अत आकाशगुणे ..
शङ्कान्तरपरिहारपूर्वकं वर्णादिनित्यत्वोपसंहारः
मूलम्
- अत आकाशगुणे शब्दे व्यज्यमाना वर्णादयस्तत्क्रमात्मको वेदश्च नित्य एवेति सिद्धम् ।
तत्त्वमञ्जरी
एवं चेत् कथमस्मदादीनामुच्चारणकाल एव वर्णपदादीनां प्रतीतिरित्येतामाशङ्कां परिहरन्नुपसंहरति- अत आकाशेति ।। ताल्वोष्ठादिप्रयत्नेन जायमाने आकाशविशेषगुणे ध्वन्याख्ये शब्दे व्यज्यमाना वर्णादयः, न तूत्पद्यमानाः ।
टीका
एवमुपपादितमर्थं शङ्कान्तराणि परिहरन्नुपसंहरति- अत इति ।। अतः प्रत्यभिज्ञा-बलाद्वर्णादयो नित्या इति सिद्धम् । आदिशब्देन वर्णधर्मा गृह्यन्ते येऽनौपाधिकाः । अप्रमित-कर्तृकत्वादिबलाद्वेदश्च नित्य एवेति सिद्धम् । नित्यत्वस्य पृथग्विधत्वात् पृथगुपसंहारः ।
ननु नित्यत्वे वर्णानां कथं कदाचिदेवोपलब्धिः । नचेन्द्रियसन्निकर्षस्य कादाचित्कत्वादिति वाच्यम् । ‘तावती वाक्’ इति व्यापकत्वस्याभ्युपगतत्वेन सर्वदा श्रोत्रसन्निकृष्टत्वात् । अत्रैके ब्रुवते । स्तिमितेन वायुनाऽवष्टब्धं श्रोत्रं सन्निकृष्टमपि शब्दं नोपलम्भयति । वक्तुः कोष्ठ्यो वायुः प्रयत्नवदात्मसंयोगेन प्रेरितः प्रतिष्ठमान उरःप्रभृतीन्यष्टौ स्थानान्यभिहत्य श्रोतुः कर्णशष्कुली प्रविष्टः स्तिमितं वायुमपनयति ततो वर्णोपलब्धिरिति । अपरे तु कोष्ठ्यवायुसंयोग एव श्रोत्रसंस्कारो नापर इति । तदुभयमप्यसत् । वायुसंयोगानन्तरं सर्वदा सर्ववर्णोपलब्धिप्रसङ्गात् । उत्तरक्षण एव वायुविभागेन संयोगनाशान्नेति चेन्न । अप्रामाणिककल्पनाप्रसङ्गात् । सर्वोपलब्धेरनिवारणाच्च । अन्ये तु वायुगुणः शब्दो ध्वनिलक्षणो वायुना सह श्रोत्रं प्रविष्टो वर्णस्य व्यञ्जकः । तेन व्यक्तो वर्ण उपलभ्यत इति । एतदप्यसत् । वायुगुणत्वे शब्दस्य स्पार्शनग्राह्यत्वेन बधिराणामपि तदुपलब्धि-प्रसक्तेः । श्रोत्राग्राह्यस्य तद्ग्राह्यवर्णव्यञ्जकत्वानुपपत्तेश्च, व्यङ्ग्यव्यञ्जकयोरेकेन्द्रियग्राह्यत्वस्य घटप्रदीपादौ दर्शनात् । एकस्मिन् वर्णे व्यक्ते तत्रस्थाः सर्वेऽपि वर्णा व्यक्ता इति सर्वोपलब्धेरपरि-हाराच्च । किञ्च यो वर्णो देवदत्तश्रोत्रे व्यक्तः स एव यज्ञदत्तश्रोत्रसन्निकृष्ट इति दूरस्थेनापि तेनोपलभ्येतेत्यत उक्तम्- आकाशगुणे शब्द व्यज्यमाना इति ।।
इदमुक्तं भवति । वक्तृप्रयत्नप्रेरितो वायुः उरःप्रभृतिभिः स्थानैः संयुक्तः तत्स्थानसंयुक्ताकाशे ध्वनिलक्षणं शब्दमुत्पादयति । स च देशान्तरे प्रतिशब्दम् । यस्तु कर्णशष्कुल्यवच्छिन्नाकाशप्रदेशे समुत्पन्नस्तद्गुणो ध्वनिः, तस्मिन् व्यज्यमानो वर्णः श्रोत्रेण गृह्यते । ध्वनेश्चाऽशुतरविनाशित्वेन व्यञ्जकाभावान्न सर्वदोपलब्धिप्रसङ्गः । ते च ध्वनयः प्रतिनियता एव वर्णानां व्यञ्जका इति (अतो) न सर्ववर्णोपलब्धि(सर्वोपलब्धि)प्रसङ्गः । भूताकाशमेव श्रोत्रम् । तद्गुण