अत्र चोपजीव्यत्वेन ..
प्रतिपादितस्य भेदवाक्यप्राबल्यस्य विशदीकरणम्
मूलम्
- अत्र चोपजीव्यत्वेन प्रमाणप्राबल्याद्भेद एव तात्पर्यं युक्तम् । कथञ्चानु-वादकत्वं भेदस्य प्रमाणेनासिद्धौ । सिद्धौ च कथमभेदवाक्यस्याबाधः । न चाप्रमाण-सिद्धेनानुवादकत्वं प्रमाणस्य भवति । दुर्बलत्वे च भेदप्रमाणस्याऽभासत्वान्न भेद-वाक्यानामनुवादित्वम् । अतश्च भेदवाक्यानामेव प्राबल्यम् ।।
तत्त्वमञ्जरी
अत्र च भेदप्रमाणस्योक्तन्यायेन उपजीव्यत्वेन प्राबल्याद् भेद एव तात्पर्यं युक्तं सर्वागमानाम् । पुनश्च भेदवाक्यानामनुवादित्वादप्रामाण्यमित्येतद् दूषयति- कथं चेति ।। अयं भावः - योऽनुवादित्वं वदेत् स प्रष्टव्यः - भेदस्य प्रमाणेन सिद्धिरस्ति न वा? न चेत्, अगृहीत-ग्राहित्वान्नानुवादित्वं भेदवाक्यस्य । अस्ति चेत् कथमभेदवाक्यस्याबाधः? न प्रमाणसिद्धो भेदः । किन्तु प्रमाणाभाससिद्ध एवेत्यत आह- न चाप्रमाणेति ।। तमेवार्थं स्पष्टयति- दुर्बलत्व इति ।। अधिगतार्थाधिगतिरनुवाद इति ह्युच्यते । आभासेन तु सम्यगधिगतेरेवासम्भवः । तेनापि ह्यधिगतिमात्रं स्यादिति चेत्, तस्यान्यथाऽधिगतित्वात् तद्विषयस्य वाक्यस्याप्ययथार्थ-त्वादेवाप्रामाण्यं नानुवादित्वात् । एवं चानुवादित्वादप्रामाण्यं स्यादिति दुरुक्तं स्यादित्यर्थः । अतश्च भेदवाक्यानामेव प्राबल्यम् । अयमर्थः- एवमुक्तभङ्ग्या भेदेनैव बहुप्रमाणसंवादादत्र सर्वाविवादस्थलत्वाभावेनानुवादकत्वन्यायस्यापि पराहतत्वात् भेदवाक्यानामेव प्राबल्यम् ।
टीका
इदानी प्रकृतमनुसरन्नुक्तमेवार्थं विशदयति ‘तथा चोक्तम्’ इत्यतः प्राक्तनेन ग्रन्थेन । यदुक्तम् ‘उपजीव्यविरोधादैक्यागमस्याप्रामाण्यम्’ इति तदसत् । अपौरुषेयत्वेन निर्दोषस्या-प्रामाण्यायोगादित्यत आह । अत्र चेति । अत्र ब्रह्मतर्कवाक्ये, चोपजीव्यत्वेन प्रमाणप्राबल्य-स्योक्तत्वादुपपत्तिसिद्धत्वाच्च, अत्र च प्रकृतेऽप्युपजीव्यत्वेन भेदप्रमाणप्राबल्यात्, तद्विरुद्ध-स्यैक्यागमस्याप्युपजीव्यानुसारेण जीवेश्वरभेद एव तात्पर्यं युक्तम् । न तु तदभेद इत्येवं प्रतीतार्थ-प्रच्युतिरेवाप्रामाण्यपदेनोक्ता न तु सर्वथाऽप्रामाण्यमिति भावः ।
