कर्माणि विज्ञानमयश्च ..
मुक्तौ ब्रह्मकीभाववाचक. पदानामर्थान्तर परत्वस्योपवर्णनम्
मूलम्
- ‘कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति’ इत्यत्रापि एकीभावो मत्यैक्यं क्षीराब्ध्यादिस्थिततद्रूपापेक्षया स्थानैक्यं वा । ‘कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योः । यदमीषामदः प्रियं तदैतूपमामभि’, ‘ब्रह्ममत्यनुकूला मे मतिर्मुक्तौ भविष्यति । अतः प्रायोऽनुकूलत्वमिदानीमपि मे स्थितम्’, ‘येनाऽ-क्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम्’, ‘एतमानन्दमयमात्मान-मुपसङ्क्रामति’ इत्यादिश्रुतिभ्यः । स्वरूपैक्याभिप्राये कर्माणि विज्ञानमयश्चेति न युज्यते । न हि तत्पक्षेऽपि कर्मणा ब्रह्मैक्यं मुक्तावस्ति । निवृत्त्यभिप्राये च पञ्चदश-कलानामपि समत्वात् । ‘गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु’ इत्यन्यासां कलानां गमनमुक्त्वा कर्मणां विज्ञानात्मनश्चैकीभावकथनं व्यर्थं स्यात् । विशेषाभावात् ।
तत्त्वमञ्जरी
मृत्योः संहारकस्य भगवतः कामानुकूल्येन मे कामः विषयान्प्रत्यागच्छेत् । अमीषां भगवद्रूपाणां यत्प्रियं तत् प्रियत्वेन माऽभ्युपैतु । उपासकानामेवमभिसन्धेः मुक्तौ मत्यैक्यं सम्भ-वति । येनाऽप्तकामा मुक्तास्तं लोकमाक्रमन्ति, यत्र तत्सत्यस्य हरेः परं निधानं वैकुण्ठाख्यं स्थानम् । कर्मणां जडत्वात् निवृत्तिरभिप्रेतेत्यत आह- निवृत्तीति ।। पञ्चदशकलानामपि निवृत्त्या कर्मसमत्वात् । सर्वासामप्येकदैव निवृत्तिकथनसम्भवात् । प्रतिदेवतासु प्रतिष्ठाः देवताप्रति-बिम्बभूतासु प्रजासु प्रति प्रति स्थिताः । अन्ये इन्द्रियाद्यभिमानिदेवाश्च ।
टीका
ननु ‘गताः कलाः’ इति वाक्ये मुक्तस्य परमात्मैक्यं स्फुटमेवोच्यते । तथा हि-मुक्तिकाले विदुषो देहारम्भकाः प्राणाद्याः पञ्चदशकलाः प्रतिष्ठाः स्वकारणानि प्रति गता भवन्ति । तदभिमानिनो देवाश्च सर्वे प्रतिदेवतासु स्वमूलरूपेषु गता भवन्ति । कर्माणि विदुषा कृतानि निवृत्तानि विज्ञान-मयश्चायमात्मा विद्वान् परेऽव्यये परमात्मनि सर्व एकीभवन्तीति । तथा च कथं मुक्त्यनन्तरमपि भेदोऽभिधीयत इत्यतो वाक्यं सम्यग्व्याचष्टे- कर्माणीति ।। अत्र वाक्ये कथित इति शेषः । विषयैक्यान्मतीनामैक्यं तदैक्यान्मतिमतामप्यैक्यमिति लक्षितलक्षणेत्यर्थः । स्थानैक्यं वेति ।। स्थानगतमैक्यं स्थानिषूच्यत इत्यर्थः । ईश्वरस्य सर्वगतत्वात्तेन स्थानैक्यं जीवस्य सर्वदाऽस्ति । तस्मात् ‘एकीभवन्ति’ इति कथमित्यत उक्तम्- क्षीराब्धीति ।। तद्रूपम् ईश्वररूपम् । ततश्चायमर्थः-गता मुक्ता इति वक्ष्यमाणानां सर्वेषां विशेषणम् । प्राणाद्याः पञ्चदश कलादेवता अन्ये च प्रतिदेवतासु प्रतिबिम्बभूतासु प्रजासु, प्रतिष्ठाः स्थितिहेतवः सर्वे देवाः कर्माणि कर्माभिमानिनी देवता च विज्ञानमय आत्मा चेत्येते सर्वे परमात्मानं प्राप्य तस्मिन्नेव स्थिता एकीभवन्ति । प्राग्विभिन्न-मतयोऽधुनैकमत्यं प्राप्नुवन्ति, प्राग्विमतयो ब्राह्मणा राजकुले एकीभवन्तीति यथा । अथ वा प्रागीश्वरव्यक्तिस्थानापेक्षयाऽन्यत्रेतस्ततः स्थितास्तत्र मिलिता भवन्ति । अह्नि इतस्ततः स्थिता गावः सायं गोष्ठे एकीभवन्तीति यथा । च्विप्रत्ययोऽप्येवं सति मुख्यार्थः स्यात् ।
‘विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ।
यावन्मोक्षं तु भेदः स्याज्जीवस्य परमस्य च ।
ततः परं न भेदोऽस्ति भेदहेतोरभावतः ।’
इत्यादीन्यपि वाक्यान्येवमेव व्याख्येयानि । असन्तम् अभद्रमित्यर्थः । ननु मुक्तस्य परमेश्वरेण मत्यैक्ये सिद्धे तद्विषयमेतद्वाक्यं भवेत्, तदेव कुत इत्यतः तत्र वाक्यद्वयं पठति- कामेनेति ।। मृत्योः संहर्तुरीश्वरस्य कामेन इच्छानुसारेणैव मे काम आगात् मुक्तावागच्छतु । मृत्योर्हृदयाद् हृदयं सङ्कल्पमनुसृत्यैव मे हृदयं सङ्कल्प आगच्छतु । अमीषाम् अमुष्य मृत्योः यद् अदः प्रियं तदेव मामभि आ सम्यग् एतु, ममापि प्रियं भवतु इति मुमुक्षुणा प्रार्थ्यते । इदानी जीवन्मुक्त्यवस्था-यामपि मुक्तानां परमेश्वरेण स्थानैक्यम् अस्तीत्येतत्कुतः? येनैतद्वाक्यं तद्विषयं स्यादित्यतोऽत्रापि श्रुतिद्वयं पठति- येनेति ।। यत्र लोके सत्यस्य परमेश्वरस्य तत्परमं निधानं प्राकट्येन सन्निधानं तं लोकम् आप्तकामाः कृतार्थाः ऋषयो येन देवयानेन पथा आक्रमन्ति गच्छन्तीति यच्छब्दस्य पूर्वत्रान्वयः । नन्वस्य वाक्यस्य साक्षादैक्यार्थेऽनुपपन्ने तत्त्यागेन लक्षणाऽऽश्रयणीया । नच मुख्यार्थेऽनुपपत्तिं पश्यामः । तत्कथं लक्षणाश्रयणमित्यतस्तावदान्तरानुपपत्तिमाह- स्वरू-पेति ।। स्वरूपैक्यं साक्षादैक्यम् अभिप्रायो यस्य तत्तथोक्तम् । अस्मिन् वाक्येऽङ्गीकृत इति शेषः। विज्ञानमयस्याऽत्मन इव कर्मणामपि परमेश्वरैक्यकथनं न युज्यते । कुत इत्यत आह- न हीति ।। तत्पक्षे मुक्तस्य ब्रह्मणैक्यपक्षे । अस्मत्पक्षे तु सुतरामित्यपेरर्थः । कर्मशब्देन हि न देवता तैरङ्गी-कृता । अतो जडानां चिदात्मना ब्रह्मणा तैरप्यैक्यं नाङ्गीकृतम् । अतोऽपसिद्धान्तः स्यादित्यर्थः ।
