत्वव्यपदेशस्यानुपपत्तिमाशङ्क्याह- एवमिति ।। यथा निगमनात्मिकेति निगमनयुक्त्योरभेदोपदेश उपचरितस्तथा प्रतिज्ञानिरूपितयुक्त्या निगमननिरूपित-युक्तेर्भेदव्यपदेश उपचरित इत्यर्थः । उपचारमेव दर्शयति- कदाचिदिति ।। एवं युक्तिशब्दस्वारस्यानुसारेण ‘प्रतिज्ञारूपा च’ इत्यादेरमुख्यार्थतामाश्रित्य विरोधपरिहारोऽभिहितः । इदानी ‘प्रतिज्ञारूपा’ इत्यादिबह्वनुग्रहाय युक्तिपदस्यामुख्यार्थताम् आश्रित्य विरोधं परिहरति - अथ वेति ।। पौनरुक्त्यपरिहारायाह- उक्तं पिण्डीकृत्येति ।। समुदायार्थ इति ।। ‘युक्तिः प्रतिज्ञारूपा च’ इति ‘पृथक्पृथक्प्रमाणत्वम्’ इति वाक्यद्वयतात्पर्यार्थ इत्यर्थः।
लघुप्रभा
(व्या.टि.)
अनुमानविभागादिनिरूपणेन विना परोपदेशावयवनियमनिरासानुपपत्तेस्तदर्थं बहिरेवानु-मानविभागादिकं निरूप्य तत् सङ्गमयति- एवमित्यादिना ।। आदाविति ।। महामल्लेशभङ्गन्यायेनेति शेषः । करोति मनसीति शेषः । व्याप्तिं स्मृत्वेति ।। ननु स्मरतेरिगर्थत्वेन ‘अधीगर्थदयेशां कर्मणि’ इति षष्ठी स्यादिति चेन्न । कर्मत्वविवक्षायां द्वितीयासौलभ्यात् । अत एव ‘एषां कर्मणि शेषे षष्ठी’ इति तद्वृत्तिः । अनुसन्धत्ते परामृशतीत्यर्थः । विवक्षितस्थल इति पक्षधर्मतानियमं वारयति- तत्सम्बन्धादिति ।। अनुमानबोधकत्वादि-त्यर्थः । तथा अनुमानत्वेन । विप्रतिपद्यन्त इति ।। अयं दैवादिकः । एके मीमांसकाः । अपरे नैयायिकाः । अन्ये बौद्धाः । अनुमानस्य लिङ्गस्यावयवाभेदायोगादाह- अनुमानोपयुक्तमिति ।। तत्स्मारकमित्यर्थः । अत्र फलितमाह- स इति ।। कैश्चिद् हरदत्तादिभिः । अवयवनियमवादिनः स्वं स्वं नियमं समर्थयमानाः प्रत्यवतिष्ठन्ते- नन्वित्यादिना ।। आवश्यकमिति ।। यद्यपि ‘ओरावश्यके’ इति सूत्रे ‘अवश्यम्भाव आवश्यकम्’ इति वृत्तिकारैर्व्याख्यातम् । तथाऽप्यवश्यम्भाविनि बह्वभियुक्तप्रयोगात्तदनादर्तव्यमिति हृदयम् । कथमिति ।। (व्या.टि.) व्याप्तिपक्षधर्मताप्रमितिजननोपयोगादिति शेषः । उपलक्षणमिति ।। व्याप्त्यादिमल्लिङ्गस्मृति-जिज्ञासे विनेत्यर्थः । व्याप्त्यादिस्मृत्यादिना सप्रयोजनत्वस्वीकारात् कथं वैयर्थ्यमवयवनियमस्येत्यत आह- तावदेवेति ।। एवेत्यधिकवैयर्थ्यं ध्वनयति । व्याप्त्यादिकं नियतावयवमिति तन्नियम आवश्यक इति शङ्कते-तत्सत्यमेवेति ।। अनन्यथासिद्धान्वयव्यतिरेकाभावान्न तन्नियमावश्यम्भाव इत्याह- अन्यथाऽपीति ।।
रूपयतीति रूपमिति णिजन्तादचमभिप्रेत्य व्याचश्व्े- निरूपकमिति ।। प्रकृतोपयोग्यर्थमाह- स्मृत्यादि-जननीति ।। ‘रूपिका’ इति समस्तमपि बुद्ध्या पृथक् संयोज्यमित्याह- हेतुरूपिकेति ।। ‘प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः’ इत्यतः इत्त्वम् । निदर्शनरूपदृष्टान्तस्य युक्तिस्मारकत्वाभावेन मुख्यसम्बन्धप्रदर्शनद्वारा लक्ष्यं दर्शयति- तद्वचनमिति ।। उदाहरणमेव किन्नोच्यतां किं दृष्टान्तग्रहणेनेत्यत आह- उदाहरणेति ।। यथोक्तं प्रमाणलक्षणे ‘दृष्टान्तः सप्रतिज्ञो हेतुगर्भः’ इति । स्मारकस्मर्ययोरभेदोऽयुक्त इत्यत आह- उपचरित इति ।। प्रतिज्ञादिस्मारकभेदेऽपि युक्तेरैक्यात् कथं परेति भेदव्यपदेश इत्यत आह- एवं परेत्यपीति ।। अय-मप्युपचारत इत्यर्थः । व्यपदेशतात्पर्यमाह- कदाचिदिति ।। चतथाशब्दा इति ।। चशब्दद्वयं तथाशब्दश्चैकः आहत्य शब्दत्रयं समुच्चय इत्यर्थः । एवं युक्तिशब्दस्य मुख्यार्थमभिप्रेत्य रूपात्मशब्दौ गौणौ व्याख्यातौ । अधुना तद्वैपरीत्येन व्याख्याति- अथवेति ।। प्रकृतप्रतिज्ञादिपदमत्रापि सम्बध्यत इत्याशयेन व्याचश्व्े- प्रतिज्ञादिकमिति ।। अत्रापि युक्तिपदं स्मरणकारणोपलक्षणमिति व्याचश्व्े- युक्तिस्मरणादीति ।। ननु कथमनेनावयवनियमनिरास इत्यतः समुदायार्थमाह- यदीदमित्यादिना ।।