यदुक्तं भेदागमविरोधादैक्याऽगमस्याप्रामाण्यम् इति तदयुक्तम् । भेदवाक्यानां प्रत्यक्षादिसिद्ध-भेदानुवादित्वेन दुर्बलत्वात् । ऐक्यागमस्य त्वपूर्वतालक्षणबलवत्वात् । यदत्रोक्तम् ‘ईश्वरस्यैवा-सिद्धिः’ इति । तन्न । केवलानुमानेनेश्वरसिद्ध्यभावेऽप्यागमाद्यनुकूलानुमानेनाऽगमेनैव वा तत्सिद्ध्युपपत्तेरित्यत आह- कथञ्चेति ।। अनुवादकत्वं भेदवाक्यानामिति शेषः । भवतु जीवेश्वरयोः प्रमाणान्तरेण सिद्धिर्न च तावता तद्भेदवाक्यानामनुवादकत्वं भिन्नविषयत्वात्, किन्तु भेदस्यापि प्रमाणान्तरेण सिद्धौ । न च सा परेणाङ्गीकर्तुं शक्या । अतो जीवेश्वरभेदस्य प्रमाणान्तरेणासिद्धौ सत्यां भेदवाक्यानां कथमेवानुवादकत्वं भवतीति । न केवलं जीवेश्वरौ, किं नाम तद्भेदोऽपि प्रमाणान्तरेण सिद्ध एव । अतो भेदवाक्यानामनुवादकत्वं स्थितमित्यत आह- सिद्धौ चेति ।। भेदस्य प्रमाणान्तरेण सिद्धावङ्गीक्रियमाणायामभेदवाक्यस्य तेन प्रमाणेन अबाधः अनुपरोधः कथं स्यात् । न कथञ्चित् । अतो भेदवाक्यानामनुवादकत्वसिद्धये भेदस्य येन प्रमाणेन सिद्धिरङ्गीक्रियते ऐक्यागमस्य तत्प्रमाणोपरोधप्रसङ्गाद् भेदस्य प्रमाणान्तरेण सिद्धेरङ्गीकर्तुमशक्यत्वेन तद्वाक्यानां नानुवादकत्वं वक्तव्यम् । एवमपि भेदवाक्यविरोधोऽभेदवाक्यानां स्यादिति चेत्तर्हीयं परस्योभयतःपाशा रज्जुः । तद्भयात् तत्त्वमस्यादिवाक्यानां भेद एव तात्पर्यमङ्गीकार्यमिति ।
जीवेश्वरभेदः प्रत्यक्षादिसिद्ध एव । तेन भेदवाक्यानामनुवादित्वसिद्धिः । किन्तु तत्प्रत्यक्षा-दिकमप्रमाणमेव । व्यावहारिकत्वमात्रेण तत्र प्रमाणवाचोयुक्तिः । ऐक्यवाक्यन्तु तत्त्वाऽवेदकं प्रमाणम् । अतो न तत्तेनोपरुध्यत इति चेत्, अत्र वक्तव्यम् । भेदवाक्यमपि किमप्रमाणमुत प्रमाणमिति । आद्ये वक्ष्यामः । द्वितीये दोषमाह- नचेति ।। अप्रमाणसिद्धेन प्रतिपादितेन निमित्तेन यदि प्रत्यक्षादेरप्रामाण्यं भेदवाक्यानान्तु प्रामाण्यमङ्गीक्रियते तदा भिन्नविषयत्वं स्यात् । समान-विषयत्वे हि द्वयमपि प्रमाणं स्यादप्रमाणं वा । न त्वयं विभागः । भिन्नविषयत्वे च नानुवादकत्वं भवति । अतः प्रामाण्याप्रामाण्यविभागोऽनुवादकत्वं चेति परस्परपराहतमिति भावः ।
किञ्च प्रत्यक्षादेः कुतोऽप्रामाण्यम् । ऐक्यवाक्यविरोधादिति चेन्न । अन्योन्याश्रयप्रसङ्गात् । सिद्धे खल्वैक्यवाक्यप्रामाण्ये तद्विरोधेन प्रत्यक्षादेरप्रामाण्यसिद्धिः । तस्यां च सत्यां विरोधिप्रमाणा-भावेनैक्यवाक्यप्रामाण्यसिद्धिरिति । स्यादेतदन्योन्याश्रयत्वं यद्यैक्यवाक्यं, भेदविषयं प्रत्यक्षादिकं च समानबलं स्यात् । न त्वेतदस्ति । श्रुतेरपौरुषेयत्वेनानाशङ्कितदोषायाः प्रबलत्वात् । प्रत्यक्षादेः सम्भावितदोषस्य ततो दुर्बलत्वात् । प्रबलस्य