ननु कर्माणि एकीभवन्तीत्यस्य चित्स्वरूपे भ्रान्यारोपितानि ज्ञानेन निवर्तन्त इत्यभिप्रायः । अतो नोक्तदोष इति चेन्न । तथा सति विज्ञानात्मनोऽपि निवृत्तिप्रसङ्गात् । न हि सकृदुक्तस्य शब्दस्यार्थद्वयकल्पना युक्तेति स्फुटत्वादनुक्त्वा दोषान्तरमाह- निवृत्तीति ।। निवृत्तिरभिप्रायो यस्यासौ तथोक्तः । एकीभावशब्देऽङ्गीकृत इति शेषः । पञ्चदशकलानामिति विशेषणसमासो न द्विगुः । समत्वात् निवृत्तेरिति शेषः । यदि कर्माण्येकीभवन्तीत्यस्य निवर्तन्त इत्यभिप्रायः स्यात्तदा पञ्चदशानामपि कलानां निवृत्तिसाम्यात् कर्मणोऽपि कलात्वाद्गताः कलाः षोडशेत्येव वक्तव्यम् । पृथङ्निवृत्तिकथनं व्यर्थं स्यात् । किञ्च कर्मव्यतिरिक्तानां कलानां गता इति शब्देन कर्मणान्त्वेकी-भवन्तीति शब्दान्तरेण निवृत्तिकथनं व्यर्थं स्यात् । अपि च कर्मणां विज्ञानात्मना सहोक्तिश्च व्यर्था स्यादिति भावः ।
अथ वा यदुक्तमेवं सति विज्ञानात्मनोऽपि निवृत्तिः प्रसज्येतेति तदप्यनेन सूचयति- विज्ञानात्म-न इति ।। तदर्थं व्यर्थमित्येतद्विरुद्धार्थमिति व्याख्येयम् । ननु समानजातीयानामपि पृथक्-क्रियासम्बन्धोक्तिर्दृष्टा यथा ब्राह्मणाः समागता वसिष्ठश्चेति । तथाऽत्र किं न स्यादिति चेन्न । तत्र श्रैष्ठ्यज्ञापनादिप्रयोजनविशेषसद्भावात्प्रकृते तु तदभावादित्याह- विशेषेति ।। अस्मन्मते तु पृथगुक्तेः प्रयोजनमुक्तम्-
‘कलाभ्यश्चान्यदेवेभ्यः कर्म प्रत्यवरं यतः ।
कलाभ्यः पृथगुक्तं तत्पुष्करः कर्म चोच्यते’ इति ।।
भावबोधः
च्विप्रत्ययोऽप्येवं सति मुख्यार्थः स्यादिति ।। एकविषयबुद्धिमत्त्वस्य श्वेतद्वीपाद्येकस्थानत्वस्य प्राङ्मुक्तेरविद्यमानस्य मुक्तौ सत्यां भवनाङ्गीकारादिति भावः । एवमेव व्याख्येयानीति ।। एकीभावशब्दो यथैकविषयबुद्धिकत्व-एकस्थानस्थितत्वार्थो व्याख्यातः, तथा भेदशब्दो विरुद्धविषयकबुद्धिकत्वादिना व्याख्येय इत्यर्थः । विरुद्धविषयकबुद्धिकत्वादेः सत्यत्वात्कथमसङ्गतमसन्तमित्युक्तमित्यतस्तद्व्याचष्टे- अभद्रमिति ।। यच्छब्दस्य पूर्वत्रान्वय इति ।। साक्षादैक्यमिति ।। न तु निवृत्तिलक्षणगौणैक्यमित्यर्थः । आत्मन इवेति ।। अनेन विज्ञानमयश्चेति विज्ञानमयस्य दृष्टान्तत्वेन ग्रहणमित्युक्तं भवति । कर्मणोऽपि कलात्वादिति ।। अनेन समत्वादित्येतदावृत्त्या एतत्परत्वेन व्याख्यातं भवति । उक्त्वा कथनमिति पौर्वापर्यप्रदर्शनेनेयं युक्तिः सूचितेति ज्ञातव्यम् । गमनैकीभावपद(प्रवृत्त्या)प्रयोगसूचितं दूषणमाह- किञ्चेति ।। विज्ञानात्मनश्चेति पदप्रयोगेण सूचितं दूषणमाह- अपि चेति ।। अन्यथा कर्मणामित्यस्यैव प्रकृतोपयोगाद् विज्ञानात्मनश्चेति व्यर्थं स्यादिति भावः । विज्ञानात्मनश्चेति पदप्रयोगसूचितं दूषणान्तरमाह- अथ वेति ।। प्रत्यवरमिति ।। अत्यन्तमवर-मित्यर्थः । अन्यथा पञ्चदशकलाद्यभिमानिदेवानामपि तारतम्योपेतत्वात्सहोक्तिर्न स्यादिति ।
भावदीपः
मूलकृतैवाग्रे समग्रस्य पूर्वार्धस्य कर्माणीत्युत्तरार्धस्य चोक्तेः ‘गताः कला इति वाक्ये’ इत्येवो-क्तम् । प्राणाद्या इति ।। ‘प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च’ इति षट्प्रश्नोक्ता ध्येयाः । तदभिमानिनो देवा इति ।। प्राणवाणीविनायकप्राणसुत-मरुत्पावकबुधशनीन्द्ररुद्रचन्द्रवरुणवह्निस्वाहापर्जन्योषा इत्यर्थः । एकीभवन्तीतिशब्दस्य स्फुटमैक्यमुच्यत इति पूर्वेणान्वयः । आदिपदार्थमेतद्वाक्यार्थोक्त्यनन्तरं विवरिष्यन्नेतन्मात्रपरमग्रेतनव्याख्यानमिति भावेनाऽह- अत्र वाक्य इति ।। शेष इति ।। कथित एकीभावो मत्यैक्यमिति योजनेति भावः । तथा च सूत्रं ‘भोक्त्रापत्तेः’ इत्यादि । प्रतिजीवं मतीनां भिन्नत्वात्कथं मत्यैक्यमित्यत आह- विषयैक्यादिति ।। एकीभवन्तीति श्रुत-स्वरूपैक्यवाचिपदेन तन्मतीनामैक्यं लक्षयित्वा तद्विषयैक्यं लक्षणीयमिति लक्षितलक्षणा । लक्षितार्थं द्वार-तयोपादायार्थान्तरं लक्षणया बोधयतीति लक्षितलक्षणारूपवृत्तिमदिदं पदमित्यर्थः । भगवन्मतिर्यद्विषयिणी तद्विषयकमतिमन्त एव सर्वे मुक्ता न तु संसारदशायामिव तद्विरुद्धविषयकमतिमन्त इति भावः । समग्र-वाक्यार्थमाह - ततश्चेति ।। एकीभावशब्दस्य मत्यैक्याद्यर्थकत्वे सतीत्यर्थः । अयमर्थः, समग्रवाक्यस्येति योज्यम् । वक्ष्यमाणानामिति ।। देवानां कर्मणां विज्ञानमयस्य चेत्यर्थः । कलापदेनैवाभिमानिनयन्यायेन कलादेवतानां ग्रहणात्पुनर्देवाश्चेति पुनरुक्तमित्यत उक्तम्- अन्ये चेति ।। ऐकमत्यमिति ।। एकार्थविषयकमति-मत्त्वं प्राप्नुवन्तीत्यर्थः । राजकुल इति ।। राजगृह इत्यर्थः । व्यक्तीति ।। अभिव्यक्तीत्यर्थः । एवं व्याख्याने किं बीजमित्यत आह- च्विप्रत्यय इति ।। ‘अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः’ इति प्रागनेका अधुनैकतां प्राप्ता इत्येवंरूपाऽभूततद्भावे च्विप्रत्ययस्योक्तेरेकीतिशब्दस्य च्विप्रत्ययान्तस्य सत्त्वादस्मदुक्तार्थ एवैकशब्दात्परः च्विप्रत्ययो मुख्यः । पराभिप्रेतार्थे प्रागप्यैक्यस्य तन्मते सिद्धत्वेनाभूततद्भावासम्भवादिति भावः । न केवलं वक्ष्यमाणदिशा कर्माणीत्यादिर्मुख्यः च्विप्रत्ययोऽपीत्यपेरर्थः ।
