‘यथा पक्षी ..

नवप्रकरण्या अपि भेदपरत्वे समाख्यावचनम्

मूलम्

- ‘यथा पक्षी च सूत्रं च नानावृक्षरसा यथा ।

यथा नद्यः समुद्रश्च शुद्धोदलवणे यथा ।

यथा चोरापहार्यौ च यथा पुंविषयावपि ।

तथा जीवेश्वरौ भिन्नौ सर्वदैव विलक्षणौ ।

तथापि सूक्ष्मरूपत्वान्न जीवात् परमो हरिः ।

भेदेन मन्ददृष्टीनां दृश्यते प्रेरकोऽपि सन् ।

वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बध्यतेऽन्यथा ।।’ इति च परमोपनिषदि ।

टीका 

एवं नवानामपि वाक्यानां जीवब्रह्मभेद एव तात्पर्यमिति प्रत्येकमुपपाद्येदानी सर्वेषामपि भेदपरत्वे समाख्यावाक्यं पठति- यथेति ।। यथा पक्षी च सूत्रं च तथा जीवेश्वरौ भिन्नौ । यथा च नानावृक्षरसा, यथा च नद्यः समुद्रश्च तथा सर्वदैव विलक्षणौ । यथा धानागतः तथा सूक्ष्म-रूपत्वाद्भिन्नोऽपि भेदेन न दृश्यते । यथा शुद्धोदलवणे भिन्ने तथाऽप्युदकान्तर्गतं लवणं दृष्टसामर्थ्यमपि स्वयं न दृश्यते तथा प्रेरकोऽपि सन् दृष्टसामर्थ्योऽपि न दृश्यते । यथा पुंविषयौ बद्धाक्षगन्धारदेशौ च भिन्नौ गुरूपदेशेन द्रष्टृदृश्यभाववन्तौ तथा जीवेश्वरावपि भिन्नौ । तत्र तयोः परं वैलक्षण्यं ज्ञात्वा शङ्कितचोरसत्याभिसन्धवत् मुच्यते संसारात् । अन्यथा ऐक्यज्ञानेनानृताभिसन्धवत् बध्यते नित्यनरके पात्यत इत्यर्थः ।

भावबोधः

‘यथा पक्षी च सूत्रं च’ इत्यादिवाक्यस्य नवप्रकरण्युक्तार्थे सर्वस्मिन्नार्थिकसमाख्यात्वं स्पष्टं न प्रतीयत इत्यतस्तत्तथा व्याचश्व्े- यथा पक्षी चेति ।। तथा सर्वदैव विलक्षणाविति ।। शकुनिसूत्रदृष्टान्तप्रतिपादकवाक्य-स्योभयत्र तात्पर्यान्नानावृक्षरसनदीसमुद्रदृष्टान्तप्रतिपादकयोस्तु साक्षाद्व्यावर्तकधर्मप्रतिपादन एव तात्पर्यादिति भावः । दृष्टान्तवाक्याध्याहारेण तथापीति वाक्यमुपनिषत्क्रमानुरोधेन योजयति- यथा धानागत इति ।। शुद्धोदेत्यस्य प्रेरक इत्यनेन दार्ष्टान्तिकत्वेनान्वयं कृत्वा तत्खण्डसमानार्थत्वेन वाक्यद्वयं व्याचश्व्े- यथा शुद्धो-देति ।। यथा पुंविषयावित्येतदपेक्षितदृष्टान्तप्रतिपादकत्वेन व्याचश्व्े- यथा पुंविषयाविति ।।

भावदीपः

पक्षिसूत्रदृष्टान्तो न केवलं जीवेश्वरौ भिन्नावित्यत्रैव, अपि तु नानावृक्षरस-नदीसमुद्रदृष्टान्ताविव सर्वदैव विलक्षणावित्यत्रापीति भावेन पुनरप्यनुवदति- यथा पक्षी च सूत्रं चेति ।। समाख्याया-मुक्तदृष्टान्तषट्कमुपलक्षणं दार्ष्टान्तिकोक्तिबलादन्योऽपि तदनुगुणो दृष्टान्तो ग्राह्य इति भावेन तादृशदृष्टान्तोक्ति-पूर्वकं तथापीत्यादि दार्ष्टान्तिकपरतया योजयति- यथा धानागतस्तथेति ।। तथापीत्यस्य भिन्नोऽपि सर्वज्ञत्व-सर्वशक्तित्वादिना विलक्षणोऽपीत्यर्थस्य  स्पष्टत्वादनुक्तिः    समाख्योक्ताववशिष्टदृष्टान्तत्रयस्य दार्ष्टान्तिकं दर्शयति- यथा शुद्धेति ।। तथापीति पदं प्रेरक इत्यत्राप्यन्वेतीति भावेनानूद्यार्थमाह- तथेति ।। प्रेरकोऽपि सन्नित्यस्यार्थो दृष्टसमार्थ्योऽपीति ।  विषयशब्दो देशवाचीति भावेनाह- गन्धारदेशाविति ।। गुरूपदेशे-नेति ।। आप्तोपदेशेनेत्यर्थः । उत्तरत्राप्यन्वयार्थं गुरूपदेशेनेत्युक्तिः । दृश्यमत्र स्वदेशो ज्ञेयः । तथा जीवेश्वरावपीति ।। भिन्नौ गुरूपदेशेन द्रष्टृदृश्यभाववन्तावित्यनुषङ्गः । तत्रेति ।। एवं दृष्टान्तबलेन जीवेश्वरयोर्भेदे वैलक्षण्ये च सिद्धे सतीत्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