दुर्बलविरोधपरिहारानपेक्षमेव प्रामाण्यस्थितेरित्यत आह- दुर्बलत्वे चेति । यदि श्रुत्यपेक्षया भेदप्रमाणस्य प्रत्यक्षादेर्दुबलत्वमाश्रित्यान्योन्याश्रयत्व-परिहारः क्रियते तदा भेदवाक्यानामनुवादित्वमुच्यमानं न स्यात् । कुतः? आभासत्वादकिञ्चित्कर-त्वात् । यथा हि दुर्बलत्वात्प्रत्यक्षादिकं नैक्यश्रुतेर्विषयापहारं करोति । तथा भेदश्रुतेर्विषयोपहार-मपि न करोति । तथा च स्वातन्त्र्येण स्वविषये प्रवृत्ता भेदश्रुतिः कथमनुवादिनी स्यादिति । न केवलमननुवादित्वसाम्याद्भेदाभेदवाक्यानां समबलत्वम् । किन्तु स्वातन्त्र्येण प्रवृत्तानां भेदवाक्यानां दैवादागतेन प्रत्याक्षादिसंवादेनैक्यवाक्यापेक्षया प्राबल्यमेव तस्य संवादाभावादित्या- अत-श्चेति ।। तथा च तद्विरोधादैक्यवाक्यस्याप्रामाण्यमिति शेषः ।।
भावबोधः
(र .टि.)
‘अत्र च’ इति चशब्दसमुच्चितमर्थमाह - उपपत्तीति ।। नन्वनेन कथमुक्तशङ्कापरिहार इत्यतः ‘भेद एव’ इत्यस्य तात्पर्यमाह- इत्येवमिति ।। ‘कथञ्चानुवादित्वम्’ इत्यादेः ‘न च जीवेश्वरभेदः सिद्धः’ इत्यादिना गतार्थताभ्रमं वारयितुं प्राग् भेदं प्रति धर्मिप्रतियोगिभूतेश्वरसाधकप्रमाणविषये विकल्पितपक्षेषु द्वितीयतृतीयपक्ष-निरासकत्वेन ‘कथञ्चानुवादित्वम्’ इति वाक्यं तावदवतारयति- यदुक्तं भेदागमेति ।। पूर्वत्रेव अत्राऽगमं विनेत्यनुक्त्या द्वितीयतृतीयपक्षनिरासकत्वमस्यावगम्यत इति भावः । वस्तुतो भेदस्य प्रमाणसिद्धत्वात् ‘प्रमाणेना-सिद्धौ’ इति कथमित्यत आह- न च सेति ।। परेण भेदस्य प्रमाणसिद्धतानङ्गीकारादाह- अङ्गीक्रियमाणाया-(र .टि.) मिति ।। अनुपरोध इति । भेदप्रमाणस्य प्रत्यक्षादेरुपजीव्यत्वादिना प्राबल्यस्याविवक्षितत्वात् । अत एव ‘दुर्बलत्वे च’ इति भेदप्रत्यक्षादेर्दौर्बल्यमाशङ्क्य निराकरिष्यते । उपजीव्यत्वादिना प्राबल्यविवक्षायां तच्छङ्कानुदयादिति भावः । नन्वप्रमाणसिद्धप्रतिपादकत्वेनेति वक्तव्यं कथम् ‘अप्रमाणसिद्धेन’ इत्युक्तमित्यत आह- प्रतिपादितेनेति ।। ननु ‘कथं चानुवादित्वम्’ इत्यादिना भेदागमस्य दौर्बल्यनिरासार्थमनुवादकत्वस्य परिहृतत्वात् ‘अतश्च’ इत्युपसंहारवाक्येन दौर्बल्यमिति वक्तव्यं ‘प्राबल्यम्’ इति कथमुक्तमित्यत आह- न केवलमिति ।। प्रत्यक्षादिसंवादेनेति । अनेन ‘न चाप्रमाण’ इत्यादिना भेदविषयकप्रत्यक्षादेर्दौर्बल्याभाव-स्याप्युपपादितत्वात् ‘अतश्च’ इत्यनेन तस्य परामर्श इत्युक्तं भवति ।।
भावदीपः
(रा. टि.)