एकीभवन्तीत्यादावपीत्यत्राऽदिपदोक्तवाक्यद्वयमुदाहृत्य प्रागुक्तव्याख्यानमतिदिशति - विभेदजनक इति ।। मित्रभेद इत्यादाविवात्र भेदशब्दो भगवन्मतिविषयविरुद्धार्थविषयकज्ञानपरः । तज्जनके अज्ञाने संसारहेतु-भूते नाशमात्यन्तिकं गते । आत्मनः स्वस्य भेदं विरुद्धमतिमत्त्वमित्यर्थः । असन्तमलीकमिति भ्रान्तिनिरासायाऽह- असन्तमभद्रमिति ।। अनर्थहेतुत्वादिति भावः । व्यत्ययेन बहुवचनमित्युपेत्याऽह- अमीषाममुष्येति ।। तदैत्वित्यत्र तत् आ एत्विति विभागमुपेत्याऽह- तदेवेत्यादि ।। संसारदशायामिति भ्रमनिरासायाऽह- जीवन्मु-क्त्यवस्थायामिति ।। तदित्यस्याऽवृत्तिमुपेत्यार्थमाह- तं लोकमिति ।। श्वेतद्वीपम् । यच्छब्दस्येति ।। येनेतिशब्दस्य ‘सत्येन पन्था विततो देवयानः’ इत्याथर्वणस्थपूर्ववाक्ये येन पथाऽऽक्रमन्ति अयं देवयानः पन्थाः सत्येन हरिणा वितत इत्यन्वय इत्यर्थः । अस्मत्पक्षे सुतरामिति ।। कर्मणां जडत्वेन चितोरेवैक्यानङ्गी-कारेणाऽचितोऽत्यन्तं निस्सन्देहमैक्यं नेत्यर्थः । विशेषणेति ।। ‘विशेषणं विशेष्येण बहुलम्’ इति समास इत्यर्थः । ‘सङ्ख्यापूर्वो द्विगुः’ इति द्विगुत्वे ‘द्विगुरेकवचनम्’ इति भाव्यत्वेन बहुवचनायोग इति भावः । निवृत्त्यभि-प्राय इत्यादेर्व्यर्थं स्यादित्यन्तस्य त्रेधा अभिप्रायमाह- यदि कर्माणीत्यादिना ।। अथ वेति पर्यन्तेन ग्रन्थेन । यदुक्तमिति ।। व्याख्यात्रा मयेति योज्यम् । केन पदेन सूचयतीत्यत उक्तम्- विज्ञानात्मनश्चेति ।। विरुद्धार्थमिति ।। कर्मणां निवृत्त्यर्थत्वं विज्ञानमयस्य स्वरूपैक्यार्थत्वमित्येवमेकी-भवन्तीत्यस्य विरुद्धार्थत्वस्य प्राप्तेरिति भावः । यदीत्यादिनोक्तदोषपरिहारमाशङ्कते- ननु समानेति ।। भवतामपि समानोऽयं दोषः, कर्मदेवताया अपि कलापदेन कलादेवतावाचिना गृहीतेरित्यत आह- अस्मन्मते त्विति ।। उक्तमिति ।। आथर्वणभाष्ये ।
वाक्यार्थदीपिका
(श्री.टि.)
गताः कला इति वाक्य इति ।। ‘गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति’ इति वाक्य इत्यर्थः । प्रतिष्ठाशब्दो मूलकारणवचन इत्यभिप्रेत्य स्वकारणानीत्युक्तम् । काम्यकर्मव्यावृत्त्यर्थं विदुषा कृतानि निवृत्तानीत्युक्तम् । निवृत्तकर्माणीत्यर्थः । विद्वान् ज्ञानी जीवः । लक्षितलक्षणेति ।। मुख्यार्थबाधाल्लक्षणा । तस्याप्यर्थस्य पुनर्बाधे सति या लक्षणा सा लक्षित-लक्षणा । तथा च लक्षितमर्थं द्वारीकृत्य लक्षणा लक्षितलक्षणेत्यर्थः । नन्वत्रार्थस्यैव सर्वपदलक्ष्यत्वमर्थान्तरलक्षकत्वं चोक्तं, तत्कथं? पदस्यैव लक्ष्यलक्षकत्वयोः प्रसिद्धेरिति चेत्, सत्यम् । अर्थस्यैव लक्ष्यत्वं लक्षकत्वं चेति मतमाश्रित्येदमुक्तम् । यथाऽऽहुः-
‘मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् ।
अन्योऽर्थो लक्ष्यते यत्सा लक्षणाऽरोपिता क्रिया ।।’ इति ।
आरोपिता क्रियेत्यस्य शब्देऽध्यस्तो व्यापार इत्यर्थः । अत्र च लक्षकं नैकपदम् । सिद्धान्ते मत्यैक्याङ्गीकरणैक्य-रूपमुख्यार्थापरित्यागात् । अतस्सर्वपदमेवात्र लक्षकम् । तथा च सर्वे प्राणिन एकीभवन्तीत्यर्थस्य बाधे मत्यैक्यं लक्ष्यते । एवं लक्षितलक्षणया वाक्यार्थे सिद्धे सत्यत्रानुपपत्तिर्नास्तीत्याशयेनोपपादयितुमुक्तम्- विषयैक्या-दिति ।। विषयैक्यान्मत्यैक्यमुपपद्यते, मत्यैक्यान्मतिमतां सर्वशब्दोक्तानामैक्यमुपपन्नमिति शेषः । एकी-भवन्तीति कथमिति ।। ‘अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः’ इति सूत्रेणाभूततद्भाव एव च्विप्रत्ययविधानात्, प्रकृत ईश्वरेण स्थानैक्यस्य सर्वदा सत्त्वेनाभूतत्वाभावादेकी-भवन्तीति च्विप्रत्ययः कथमित्यर्थः । सर्वेषां विशेषणमिति ।। गता= मुक्ताः पञ्चदशकलाः, तथा गता= मुक्ताः प्रतिदेवतासु प्रतिष्ठाः सर्वे देवाः गताः, व्यत्ययेन गतानि= मुक्तानि कर्माणि, गतो= मुक्तो विज्ञानमयश्च आत्मेत्येवं कलादिविज्ञानमयान्तानां सर्वेषां विशेषणमित्यर्थः । प्राणाद्याः पञ्चदश कलादेवता इति ।। ‘स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपोमन्त्राः कर्म लोका लोकेषु नाम च’ इति षट्प्रश्नोपनिषदुक्ताः कर्मव्यतिरिक्ताः प्राणाद्याः पञ्चदश कलाः । तद्देवतास्तु