एव ध्वनिः । तच्च स्वतः सावयवम् । अतः प्रदेशवर्ती ध्वनिस्तदवच्छिन्नमेव वर्णं व्यञ्जयतीति न सर्वेषामुपलब्धिः । समानेन्द्रियग्राह्याणां समानदेशकालधर्मापन्नानां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वं क्वापि नोपलब्धमिति चेन्न । गोत्वाश्वत्वादीनां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वस्य परैरङ्गीकृतत्वात् । गोत्वादीनां व्यक्ति-सर्वगतत्वेन समानदेशत्वं नास्तीति चेन्न । प्रत्यासत्तेरवर्जनीयत्वात् । समवायाभावस्य वर्णेष्वपि समत्वात् । किञ्च ब्राह्मणत्वद्रव्यत्वादीनां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वमङ्गीकृतमेव । रूपेण समानदेशस्यापि परिमाणस्य चतुष्टयसन्निकर्षोऽधिको व्यञ्जकः स्वीक्रियते । तथा क्षीरनीरपृथक्त्वादेः समानाभिहाराभावादिः । नच वर्णव्यतिरिक्तो ध्वनिर्नास्तीति वाच्यम् । दूराद्वर्णाग्रहणेऽपि ध्वनिग्रहणात् । नचैतत्सर्वमप्रामाणिकम् । प्रत्यभिज्ञाप्रामाण्यस्योपपादितत्वेन तद्बललब्धत्वात् । आगमाश्चात्र साक्षिणः सन्तीति ।
ननु वर्णव्यतिरिक्तो वेद एव नास्ति, स्फोटस्यानङ्गीकृतत्वात्, तत्कथं वेदश्चेति पृथगुच्यत इत्यत उक्तम्- तत्क्रमात्मक इति ।। विशिष्टक्रमवद्वर्णात्मकः । अवस्थाभेदात् पृथगुक्तिरि-त्याशयः ।
।। इति वर्णनित्यत्ववादः ।।
भावबोधः
श्रोत्रस्य संस्कार इति ।। पूर्वं प्रतिबन्धकीभूतस्तिमितवायुनिरासकत्वमेव कोष्ठ्यवायुसंयोगस्य, न संस्कारत्वमिति स्फुटो भेदः । वायुगुणत्व इति ।। वायुविशेषगुणत्व इत्यर्थः । तेन न वायुगतसंयोगादौ व्यभिचारः । श्रोत्राग्राह्यस्येति ।। वायुविशेषगुणत्वेन श्रोत्राग्राह्यत्वस्यापि सिद्धत्वादिति भावः । तस्मिन् व्यज्यमान इति ।। तस्मिन् ध्वनौ सति व्यज्यमान इत्यर्थो, न तु तस्मिन्निति सप्तम्या आधारार्थत्वमभ्युपेत्य कर्णशष्कुल्यवच्छिन्नाकाशग्रहणम् । ‘आकाशगुणे शब्दे’ इति मूलानुसारेण यच्छब्दार्थत्वेन च ध्वनेरेव ग्राह्य-त्वात् । तच्च स्वतः सावयवमिति ।। तथा च वर्णावच्छेदकप्रदेशस्यौपाधिकत्वाभावेन नानवस्थादिदोषाव-काश इति भावः । सर्वेषामिति ।। सर्वपुरुषाणामित्यर्थः । समानेन्द्रियग्राह्याणामिति ।। अत्र, समानदेश-कालधर्मापन्नानामित्यत्र धर्मपदस्य भावप्रत्ययान्तत्वेन समानदेशकालधर्मत्वापन्नानामित्यर्थ इति ज्ञातव्यम् । एतेन वर्णा न प्रतिनियतव्यञ्जकव्यङ्ग्याः समानेन्द्रियग्राह्यत्वे सति समानदेशकालधर्मत्वापन्नत्वात्, यथा घटगतपरिमाणैकत्वादीत्यनुमानमुक्तं भवति । अत्र साध्ये व्यञ्जकपदं विषयतत्सन्निकर्षव्यतिरिक्तज्ञानहेतु-परम् । तेन वर्णसाक्षात्कारे तयोः प्रतिनियतत्वेऽपि न बाधः । हेतौ भिन्नेन्द्रियग्राह्यरूपरसादौ व्यभिचारवारणाय सत्यन्तम् । रूपरूपत्वादौ व्यभिचारवारणाय समानदेशपदम् । रूपरूपध्वंसादौ व्यभिचारवारणाय