विशदयतीति ।। तथा च न गतार्थतादोष इति भावः । यदुक्तमिति । ‘ प्रत्यक्षादेरागमस्य प्राबल्येऽपि नोपजीव्यप्रमाणविरोधे प्रामाण्यम् ’ इत्यनेनेति योज्यम् । उपपत्तीति । ‘ विषयाभावे स्वस्यैवा-प्रामाण्यप्राप्तेः ’ इति उक्तोपपत्तीत्यर्थः । सा च तद्वाक्यव्याख्यान एव व्यक्ता । च शब्दोऽनुक्तसमुच्चयार्थ इति दर्शयितुं प्रागत्रचेत्यादेरुक्त्युपलक्षणत्वमुपेत्यैकमर्थमुक्त्वा पुनरर्थान्तरं चाऽह- अत्र च प्रकृतेऽपीत्यादिना ।। भेदप्रमाणेति ।। अनुभवादिरूपेत्यर्थः । यदुक्तमिति ।। ‘नच जीवेश्वरभेदः सिद्ध इत्यनुवादकत्वं भेदवाक्यानाम्’ इत्यादिनेति योज्यम् । अपूर्वतेति ।। मानान्तराप्राप्तार्थतालक्षणेत्यर्थः । यदत्रोक्तमिति ।। ‘आगमं विनेश्वरस्यैवासिद्धेः’ इत्यत्र ‘आगमेन च सार्वज्ञादिजीवधर्मविरुद्धधर्मश्रवणेन भेदस्यैव प्रतीतेः’ इत्यादि यदुक्तमित्यर्थः । प्रमाणान्तरेणेति ।। साक्ष्यनुमानरूपेत्यर्थः । भिन्नेति ।। साक्षी अनुमानं च क्रमाज्जीवमीश्वरं च विषयीकुरुतः, द्वासुपर्णेत्यादिवाक्यं तु भेदमिति भिन्नविषयत्वादित्यर्थः । तर्हि कदाऽनुवादितेति प्रश्नस्योत्तरम्- किन्त्वित्यादि ।। स्वमते सिद्धत्वादसिद्धत्वादिति कोटिः कथमित्यत आह- सा परेणेति ।। सिद्धिपक्षे बाधक-सत्त्वान्नाङ्कीकारार्हा परस्येति भावः । दोषदार्ढ्यायोक्तम्- अङ्गीक्रियमाणायामिति ।। अद्य•पि प्राबल्यासम्मतेः कथं तेन बाधोक्तिरित्यत आह- अबाधोऽनुपरोध इति ।। भेदवाक्यविरोधादिरूपपूर्वप्रकृतप्रमेये पर्यवसाययितुं प्रसक्ताननुवादकत्वमेवोपसंहरति- अत इति ।। एवमपीति ।। अननुवादकत्वोक्तावपीत्यर्थः । विधेयरज्ज्वपेक्ष-येयमिति स्त्रीलिङ्गोक्तिः । अनुवादकत्वाननुवादकत्वरूपप्रमेयाङ्गीकरणम् उभयतः पार्श्वद्वये पाशो ग्रन्थिविशेषो यस्याः सा उभयतःपाशा, रज्ज्वा विशेषणम् । दक्षिणोत्तरबाह्वोर्ग्रन्थिविशेषयुक्तरज्जुबन्धे सति दक्षिणत उत्तरतो वा यथा चलितुं न शक्यते तथाऽत्रापि अनुवादकत्वाङ्गीकारे पुरोवादकप्रमाणविरोधः अननुवादकत्वाङ्गीकारे च तद्वाक्यविरोध इति भावः । शङ्कते- जीवेति ।। प्रमाणवाचोयुक्तिः प्रमाणत्वव्यवहार इत्यर्थः । ‘वाग्दिक्-पश्यद्भ्यो युक्तिदण्डहरेषु’ इत्यलुक् । आद्ये वक्ष्याम इति ।। ‘कथं चैवंवादिनां वेदवादित्वम्, वेदोक्तस्य मिथ्यात्वाङ्गीकारादेव ह्यवेदवादित्वं बौद्धादीनाम्’ इत्यत्रेति भावः । असाङ्गत्यनिरासाय शेषोक्त्या योजयति- अप्रमाणसिद्धेन प्रतिपादितेनेति ।। व्यधिकरणे तृतीये । अप्रमाणसिद्धस्य प्रतिपादनेनेति यावत् । उत्तरवाक्य-मवतारयितुं प्रसक्तिं सम्पादयति- किञ्चेति ।। अवतारयति- स्यादेतदित्यादिना ।। अकिञ्चित्करत्वं नामानुवादाय (रा. टि.) विषयासमर्पकत्वमिति भावेन तद्व्यनक्ति- यथा हीत्यादिना ।। स्वातन्त्र्येणेति ।। प्रत्यक्षमिव पुरोवादकमनपेक्ष्येत्यर्थः । अतश्चेत्येतच्छब्दो बुद्धिस्थप्रत्यक्षसंवादपरामर्शीति भावेन चशब्दार्थं वदन्नेवावतारयति- न केवलमिति ।। अतश्चेतीति ।। प्रत्यक्षसंवादाच्चेत्यस्यार्थस्यावतारिकाग्रन्थ एव व्यक्तत्वान्न पुनर्व्याख्या कृता ।
वाक्यार्थदीपिका
(श्री.टि.)