‘विष्णोः प्राणस्ततः श्रद्धा तस्या रुद्रो मनोभिधः ।
तस्मादिन्द्रस्त्विन्द्रियात्मा तस्मात्सोमोऽन्नदेवता ।
(श्री.टि.) ततश्च वरुणः सृष्टस्तस्मादग्निस्ततोऽवरः ।
आकाशदेवता विघ्नस्ततो वायोः सुतो मरुत् ।
तस्मादग्निः पावकाख्यः प्रथमाग्नेः सुतस्ततः ।
ततः पर्जन्य उद्भूतस्स्वाहाऽतो मन्त्रदेवता ।
उदकात्मको बुधस्तस्मादुषा नामात्मिका ततः ।
ततः शनिः पृथिव्यात्मा ।’
इति तद्भाष्योदाहृतप्रमाणोक्ता ज्ञातव्याः । एतत्प्रमाणानुसारेणैव प्राणाच्छ्रद्धामिति श्रुतौ क्रमो ज्ञातव्यः । अन्ये चेति ।। सर्वे देवा इति सम्बन्धः । पञ्चदशकलादेवतातिरिक्ता इत्यर्थः । विज्ञानमय आत्मा चेति ।। जीवश्चे-त्यर्थः । विभिन्नमतय इति ।। भगवन्मतिविषयविरुद्धविषयकमतिमन्त इत्यर्थः । ऐकमत्यम् एकविषयकबुद्धि-मत्त्वम् । विमतयः राजमतिविषयविरुद्धविषयकमतिमन्त इत्यर्थः । व्यक्तिस्थानापेक्षयेति ।। यत्र भगवान् व्यक्ततयाऽस्ति तादृशं यत्स्थानं क्षीराब्धिशब्दोक्तश्वेतद्वीपानन्तासनवैकुण्ठाख्यं तदपेक्षयेत्यर्थः । मुख्यार्थः स्यादिति ।। एकविषयबुद्धिमत्त्वस्य श्वेतद्वीपाद्येकस्थानत्वस्य च मुक्तेः प्रागभूतस्य मुक्तौ सत्यां भावाङ्गी-कारादित्यर्थः ।
ननु ‘विभेदजनकेऽज्ञाने’ इति वाक्ये स्पष्टं मुक्तौ भेदाभावः प्रतीयत इति चेत् तत्राऽह- विभेदेति ।। भेदहेतोर-ज्ञानस्य । एवमेवेति ।। एकीभवन्तीत्यत्र यथैकीभावशब्द एकविषयकबुद्धिमत्त्वार्थको व्याख्यात एवमेवेत्यर्थः। अत्र भेदशब्दो विरोधवाची । मित्रभेद इति दर्शनात् । एवं च विभेदजनके भगवन्मतिविषयविरुद्धविषयकमतिजनके भगवदज्ञान इत्यादिरूपेण व्याख्यानं द्रष्टव्यम् । ननु भगवन्मतिविषयविरुद्धवियकबुद्धिमत्त्वरूपभेदस्य सत्यत्वात् कथमसन्तमित्यसत्त्वमुच्यत इत्यत आह- असन्तमभद्रमिति ।। ‘सद्भावे साधुभावे च’ इत्यादिवचनेन सच्छब्दस्य साधुभावरूपभद्रवाचित्वादित्यर्थः । भगवद्विरोधस्य श्रुत्यदिनिन्दितत्वेनामङ्गलत्वादिति भावः । हृदयादिति ल्यब्लोपनिमित्ता पञ्चमीत्याशयेन हृदयं सङ्कल्पमनुसृत्येत्युक्तम् । बहुवचनमेकवचनार्थे ‘सुपां सुलुक्’ इति स्मरणादित्यभिप्रेत्यामीषाममुष्येत्युक्तम् । श्रुतौ तत् आ एतु उप इति पदच्छेदः । तत्राव्ययानामनेकार्थत्वा-दुपेत्येतदवधारणार्थमित्याशयेन तदेवेत्युक्तम् । तात्पर्यार्थमाह- ममापीति ।। यच्छब्दस्य पूर्वत्रान्वय इति ।। येनेति यच्छब्दस्य ‘सत्येन पन्था विततो देवयान’ इति पूर्वत्रान्वय इत्यर्थः । तथा च येन देवयानेन पथा आक्रमन्ति स देवयानः पन्थाः, सत्येन परमेश्वरेण विततो विस्तृतस्तिष्ठतीत्यर्थो द्रष्टव्यः । साक्षादैक्यार्थ इति ।। कलादीनां सर्वेषां परमात्मस्वरूपेणैक्यरूपे मुख्यार्थ इत्यर्थः । ननूत्तरत्र कर्मणामेव ब्रह्मैक्यं न सम्भवतीत्युच्यते । अतस्तदर्थं कर्माणीति न युज्यत इत्येव वक्तव्यं, न तु विज्ञानमयश्चेत्यतो दृष्टान्तकथनायेदमित्यभिप्रेत्योक्तम्- विज्ञान-मयस्याऽत्मन इवेति ।। ननु कर्मशब्देन देवताग्रहणे तच्चैतन्यस्य ब्रह्मणैक्यं तत्पक्षेऽस्त्येवेत्यत आह- कर्मशब्दे-नेति ।। कर्माणि- विदुषा कृतानि निवृत्तानीति कर्मशब्दस्य निवृत्तकर्मपरतया व्याख्यातत्वादिति भावः । ननु (श्री.टि.) एकीभवन्तीत्यत्रैकीभावशब्दस्य कर्मपक्षे निवृत्त्यर्थकत्वं विज्ञानात्मकशब्दोक्तजीवपक्षे ऐक्यार्थत्व-मित्यर्थद्वयं कल्प्यत इति चेत्तत्राऽऽह-न हीति ।। ननु पञ्चदशकलानामिति कथम्? ‘तद्धितार्थोत्तरपदसमाहारे च’ तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्सङ्ख्ये एकार्थेन समस्येते । ‘सङ्ख्यापूर्वो द्विगुः’ सङ्ख्यापूर्वो द्विगुसञ्ज्ञः स्यादिति सूत्रेणात्र पञ्चदशानां कलानां समाहारस्य वाच्यत्वेन समाहारद्विगुसमासे ‘द्विगोः’ इति ङीपि पञ्चदशकलीनामिति भवेदित्यत आह- विशेषणसमास इति ।। तथा च ‘विशेषणं विशेष्येण बहुलम्’ भेदकं भेद्येन समस्यत इति सूत्रेण पञ्चदश च ताः कलाश्च पञ्चदशकलाः तासां पञ्चदशकलानामिति कर्मधारयसमास इत्यर्थः । पृथङ्निवृत्तिकथनमिति ।। कर्माणीत्यनेन कर्मणामिति शेषः ।