समानकाल-पदम् । गोत्वाश्वत्वादीनामिति ।। जातेः सर्वगतत्वाङ्गीकारेण गोत्वादीनामश्वादौ विद्यमानत्वेन समान-देशत्वादिति भावः । प्रत्यासत्तेरिति ।। संयुक्तसमवायादिरूपाया इत्यर्थः । ननु समवायसम्बन्धेन समानदेशत्वं विवक्षितम् । तच्च भिन्नभिन्नव्यक्तिसमवेतगोत्वाश्वत्वादौ नास्तीत्यत आह- समवायाभावस्येति ।। क्षीरनीरादि-पृथक्त्वादेरिति ।। रूपेण समानदेशस्येति, अधिको व्यञ्जकः स्वीक्रियत इति चानुवर्तते । समानाभिहाराभावो नाम क्षीरादीनां नीरादिना मेलनाभावः ।
भावदीपः
आकाशगुण इत्यादेरुपयोगोक्तिः- शङ्कान्तराणि परिहरन्निति ।। विपरिणामेनान्वयमाह- नित्या इति ।। वर्णधर्मा इति ।। ह्रस्वत्वदैर्घ्यादयः । तारत्वमन्द्रत्वादेरपि तथात्वप्राप्तेराह- येऽनौपाधिका इति ।। ते तु ध्वन्याद्युपाधिका इति भावः । अतःशब्दार्थं प्रकारान्तरेणाऽह- अप्रमितकर्तृकत्वादीति ।। श्रुतत्वदृष्टत्वा-द्युक्त्यन्यथाऽनुपपत्त्यादिरादिशब्दार्थः । पृथग्विधत्वादिति ।। कूटस्थत्व-सदृशानुपूर्वीकत्वरूपत्वादित्यर्थः । तावती वागितीति ।। वाक्शब्देनात्र वर्णोऽभिमत इति भावः । यावद्ब्रह्म विष्ठितमिति पूर्वशेषः । प्रतिष्ठमान इति ।। निर्गच्छन्नित्यर्थः । अष्टौ स्थानानीति ।। ‘अकुहविसर्जनीयानां कण्ठः’ इत्यादिशिक्षाग्रन्थोक्तकण्ठ-ताल्वाद्यष्टस्थानानीत्यर्थः । सर्वोपलब्धेरिति ।। सर्ववर्णोपलब्धेरित्यर्थः । श्रोत्राग्राह्यस्येति ।। वायुगुणत्वे श्रोत्राग्राह्यत्वस्यावर्जनीयत्वादिति भावः । तद्गुण इति । आकाशगुणः । नन्वथापि किञ्चेत्यादिना प्रागुक्तदिशा सर्वेषां पुंसामुपलम्भः स्यादित्यत आह- भूताकाशमेवेति ।। तच्चेति ।। भूताकाशम् । स्वत इति ।। औपाधि-कत्वेऽनवस्थाद्यापत्तेरिति भावः । समानदेशेति ।। समानपदं प्रत्येकमन्वेति । समानधर्मत्वं चात्र शब्दत्वादिवर्णानां ध्येयम् । गोत्वाश्वत्वादीनां सर्वपदार्थगतत्वमुपेत्याऽह- प्रतिनियतेति ।। गोत्वस्य सास्नादिमत्त्वधर्मव्यङ्ग्यत्वम्, अश्वत्वस्यैकशफत्वे सति केसरवत्त्वरूपधर्मव्यङ्ग्यत्वमित्यादिरूपेणेत्यर्थः । व्यक्तिसर्वेति ।। स्वस्व-व्यक्तिष्वेव सर्वत्र सत्त्वेन विजातीये वस्तुन्यसत्त्वेन गोत्वादिधर्माणां समानदेशत्वं नास्तीत्यर्थः । प्रत्यासत्तेरि-ति ।। गोव्यक्त्योर्मध्ये विद्यमानेऽश्वपिण्डेऽसम्बध्य तदुभयत्र स्थितगोव्यक्त्योर्गोत्वस्य सम्बन्धायोगेन मध्ये विद्य-मानाश्वपिण्डे गोत्वप्रत्यासत्तेर्गोत्वसम्बन्धस्यावर्जनीयत्वात् । एवमश्वत्वादेरपि गोपिण्डादौ प्रत्यासत्तिर्ध्येया । तथाच गोत्वं गोपिण्ड एव व्यज्यते नाश्वे । अश्वत्वमप्यश्व एव व्यज्यते न गोपिण्ड इत्यर्थः ।