प्रकृतमिति ।। ‘न च जीवेश्वराभेद एव तात्पर्यमागमस्य तत्र प्रमाणाभावात्’ इत्यनेन प्रकृतं सर्वाग-मानां भेद एव तात्पर्यं नाभेद इति प्रमेयमित्यर्थः । उक्तमेवेति ।। ‘प्रत्यक्षादेरागमस्य प्राबल्येऽपि नोपजीव्य-प्रमाणविरोधे प्रामाण्यम्’ इत्यनेनोक्तमुपजीव्यविरोधेनैक्यागमाप्रामाण्यरूपमर्थमित्यर्थः । उक्तत्वादिति ।। ‘उपजीव्यविरोधे तु न प्रामाण्यममुष्य च’ इत्यत्रेत्यर्थः । उपपत्तिसिद्धत्वाच्चेति ।। ‘उपजीव्योपजीवकयोर्विरोधे न तावदुपजीवकविरोधेन उपजीव्यस्याप्रामाण्यं युक्तम् । विषयाभावे स्वस्यैवाप्रामाण्यप्राप्तेः’ इत्युक्तोपपत्ति-सिद्धत्वाच्चेत्यर्थः । भेद एवेति ।। अतत्त्वमसीति पदविभागमङ्गीकृत्येत्यर्थः । अपूर्वतेति ।। प्रमाणान्तरा-प्राप्तार्थप्रतिपादकत्वलक्षणापूर्वतेत्यर्थः । यदत्रोक्तमिति ।। ‘आगमं विनेश्वरस्यैवासिद्धेः’ इत्यनेन प्रत्यक्षानु-मानाभ्यामीश्वरस्यैवासिद्ध्या तद्भेदस्याप्यसिद्धत्वेन भेदवाक्यानां नानुवादकत्वमित्युक्तमित्यर्थः । भिन्न-विषयत्वादिति ।। प्रमाणान्तरस्य जीवेश्वरस्वरूपमात्रविषयकत्वेन तद्भेदाविषयकत्वादिति भावः । (तथात्वे तत्प्रमाणान्तरविरोधेनैव अभेदागमाप्रामाण्यप्राप्तेरिति भावः ।) प्रमाणान्तरेण सिद्धावित्यनन्तरमनुवादकत्वमिति वर्तते । सा भेदस्यापि प्रमाणान्तरेण सिद्धिः । न कथञ्चिदिति ।। कथञ्चित् कथमपि अनुपरोधो नेत्यर्थः । उपरोध एव स्यादिति यावत् । एवमपीति ।। भेदवाक्यानामननुवादकत्वपक्षेऽपीत्यर्थः । स्यादिति ।। भेदवाक्यानामनुवादित्वेन प्रबलत्वादिति भावः । उभयतःफाशा रज्जुरिति ।। भेदवाक्यानामनुवादकत्वाङ्गीकारे भेदस्य प्रमाणान्तरसिद्धेरङ्गीकार्यत्वेन येन प्रमाणेन भेदसिद्धिरङ्गीक्रियते तत्प्रमाणेनैवाभेदवाक्यस्य बाधः स्यात् । तत्परिहाराय भेदस्य प्रमाणान्तरसिद्धत्वानङ्गीकारे भेदवाक्यानामननुवादित्वेन प्राबल्यप्राप्त्या तद्विरोध एवाभेदवाक्यानां स्यादित्येवं भेदस्य प्रमाणान्तरसिद्धत्वाङ्गीकारे तदनङ्गीकारे चेत्युभयतःफाशा रज्जुर्गलबन्धक-रज्जुरित्यर्थः । फाशा रज्जुरित्येव पाठः । ‘फाशा स्याद्गलबन्धिका’ इत्यभिधानात् । पाशा रज्जुरिति पाठे पौनरुक्त्य-मर्थासङ्गतिश्चेति ज्ञातव्यम् । भेद एवेति ।। अतत्त्वमसीति पदच्छेदमङ्गीकृत्येत्यर्थः ।