गमनमुक्त्वा एकीभावकथनमिति गमनैकीभावशब्दप्रयोगाभ्यां सूचितं दूषणमाह- किञ्चेति ।। ननु कर्मणामेकीभावकथनं व्यर्थं स्यादित्येव वक्तव्यम् । विज्ञानात्मनश्चेति व्यर्थं प्रकृतानुपयोगादित्यतो विज्ञानात्म-नश्चेति पदप्रयोगसूचितं दूषणमाह-अपि चेति ।। विज्ञानात्मनश्चेत्यनेनैव सूचितं दूषणान्तरमाह-अथ वेति ।। सूचयतीति ।। कर्माण्येकीभवन्तीत्यस्य ज्ञानेन निवृत्त्यभिप्रायकत्वे विज्ञानात्मनोऽपि निवृत्तिप्रसङ्गादिति दूषणं स्फुटत्वादनुक्तमिति प्रागुक्तम् । इदानी तु विज्ञानात्मनश्चेत्यनेन सूचितमित्यर्थः । तदर्थमिति ।। एतद्दोष-सूचनार्थमित्यर्थः । विरुद्धार्थमिति ।। विज्ञानात्मनोऽपि निवृत्तिप्राप्त्या विरुद्धार्थकं स्यादित्यर्थः । तथाऽ-त्रेति ।। कर्मणामपि कलात्वेन प्राणादिपञ्चदशकलासाम्येऽपि पञ्चदशकलानां गता इति शब्देन, कर्मणां त्वेकी-भवन्तीति शब्दान्तरेण निवृत्तिकथनमयुक्तमित्यर्थः । ननु भवत्पक्षेऽपि कर्मणः कलात्वात् पञ्चदशकलाभ्यः पृथगुक्तौ प्रयोजनाभाव एवेति साम्यमेवेत्यत आह- अस्मन्मते त्विति ।। उक्तमिति ।। आथर्वणभाष्य इत्यर्थः । प्रत्यवरमिति ।। अत्यन्तं नीचमित्यर्थः । समस्ततत्त्वाभिमानिदेवताभ्योऽत्यन्तं नीचमित्यर्थः । किं तत्कर्म जडं विवक्षितं? नेत्याह- पुष्कर इति ।। कर्माणीत्यत्र कर्मशब्देनोच्यत इत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
इत्यादीत्यादिपदेन पञ्चदश प्रतिष्ठा इत्यादिवाक्यशेषपरिग्रहः । मुक्तमतीनामपि भिन्नत्वेन ऐक्या-सम्भवात्कथं तदैक्यविषयकत्वमित्यतस्तदुक्तिमुपपादयति- विषयैक्यादिति ।। अनेके एके सम्पद्यन्ते एकी-भवन्तीति खलु एकीभवन्तीत्यस्यार्थः । अभूततद्भावार्थकच्विप्रत्ययप्रयोगात् । ततश्चात्र, यथा गङ्गायां घोष इत्यत्र गङ्गापदस्य प्रवाहरूपमुख्यार्थेन नार्थत्वम् । तथा सति प्रवाहस्य घोषानाधारत्वेन बाधितार्थत्वप्रसङ्गात् । तथा एकशब्दस्य नैकत्वविशिष्टरूपमुख्यार्थेनार्थवत्त्वं सम्भवति । मुक्तेः पूर्वमिवानन्तरमपि एकत्वविशिष्टत्व-सम्पत्त्यभावेन अनेके एके सम्पद्यन्त इति अभूततद्भावार्थकच्विप्रत्ययार्थस्य बाधितत्वात् । नापि गङ्गायामित्यत्र मुख्यार्थसम्बन्धितीररूपलक्ष्यार्थेनेव एकशब्दमुख्यार्थभूतैकत्वविशिष्टवस्तुसम्बन्धिना मतिरूपलक्ष्यार्थेन । तीरस्य घोषाधिकरणत्वसम्भवेन बाधाभावात् लक्ष्यार्थेन तत्र अर्थवत्त्वसम्भवेऽपि प्रकृते मुक्तेः पूर्वमैकविषयमत्यरूपाणां तेषां मुक्त्यनन्तरमप्येकविषयमतित्वसम्पत्त्यभावेनाभूततद्भावरूपच्विप्रत्ययार्थबाधतादवस्थ्यात् । किन्तु एकशब्द-लक्ष्यार्थभूतमतिसम्बन्धिमतिमद्रूपो यः पुनस्तेनैव शब्देन लक्ष्यमाणोऽर्थः, तेनैव मुक्तेः पूर्वं भगवता भिन्न-(पां.टि.) विषयमतिमतां तेषां मुक्त्यनन्तरं भगवता एकविषयमतिमत्त्वसम्पत्तिसद्भावेन अभूततद्भावार्थक-च्विप्रत्यस्याबाधेन तत्स्वारस्यसम्भवादिति भावः । अस्मिन् पक्षे लक्षितलक्षणाश्रयणं कर्तव्यं भवतीत्यपरि-तोषाल्लक्षणामात्रमाश्रित्य पक्षान्तरं मूले उपन्यस्तमिति भावेन स्वयं तदनूद्य व्याख्याति- स्थानेत्यादिना ।।
अयं भावः । नैकशब्दस्य एकत्वविशिष्टरूपमुख्यार्थेनार्थवत्त्वं भवति । मुक्तेः पूर्वमिवानन्तरमप्येकत्व-विशिष्टत्वसम्पत्त्यभावेन अनेके एके सम्पद्यन्त इत्यभूततद्भावार्थकच्विप्रत्ययस्य बाधितत्वप्रसङ्गात् । किन्तु यथा तत्र गङ्गापदस्य मुख्यार्थसम्बन्धितीररूपलक्ष्यार्थेनार्थवत्त्वं तथा एकशब्दस्यापि मुख्यार्थभूतैकत्वविशिष्टस्थान-सम्बन्धिनिवासरूपलक्ष्यार्थेनार्थवत्त्वम् । व्यक्तिस्थानापेक्षया मुक्तेः प्रागितस्ततः स्थितानां तेषां मुक्त्यनन्तरं भगवद्व्यक्तिस्थाननिवाससद्भावेन अनेके एके सम्पद्यन्ते इत्यभूततद्भावार्थकच्विप्रत्ययस्य अबाधादिति । ‘गता मुक्ताः प्राणादिपञ्चदशकलारूपदेवता अन्ये च देवाः सर्वे प्रतिदेवतासु देवताप्रतिबिम्बभूतासु प्रजासु प्रति प्रति स्थिताः कर्माणि विज्ञानमयो जीवश्च परमात्मनि प्रविशन्ति’ इत्याथर्वणभाष्यं मनसि निधाय ‘गताः कलाः’ इत्येतच्छ्रुत्यर्थमाह- ततश्चायमर्थ इति ।। पूर्वपक्ष्युत्प्रेक्षितार्थे गता गता इत्यध्याहारप्रसङ्गान्न तथाऽर्थः, किन्तु अन्यथेति तं दर्शयति- गता मुक्ता इत्यादिना ।। तत्र गता इत्यस्य व्याख्यानम्- मुक्ता इति ।।
‘प्रतिबिम्बो हरेः प्राणस्तस्य चान्याः कलाः क्रमात् ।
कलानां देवता अन्या देवतानां नरा अपि ।
तस्मात् सर्वेऽपि मुक्तेषु नरेष्वपि नियामकाः ।
तिष्ठन्ति नात्र सन्देहः परमात्मनि चाखिलाः ।।’
इत्याथर्वणभाष्योदाहृतमुक्तविवेकोक्तेरिति भावः । अत्रायं निष्कर्षः । कलादेवादिदेवाः संसारिणः प्रतिष्ठा-नियामकाः सन्तस्तन्मुक्त्यवसरे मुक्ता मुक्तस्यापि नियामकास्तिष्ठन्ति इति । स्वतन्त्रप्रयोगत्वेन प्रयोजनानपेक्ष-त्वात् न स्वायत्तन्यायविरोध इति भावेन लक्षितलक्षणया तादृशप्रयोगमुदाहरति- प्राग्विमतय इति ।। द्वितीय-पक्षेऽपि स्वतन्त्रप्रयोगत्वेन प्रयोजनानपेक्षत्वान्न स्वायत्तन्यायविरोध इति भावेन तादृशप्रयोगमुदाहरति- अह्नी-ति ।। स्वरूपैक्यार्थपरित्यागेन कुतोऽर्थान्तरपरत्वमाश्रीयत इत्यतः, च्विप्रत्ययस्य अमुख्यार्थतापत्तेरेव तत्र बाधकत्वेन तत्परित्यागेनेदमर्थान्तराश्रयणमिति भावेनाऽह- च्विप्रत्यय इति ।। एवं सत्येवेत्यर्थः । एकविषय-मतिमत्त्वस्य श्वेतद्वीपाद्येकस्थानस्थत्वस्य च प्राङ् मुक्तेरविद्यमानस्यैव मुक्त्यनन्तरं भवताऽङ्गीकारादिति भावः । एकीभवन्तीति मुक्तेश्वराभेदप्रतिपादकवाक्यव्याख्यानन्यायं तद्भेदाद्यभावप्रतिपादकवाक्येष्वतिदिशति- विभेदजनक इत्यादिना ।। एवमेवेति ।। यथा एकीभवन्तीति श्रौत एकीभावशब्दो मत्यैक्यस्थानैक्यपरतया व्याख्यात एवमुदाहृतवचनगतभेदनास्तित्वशब्दोऽपि मत्यैक्यस्थानैक्यपरतया व्यख्यातव्य इत्यर्थः ।