‘यथा पक्षी च सूत्रं च’ इत्यादिवाक्यस्य नवप्रकरण्युक्तार्थे सर्वस्मिन्नर्थसमाख्यात्वं स्पश्व्ं न प्रतीयतेऽ-तस्तदध्याहारेण सम्यग्व्याचश्व्े- यथा पक्षी चेत्यादिना ।। यथा पक्षी च सूत्रं च तथा सर्वदैव विलक्षणावित्युक्त्या शकुनिसूत्रदृष्टान्तप्रतिपादकवाक्यस्य भेदे वैसादृश्यरूपे वैलक्षण्ये चेत्युभयत्र तात्पर्यं, नानावृक्षरसनदीसमुद्र-दृष्टान्तप्रतिपादकवाक्ययोस्तु साक्षाद् व्यावर्तकधर्मप्रतिपादन एव तात्पर्यमित्युक्तं भवति । उपनिषत्क्रमानुसारेण तथापीति वाक्यमादौ योजयति- यथा धानागत इति ।। यद्यपि तथापीत्येवमर्थप्रतीतिवारणाय तथेत्यस्यापेक्षितं दृष्टान्तं पूरयति- यथा धानागत इति ।। अपीत्यतः पूर्वं भिन्न इति शेष इत्यभिप्रेत्य भिन्नोऽपीत्युक्तम् । तथा च यथा धानागतो हरिः सूक्ष्मत्वान्न दृश्यते तथा जीवादपि सूक्ष्मरूपत्वाज्जीवाद्भिन्नोऽपि परमो हरिर्मन्ददृष्टीनां जीवाद्भेदेन न दृश्यत इत्यर्थः । शुद्धोदलवणे यथा तथा प्रेरकोऽपि सन्न दृश्यत इत्यन्वयमभिप्रेत्याध्याहारेण सम्यग् व्याचश्व्े- यथा शुद्धोदलवण इति ।। उपनिषत्क्रमानुसारेणाह- यथा पुंविषयाविति ।। यथा पुंविषयौ भिन्नावित्यन्वयमभिप्रेत्य दार्ष्टान्तिकमध्याहरति- बद्धाक्षेत्यादिना ।। गुरूपदेशेनेति ।। ‘तस्य यथाभिनहनं प्रमुच्य प्रब्रूयात्’ इत्युक्तत्वान्नेत्रपटलं प्रमुच्य मार्गोपदेष्टैव गुरुरिति भावः । जीवेश्वरावपि गुरूपदेशेन द्रष्टृ-दृश्यभाववन्ताविति सम्बन्धः । यथा चोरापहार्यौ च तथा जीवेश्वरौ भिन्नावित्यन्वयमभिप्रेत्य व्याचश्व्े- यथा चोरापहार्याविति ।। शङ्कितचोरेति । वस्तुगत्या न चोर इत्यर्थः । शङ्कितचोरश्चासौ सत्याभिसन्धश्चेति विग्रहः। अन्यथेत्येतदनूद्य व्याचश्व्े- अन्यथैक्यज्ञानेनेति ।। ऐक्यज्ञानस्य बन्धमात्रफलकत्वे ‘तेषां तमःशरीराणां तम एव परायणम्’ इत्युक्तविरोधः स्यादतो व्याचश्व्े- नित्यनरके पात्यत इति ।। वायुकिङ्करैरिति शेषः ।

लघुप्रभा

(व्या.टि.)

विषयभेदेनोपमेयभावं व्यनक्ति- यथा पक्षीत्यादिना ।। विलक्षणावित्यतः परं यथा वृ(क्षे)क्षो जीवाद्भेदेन दृश्यते जीवस्यास्वातन्त्र्यं(न्त्र्यात्) तथा मानुषदेहेऽपीत्युपस्कर्तव्यम् । सर्वेषामित्यवतारितत्वात् । शुद्धोदेति ।। उदकस्य उदादेशः क्षीरोद इतिवत् । प्रकृतविवक्षयाऽऽह- संसारादिति ।। ‘तमस्यन्धे पातयति महाकारागृहोपमे’ इति मात्स्यानुरोधेन व्याचश्व्े- प्राप्त इति ।।