शङ्कते- जीवेश्वरभेद इत्यादिना ।। तर्हि प्रत्यक्षादिनैव विरोधस्स्यादित्याशयेन सिद्धान्ती शङ्कते- किन्त्वि-ति ।। उत्तरमाह- तत्प्रत्यक्षादिकमिति ।। ननु प्रत्यक्षादीनामप्रामाण्ये कथं लोकानां तत्र प्रमाणत्वव्यवहार इत्यत आह- व्यावहारिकत्वमात्रेणेति ।। व्यावहारिकार्थविषयकत्वमात्रेण प्रमाणवाचोयोयुक्तिः । योगो घटना । नतु पारमार्थिकविषयकत्वेनेत्यर्थः । अतत्त्वावेदकमप्रमाणमिति यावदिति भावः । तत् ऐक्यवाक्यम् । तेन भेदप्रमाणेन प्रत्यक्षादिना । वक्ष्याम इति ।। ‘मिथ्यावादित्वे च श्रुतेः कथमैक्यस्य सत्यत्वम्’ इत्यत्रेत्यर्थः। नन्वप्रमाणसिद्धप्रतिपादकत्वेनेति वक्तव्यम् । कथमप्रमाणसिद्धेनेत्युक्तमित्यत आह- प्रतिपादितेनेति ।। (श्री.टि.) अप्रमाणभूतप्रत्यक्षादिसिद्धेन भेदेन प्रतिपादितेन निमित्तेनेत्यर्थः । भिन्नविषयत्वं स्यादिति ।। अप्रमाणभूतप्रत्यक्षादिसिद्धार्थस्याविद्यमानत्वप्राप्त्या प्रमाणभूतवेदप्रतिपादितार्थस्य विद्यमानत्वप्राप्त्या भिन्नार्थ-विषयकत्वं स्यादित्यर्थः । द्वयमपीति ।। विद्यमानघटावगाहिप्रत्यक्षतत्प्रतिपादकागमवदिति भावः । अप्रमाणं वेति ।। विद्यमानेऽपि घटे तदभावावगाहिप्रत्यक्षतदभावप्रतिपादकागमवदिति भावः । विभाग इति ।। प्रत्यक्षा-दिकमप्रमाणं भेदवाक्यं प्रमाणमिति विभाग इत्यर्थः । प्रत्यक्षभेदागमयोर्भिन्नविषयत्वापादन इष्टापत्तिरित्यत आह- भिन्नविषयत्वे चेति ।। परस्परपराहतमिति ।। प्रत्यक्षादिकमप्रमाणं भेदवाक्यं प्रमाणमिति विभागे भिन्नविषयत्वप्राप्त्याऽनुवादकत्वोक्तिव्याघातः अनुवादकत्वोक्तौ च समानविषयकत्वप्राप्त्या उक्तरीत्या द्वयोः प्रामाण्यस्य अप्रामाण्यस्य वा प्राप्त्या प्रामाण्याप्रामाण्यविभागकथनं व्याहतमित्यर्थः । श्रुतेः ऐक्यश्रुतेः । प्राबल्यस्येति ।। तथा च प्रबलैक्यवाक्यप्रामाण्यं दुर्बलप्रत्यक्षादिविरोधाभावसापेक्षं न भवति । न हि हरिण-शावाभावमपेक्ष्य सिंहो वनमवगाहते । अतो द्वितीयकोटेरनङ्गीकारान्नान्योन्याश्रय इति भावः । श्रुतीति ।। ऐक्यश्रुतीत्यर्थः । उपहारः प्रापणम् । स्वातन्त्र्येण प्रत्यक्षाद्यनपेक्षतया । स्वविषये भेदप्रतिपादने । कुत इत्यत आह- तस्येति ।। ऐक्यवाक्यस्येत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