ननु भेदाभावप्रतिपादकवाक्येषु तदभेदप्रतिपादकवाक्यव्याख्यानातिदेशो न युक्तः । अतिदेशप्रयोजकीभूताभ्य-(पां.टि.) धिकाशङ्कायां सत्यामेव युक्तः । तदधीनतायाः ‘अतिदेशो हि तादृशः’ इत्यादिना अतिदेशस्य निर्णीतत्वात् । विभेदजनक इत्यादिवाक्ये एकीभवन्तीति वचनापेक्षया अभ्यधिकाशङ्काप्रापकाभावात् तद्विषये अतिदेशानुपपत्तेरित्यतः भेदासत्त्वोक्तेरेव तद्वाक्यगताया अभ्यधिकाशङ्काप्रापकत्वेन तच्छङ्कासम्भवाद्युक्त एव उक्तव्याख्यानातिदेश इति भावेन शङ्काप्रापकमन्यथाव्याख्यानेन विघटयति- असन्तमभद्रमित्यर्थ इति ।। असच्छब्दस्यानेकार्थतया अविद्यमानत्वमात्रार्थत्वाभावेन नोक्तशङ्काप्रापकत्वमिति भावः । मृत्योः संहर्तु-रिति ।। अनेन मारयतीति मृत्युरिति मृत्युशब्दो व्याख्यातो भवति । कामेन मे काम इति भावे घञ् इति भावेन कामशब्दार्थमाह- इच्छयेति ।। हृदयादिति श्रुतौ ल्यब्लोपनिमित्ता पञ्चमीति भावेन तदर्थमाह- हृदयमित्या-दिना ।। ‘सुपां सुलुक्’ इति स्मरणाद् अमीषामिति बहुवचनमेकवचनार्थ इति भावेनाऽह- अमीषाममु-ष्येति ।। श्रुतौ यत्र येनेति यच्छब्दद्वयश्रवणात् तच्छब्दस्य च एकत्वादनन्वयमाशङ्क्य यथावद्व्याचष्टे- यत्र लोक इति ।। पूर्वत्रान्वय इति ।। येन देवयानेन पथा आक्रमन्ति स देवयानः पन्थाः सत्येन वितत इति पूर्वत्रान्वय इत्यर्थः । तत्पक्षेऽपीत्यपिब्दार्थमाह- अस्मत्पक्ष इति ।।
ननु कर्मशब्दो न जडपरः, किन्तु अभिमान्यधिकरणन्यायेन तदभिमानिदेवतापरः । तस्याश्च चेतनत्वाद् विज्ञानमयस्येव ब्रह्मणा स्वरूपैक्यमेव किं न स्यादित्यतो भवेदेतदेवम्, यदि त्वया कर्मशब्दस्य देवतापरत्वमङ्गीकृतं स्यात् । न च तदस्तीत्याह- कर्मशब्देन हीति ।। अस्तु कर्मणां जडत्वं, तथाऽपि ब्रह्मणा स्वरूपैक्यमङ्गीकृतमिति किं न स्यादित्यतो विरुद्धधर्माधिकरणत्वात् न तदिति भावेन विरुद्धधर्माधिकरणतामुपदर्शयन् फलितं दूषणमाह-अत इति ।। नोक्तेति ।। नापसिद्धान्त इत्यर्थः । प्रसङ्गादिति ।। एकीभावशब्दस्य निवृत्त्यर्थत्वेन स्वरूपैक्यार्थ-त्वाभावाद् विज्ञानात्मनोऽपि स्वरूपैक्याभावप्राप्त्याऽपसिद्धान्त एवेति भावः । ननु एकीभावशब्दस्य कर्मांशे निवृत्त्यर्थत्वस्य विज्ञानमयांशे च स्वरूपैक्यार्थत्वस्याङ्गीकारेण सर्वत्र निवृत्त्यर्थत्वस्य स्वरूपैक्यार्थत्वस्य वा अनङ्गीकारान्नापसिद्धान्तद्वयमपीत्यतो भवेदेतदेवं यदि कर्मांशे निवृत्त्यर्थत्वं विज्ञानमयांशे च स्वरूपैक्यार्थत्वमिति युक्तं स्यात् । न च तद्युज्यते । सकृत् प्रयुक्तशब्दस्यानेकार्थताकल्पनस्य ‘अन्यायश्चानेकार्थत्वम्’ इति न्याय-विरुद्धत्वादित्याशयेनाऽह- न हीति ।। तर्हि उक्तशङ्कापरिहाराय अस्यैव दोषस्य वक्तव्यत्वात् तत्परित्यागेन दूषणान्तरानुसरणं निर्निबन्धनमित्यतः उक्तदोषस्य सम्भवेऽपि स्पष्टत्वाद् विनाऽप्युक्तिं शिष्यैरेव तस्य ज्ञातुं शक्यत्वात् तत्परित्यागेन दूषणान्तरानुसरणं ग्रन्थकारस्य युक्तमेवेत्याशयेनाऽह- स्फुटत्वादनुक्त्वेति ।। विशेषणसमास इति ।। पञ्चदश च ताः कलाश्चेति ‘विशेषणं विशेष्येण बहुलम्’ इत्यनेन विशेषणसमास इत्यर्थः । ‘सङ्ख्यापूर्वो द्विगुः’ इति स्मरणात् संख्यापूर्वकत्वेन द्विगुरेवात्र समासः किं न स्यादित्यत आह- न द्विगुरिति ।। पञ्चदशानां कलानां समाहार इति द्विगुर्नेत्यर्थः । अन्यथा ‘द्विगोः’ इत्यनेन ङीपि पञ्चदशकल्या इति भवेदिति भावः । यदत्र वक्तव्यं तत्सर्वं पञ्चस्कन्धशब्दव्युत्पादनावसरे प्रागेवोक्तमिति तत्रैव प्रतिपत्तव्यमिति नेहोच्यते । पदार्थमुक्त्वा वाक्यार्थमाह- यदीति ।। कर्मणोऽपि कलात्वादिति ।। अनेन समत्वादित्येतदावृत्त्या (पां.टि.) कलात्वेन समत्वादित्यपि व्याख्यातं भवति । यदुक्तमिति ।। अस्माभिरिति शेषः । तदर्थ-मिति ।। विज्ञानात्मनोऽपि निवृत्तिः स्यादिति दूषणस्य मूलारूढत्वसिद्ध्यर्थमित्यर्थः । कथमस्मिन् पक्षे व्यर्थमिति वैयर्थ्योक्तिः सङ्गच्छत इत्यतः तामुक्ताननुगुणतया व्याख्याति- विरुद्धार्थतयेति ।। आद्यानुपपत्तिपरिहारं शङ्कते- नन्विति ।। तर्हि उक्तयुक्त्या त्वत्पक्षेऽपि पृथगुक्तिर्व्यर्थेति समानो दोष इत्यतस्तं परिहरति- अस्मत्पक्षे त्विति ।। किं तत् कुत्र चोक्तमित्यत आह- कलाभ्य इति ।। प्रत्यवरमिति ।। अत्यन्तमवरमित्यर्थः । अन्यथा पञ्चदशकलाभिमानिदेवतानामपि तारतम्यवत्त्वात्सहोक्त्यभावप्रसङ्गात् । तथा च कर्माभिमानिदेवताया इतरदेवतापेक्षया अत्यन्तावरत्वज्ञापनार्था पृथगुक्तिरिति भावः ।
लघुप्रभा
(व्या.टि.)