उक्तमेवार्थं विशदयतीति ।। तथा च न ‘अत्र च’ इत्याद्युत्तरग्रन्थवैयर्थ्यमिति भावः । ननु कोऽसा-वुक्तोऽर्थः, का च तत्रानुपपत्तिः, येनोपपादनापेक्षत्वात्तस्य तदुपपादनपरतया तद्ग्रन्थावैयर्थ्यं स्याद् इत्यत उक्तमर्थं तत्र तत्रानुपपत्तिं च प्रदर्श्य तत्परिहारतया उत्तरग्रन्थं योजयति- यदुक्तमित्यादिना ।। अत्र ब्रह्मतर्क इति ।। अत्रेति मूलपदानुवादः, ब्रह्मतर्केति तद्व्याख्यानम् । चशब्दसमुच्चितमर्थमाह- उपपत्तीति ।। ‘न तावद् द्वयोरपि प्रामाण्यं वस्तुनो द्वैरूप्यापातात्’ इत्याद्युपपत्तीत्यर्थः । एवं सामान्यन्यायोपपादकतया मूलं व्याख्याय तदेव मूलं प्रकृतपरतयाऽपि व्याचश्व्े - अत्र च प्रकृतेऽपीति ।। ननु कथमनेन अप्रामाण्यशङ्कानुपपत्तिपरिहार इत्यतः ‘भेद एव तात्पर्यम्’ इत्येतत्तात्पर्यमाह- इत्येवमिति ।।
लघुप्रभा
(व्या.टि.)
अत्रेत्यस्य प्राबल्यादित्यनेनान्वयाप्रतीतेराह- प्राबल्यस्योक्तत्वादिति ।। चशब्दसूचितयुक्त्यन्तर-माह- उपपत्तिसिद्धत्वाच्चेति ।। अत्रेत्यस्यावृत्त्याऽर्थान्तरमाह- अत्र च प्रकृतेऽपीति ।। प्राचीनाप्रामा-ण्योक्तेर्भावमाह- इत्येवमिति ।। दर्शितदिशेत्यर्थः । भिन्नविषयत्वादिति ।। तदगृहीतग्राहित्वादित्यर्थः । अन्यथाऽग्निहोत्रोत्पत्तिविधिना गुणविधेरप्यनुवादकत्वापात इति भावः । अङ्गीकर्तुं शक्येति ।। वक्ष्यमाण-दूषणगणग्रासादित्यर्थः । भेदस्याप्यन्यतः सिद्धिं शङ्कते- न केवलमिति ।। कथमाक्षेपे इति मत्वा विपर्ययमाह- न कथञ्चिदिति ।। उभयत इति ।। अनुवादकत्वे पुरोवादरूपभेदसाधकेन, अननुवादकत्वे च भेदवाक्येनैव विरोध इति भावः । पाशारज्जुरिति ।। ‘पाशा स्याद्गलबन्धिका’ इत्यभिधानम् । भेदवाक्यानामनुवादित्वेऽपि न तत्पुरोवादेनोपरोधोऽभेदागमस्य तस्यैवाप्रामाण्यादित्याशङ्कते- जीवेश्वरभेद इति ।। प्रत्यक्षाद्यप्रामाण्ये व्यवहारोच्छेद इत्यत आह- व्यावहारिकत्वमात्रेणेति ।। न त्वयमिति ।। प्रामाण्याप्रामाण्यनिमित्तयोरबाध-(व्या.टि.) बाधयोस्तौल्यादित्यर्थः । ज्ञप्तावन्योन्यापेक्षां दर्शयति- सिद्धे खल्वित्यादिना ।। अनपेक्षमेवेत्यर्था-भावेऽव्ययीभावः । अकिञ्चित्करत्वमुपपादयति- यथा हीति ।। सङ्गृहीतमेतन्न्यायामृते-
‘यथा नापहरेद् द्वैताभावश्रुत्यर्थमक्षधीः ।
तथा नोपहरेद् द्वैतश्रुत्यर्थमपि दुर्बला ।।’ इति ।
प्राबल्योक्तेः क्वोपयोग इत्यत आह- तथा चेति ।।