पुनः प्रत्यवतिष्ठते- नन्विति ।। स्फुटमेवेति ।। नन्वत्र सूत्रभाष्यविरोधः । तथा हि-‘भोक्त्रापत्तेः’ इति सूत्रे ‘मुक्तजीवस्य परापत्तिरुच्यते । अतस्तयोरविभागः’ इति परापत्तेर्मिश्रीभावरूपाया वाच्यत्वेनाविभाग-स्याऽर्थिकत्वेन चोक्तेरिति चेन्न । अस्यां हि श्रुतौ ‘परमापद्य तत्रैकीभवति’ इति परापत्तिः पूर्वं, ततः परम् अविभाग एकीभावः श्रूयत इति मुक्त्यनन्तरस्यैकीभावस्य न प्रत्यावृत्तिः । मुक्तेरपुनरावृत्तिरूपत्वादिति सूत्रभाष्याशयः नाविभाग आर्थिक इति । अत एव ‘अतः पूर्वमपि स एव’ इत्युत्तरभाष्यम् । अत एव सिद्धान्तभाष्ये एकीभवतीत्यस्यैक्यव्यपदेशत्वमुपेत्य ‘यथा लोके उदके उदकान्तरस्यैकीभावव्यहारेऽप्यन्तर्भेदोऽस्त्येवैवं स्यादत्रापि’ इति रूढोपचारत्वमुक्तम् । तत्त्वप्रकाशिकायान्तु ‘भोक्त्रापत्तेः’ इति सूत्रे ‘भावनिर्देशाभावेऽपि परापत्तिः’ इति भाष्यं स्वभावपरित्यागेन परभावापत्तिरित्यभिप्रेत्य तिलेषु तैलमितिवत् परे इत्यभिव्यापिकाधि-करणसप्तमीमाश्रित्यैकीभावविवक्षयैव परमात्मत्वप्राप्तिः श्रूयत इति व्याख्यातम् । सुधायां च ‘भोक्तुर्जीवस्य मोक्षे ब्रह्मत्वापत्तिश्रवणात्’ इति व्याख्यातम् । अत्र च सप्तम्यर्थं वक्ष्यति ‘परमात्मानं प्राप्य’ इति । देहारम्भका इति ।। यजुर्वेदे ‘षोडशकलो वै पुरुषः’ इति षोडशकलानां देहारम्भकत्वोक्तेः । प्रतिष्ठाशब्दस्य प्रतिष्ठीयन्ते तास्विति व्युत्पत्तिमुपेत्य व्याचष्टे- स्वकारणानीति ।। प्रति प्रति गता देवताः प्रतिदेवता इत्यभिप्रेत्याऽह- स्वमूलरूपेष्विति ।। कर्माणीति सामान्यं विशेषे उपसंहरति-निवृत्तानीति ।। विज्ञानमयपदं व्याचष्टे-विद्वा-निति ।। मूले इत्यादाविति सप्तम्या अन्वयाप्रतीतेराह- अत्रेति ।। मूल इत्यर्थः । ननु मतीनां प्रतिमन्तृभिन्नत्वात् कथमैक्यम् । न चोपचरितम् । शक्यसम्बन्धाभावात् । सर्वेषामेतदाश्रयत्वाभावेन वाक्यानिर्वाहाच्च । अत एव स्थानैक्यं चेत्यप्ययुक्तमिति चेत् । विषयेषु स्वरूपैक्यं शक्यतावच्छेदकमस्ति तद्विषयकत्वान्मतीनामेक-शब्दलक्ष्यत्वम् । तथाऽपि सर्वशब्दसामानाधिकरण्यायोग इति मतिमत्सु लक्षितलक्षणा । स्थानैक्यं स्थानिषूपचर्यत इति तत्र लक्षणामात्रमित्याशयेन व्याचष्टे- विषयैक्यादित्यादिना ।।
अत्र एकेतिप्रातिपदिकबोध्यतावच्छेदकमेव च्विप्रत्ययार्थः । तस्याभूतत्वमपि पूर्वमविद्यमानत्वरूपं भासते । तदपि प्रत्ययार्थः । बोध्यतावच्छेदकस्यानुप्रयुज्यमानस्यार्थेऽन्वयः । तस्य चाऽख्यातार्थे आश्रयेऽन्वयः । तस्य च प्रथमान्तार्थेऽभेदेनान्वयः । तथा च पूर्वमविद्यमानैकविषयकमतिमत्त्वभवनाश्रयाः सर्वे, तथा तादृशैकस्थानक-(व्या.टि.) त्वाश्रयाः सर्व इति बोधः । लक्षितलक्षणा नाम लक्षितस्य शक्यसम्बन्धिनः सम्बन्धः परम्परासम्बन्ध इति यावत् । न तु लक्षितस्य लक्षणावृत्तिरिति वा लक्षिते लक्षणावृत्तिरिति वा । अर्थस्य लक्षितत्वस्थले तस्य वृत्तेरेवायोगात् । पदस्य लक्षितस्य लक्षणाया अदर्शनात् । द्विरेफपदस्थले भ्रमरपदस्य शक्तेरेव सत्त्वाच्च । लक्षित-स्यान्वयाप्रतियोगित्वेन तल्लक्षितस्य त्वेतत्पदवृत्त्यविषयत्वेन श्रुतपदस्यान्वयप्रतियोग्यसमर्पकत्वापाताच्च । लक्षित-लक्षणेत्यत्र यदा कदाचित्पदान्तरलक्षितत्वस्य अधुना स्वलक्षितत्वस्य वा लक्ष्यमात्रे सत्त्वेन लक्षणामात्रस्य लक्षितलक्षणात्वापातात् । अधुना पदान्तरलक्षितत्वस्य, वैयर्थ्येनादर्शनेन चायोगात् । तस्मान्मत्यैक्यस्य विवक्षायां लक्षितलक्षणा । स्थानैक्यविवक्षायां लक्षणा । केचित्तु अर्थस्यैव लक्ष्यत्वे लक्षकत्वमिति मतमाश्रित्य टीका प्रवृत्तेत्याहुः । तन्न । अयुक्तमताश्रयणायोगात् । श्रुतपदस्यान्वयप्रतियोग्यसमर्पकत्वापाताच्च । एकपदस्य लक्षितलक्षणासम्भवाच्च । यच्चोक्तं तैः- अत्र लक्षकं नैकपदम् । सिद्धान्ते मत्यैक्याङ्गीकारेणैक्यरूपमुख्यार्थापरि-त्यागात् । अतः सर्वपदमेवात्र लक्षकम् । एवं सति सर्वे मतिविषया एकीभवन्तीत्यर्थ इति । तदपि न । मत्यैक्यस्यैक-विषयकत्वरूपत्वेन मुख्यत्वाभावात् । एकविषयकमतिमत्त्वस्योक्तरीत्या बोधाच्च । सर्वशब्दार्थस्य सर्वत्वस्य विषयेष्वबाधाच्च । सर्वनाम्नो बुद्धिस्थपरामर्शकत्वेन लक्षणाऽयोगाच्च । विषयाणामैक्यस्य सदातनत्वेन च्वि-प्रत्ययायोगाच्च । ‘कर्माणि विज्ञानमयश्च’ इत्यस्यानन्वयापाताच्च । स्थानैक्ये सर्वपदलक्षणाऽयोगाच्च । ‘स्वातन्त्र्ये च विशिष्टत्वे’ इत्याद्यनुव्याख्याविरोधाच्च । ‘स्वरूपैक्याङ्गीकारे’ इति वक्ष्यमाणमूलविरोधाच्च । ‘अन्यथा’ इति वक्ष्यमाणमूलेन ‘स्वरूपैक्ये विवक्षिते’ इति तट्टीकया च विरोधाच्चेत्यलं दुर्बलविशसनेन । अधिकं तु गुरु-प्रभायाम् ।
पक्षान्तरं निर्दिशति- स्थानैक्यं वेति ।। शक्यसम्बन्धं दर्शयति- स्थानगतमिति ।। कथमिति ।। च्विप्रत्यय इति शेषः । सर्वदा भूतस्याभूतभावाभावेन तदयोगादिति भावः । मूले क्षीराब्धीति ।। क्षीराण्याप इव क्षीरापः, ता धीयन्तेऽत्रेति विग्रहे, ‘कर्मण्यधिकरणे च’ (घोःकिः) कर्मण्युपपदे अधिकरणोपाधौ घुसंज्ञकप्रकृतेः किप्रत्यय इत्यर्थः । ‘तेन रक्तं रागात्’ इत्यादाविव बुद्धिस्थपरामर्शोऽयमित्युपेत्याऽह- तद्रूपमीश्वररूपमिति ।। अथ वा ‘ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ इति गीतोक्तेः तदिति ब्रह्मनाम । ‘न प्रेत्यसंज्ञाऽस्ति’ इत्यादौ प्रोपसृष्टस्येणो मुक्त्यर्थत्वात् तत्पर्यायगमेरपि स एवार्थ इत्युपेत्य व्याचष्टे- गता मुक्ता इति ।। प्रतिरूपमिति-वत्प्रतिदेवताशब्दस्तत्प्रतिबिम्बवाचीत्याह- प्रतिबिम्बेति ।। प्रतिपूर्वात्तिष्ठतेः ‘आतश्चोपसर्गे’ इति कर्तरि कप्रत्यय इति भावः । पर इत्यभिव्यापिकाधिकरणसप्तमीत्युपेत्य व्याचष्टे- प्राप्येति ।। अधिकरणान्तरत्वेऽपि कारकस्य क्रियापेक्षितत्वात्तामाह- स्थिता इति ।। च्विप्रत्ययार्थं दर्शयति- प्राग्भिन्नमतय इति ।। तन्निदर्शयति- प्रा-गिति ।। पक्षान्तरमाह- अथ वेति ।। तच्छब्दस्य प्रसिद्धार्थत्वमुपेत्याऽह- व्यक्तिस्थानेति ।। अन्यत्राव्यक्तो व्यक्तलिङ्गः तत्र तु व्यक्ता एवेति प्रसिद्धिः । स्वपक्षे प्रत्ययानुगुण्यमाह- च्विप्रत्ययोऽपीति ।। मत्यैक्यस्थानैक्य-योरभूतभावित्वादिति भावः ।(व्या.टि.) उक्तातिदेशेनान्यान्यपि वचनानि व्याकरोति- विभेदजनक इति ।। कथं मत्यैक्यपरत्वमित्यतो मतिभेदाभावप्रतिपादनमुखेनेत्याशयेन असत्पदं व्याचष्टे- अभद्रमिति ।। अत्र भेदो विरोधः ‘मित्रभेदं प्रकुर्वाणः’ इत्यादिप्रयोगात् । व्यत्ययेन लोडर्थे लुङिति भावेन व्याचष्टे- आगच्छत्विति ।। हृदयादिति ल्यब्लोपनिमित्ता पञ्चमी इति व्याख्याति- सङ्कल्पमनुसृत्येति ।। सुपां सुपो भवन्तीति एकवचस्य बहुवचनमित्युपेत्याऽह- अमुष्येति ।। अत्रास्मच्छब्दार्थाप्रतीतेराह- मुमुक्षुणेति ।। ननु ‘अविभागो वचनात्’ इति ‘सत्याः सत्यकामाः’ इति श्रुतमुक्तसत्यकामत्वनिर्वचनेन ‘कामाहतिः कुतोऽन्यस्य’ इत्यमुक्तस्य कामहतिवचनेन कथमिदानी-मित्युक्तिरित्यतो गौणमुक्त्यपेक्षयेत्याह- जीवन्मुक्तीति ।। अत एव प्राय इत्युक्तमित्यवधेयम् । श्रुतिद्वय-मिति ।। सालोक्यसामीप्यरूपमुक्तिद्वयप्रतिपादकं श्रुतिद्वयमित्यर्थः । यथाश्रुतपाठे आक्रमन्तीति क्रियापेक्षित-कर्माप्रतीतेर्यत्रेति यच्छब्दपरामृष्टार्थाप्रतीतेरर्थक्रमानुरोधेन व्याचष्टे- यत्र तं लोकमिति ।। सत्यस्येत्यनूद्य परमेश्वरस्येति व्याख्यातम् । ‘सत्यः सत्यपराक्रमः’ इति विष्णुसहस्रनामसु पाठादिति भावः ।
एवमेकीभाववाक्ये लक्षणाऽऽश्रिता । अधुनाऽस्य ‘पूर्वायोगे परग्रहः’ इति न्यायविषयतां दर्शयितुं लक्षणाश्रयणानौचिती शङ्कते- नन्वस्येति ।। आन्तरेति ।। तस्याः आद्यस्य व्याहतित्वेन प्रबलत्वात् प्राथम्यमिति भावः । स्वरूपपदस्वारस्यमाह- साक्षादिति ।। रूपान्तरेणैक्यं स्वरूपे उपचर्यत इति गौणमिति भावः । अभिप्राय इति ।। अभिप्रेयत इति अभिप्रायः कर्मणि घञ् । तात्पर्यविषयीभूत इति यावत् । मूले इतिकरणं प्रतीकार्थम् । समग्रं वाक्यं न युज्यते, अर्थानुपपत्तेरिति हृदयम् । तां दर्शयति- विज्ञानमयस्याऽत्मन इवेति ।। वैधर्म्यदृष्टान्तः। चितश्चिदैक्यसम्भवादिति भावः । ननु कर्मशब्देन तद्देवताङ्गीकारे कुतो न युज्यत इत्यत आह- कर्मशब्देनेति ।। अर्थान्तरमाशङ्कते- नन्विति ।। निवृत्तिप्रसङ्गादिति ।। एकीभवन्तीत्यस्य निवृत्तिमात्रबोधकत्वादिति भावः। अर्थद्वयकल्पनां प्रतिवक्ति- न हीति ।। ‘अन्यायश्चानेकार्थत्वम्’ इति न्ययविरोधादिति हेरर्थः । ननु पञ्चदशानां कलानां समाहार इत्यर्थे ‘तद्धितार्थोत्तरपदसमाहारे च’ इति समासे ‘सङ्ख्यापूर्वो द्विगुः’ इति द्विगुसंज्ञायाम्, ‘द्विगोः’ इति ङीपि ‘द्विगुरेकवचनम्’ इत्येकवचने च पञ्चदशकल्या इति भाव्यमिति कथमित्थमकथीत्यत आह- विशेषणसमास इति ।। न द्विगुरिति ।। ततो न ङीबेकवचने इति भावः । मूले उक्त्वेति क्त्वाप्रत्यय-सूचितयुक्तिमाह- पृथगिति ।। वाक्यभेदेनेत्यर्थः । मूले गता इत्येकीभवन्तीति पदद्वयानुवादलब्धयुक्तिं व्यक्तीकरोति- किञ्चेति ।। मूले विज्ञानमयश्चेति चशब्दसूचितामपि वक्ति- अपि चेति ।। षष्ठ्यन्तानुवाद-स्वारस्यमाह- अथ वेति ।। विरुद्धार्थमिति ।। ‘आनन्त्याय कल्पते’ इति चित आनन्त्यश्रवणेन निवृत्त्य-योगादिति भावः । उक्तमिति ।। आथर्वणभाष्य इति शेषः ।