ननु गोत्वादेरश्वादौ प्रत्यासत्तित्वेऽपि स्वस्वव्यक्तिष्विव समवायसम्बन्धेनाश्वादौ सत्त्वाभावान्न समान-देशत्वमिति चेत्तर्हि गकारादिवर्णानां श्रोत्रदेशसम्बद्धत्वेऽपि न समवायसम्बन्धेन सम्बद्धत्वमस्तीति समवायेन समानदेशत्वं वर्णानां श्रोत्रदेशे नास्तीति समानदेशकालेत्यादिना प्रागुक्तं नास्मत्पक्षे बाधकमिति भावेनाऽह- समवायाभावस्येति ।। ननु गकारः श्रोत्रदेशे येन सम्बन्धेन सम्बद्धस्तेनैव ककारादयोऽपि । गोत्वादिकं तु गोऽश्वपिण्डादौ नैकसम्बन्धेनेति वैषम्यमित्यत आह- किञ्चेति ।। समवायसम्बन्धेनैवैकत्र समाविष्टानां ब्राह्मणत्वद्रव्यत्वादीनामित्यर्थः । शिखायज्ञोपवीतादिना ब्राह्मणत्वस्य, गुणाश्रयत्वादिना द्रव्यत्वादेर्व्यङ्ग्यत्वात् प्रतिनियतेत्युक्तम् । चतुष्टयेति ।। इन्द्रियावयवैरर्थावयवानामेकः, अर्थावयविनोऽन्यः । तथा इन्द्रियावयविन अर्थावयवैरेकः, अर्थावयविना इन्द्रियावयविनश्चान्य इत्येवं चतुष्टयेत्यर्थः । समानाभिहाराभावादिरिति ।। अन्योन्यमेलनाभावादिर्व्यञ्जकः स्वीक्रियते इत्यनुषङ्गः । नचैतत्सर्वमिति ।। वर्णानामनादिनित्यत्वं ध्वनि-व्यङ्ग्यत्वं प्रतिनियतव्यञ्जकव्यङ्ग्यत्वमित्यादिकमित्यर्थः । आगमाश्चात्रेति ।। ‘यावद्ब्रह्म विष्ठितं तावती वाक्’ ‘तत्क्रमेणैव तैर्वर्णैः’ इति, तथा तृतीयस्कन्धेऽश्वविंशेऽध्याये ‘नभः श्रोत्रं तु शब्दगम्’ इति, तथा तत्र तात्पर्ये च ‘शब्दो वर्णात्मको नित्यो ध्वनिराकाशसम्भवः । आकाश एव सूक्ष्मस्तु ध्वनिरित्येव शब्द्यते । स एव व्यज्यमानस्तु भवेत्कर्णैकगोचरः’ इत्यागमा इत्यर्थः । विशिष्टक्रमवदिति ।। इतरासाधारणक्रमोपेतवर्णात्मक इत्यर्थः । अवस्थेति ।। क्रमावस्थेत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
उपपादितमर्थमिति ।। वर्णनित्यत्वादिरूपमित्यर्थः । के ते नित्यभूता धर्मा इत्यत आह- येऽनौपाधिका इति ।। आकाशगुणभूतध्वनिव्यङ्ग्या अनौपाधिकाः स्वाभाविकास्तारत्वमन्द्रत्वाद्या ये धर्मास्ते आदिपदेन ग्राह्या इत्यर्थः । यथोक्तं न्यायामृते - ‘नागो नग इत्यादौ दीर्घत्वं वर्णगतं सत्यमेवार्थविशेषधीहेतुः, न ध्वनिगतं वर्णेष्वारोपितं हेतुः’ इत्यादि । यद्वा अनौपाधिका धर्मा गत्वादय इत्यर्थः । ननु वर्णा नित्या इत्युपसंहारेणैव क्रमविशेषविशिष्टवर्णात्मकवेदस्यापि नित्यत्वोपसंहारलाभाद् वेदश्चेति पृथगुपसंहारे किं निमित्त-मित्यत आह- नित्यत्वस्येति ।। वर्णानां कौटस्थ्यमेव नित्यत्वं, वेदानां क्रमव्यत्यासाभाव एवेति नित्यत्वस्य पृथग्विधत्वादित्यर्थः । इन्द्रियेति ।। श्रोत्रेन्द्रियेत्यर्थः । व्यापकत्वस्येत्यत्र वर्णानामिति वर्तते । अवष्टब्धं प्रतिबद्धम् । सन्निकृष्टमपि शब्दमिति ।। व्याप्ततया सन्निकृष्टमपि वर्णात्मकं शब्दमित्यर्थः । वक्तुरित्यतः पूर्वं यदेति शेषः । प्रतिष्ठमान ऊर्ध्वं गच्छन् । अभिहत्य सम्बध्य । श्रोत्रस्य संस्कार इति ।। पूर्वमते प्रतिबन्धकी-(श्री.टि.) भूतस्तिमितवायुनिरासकत्वमेव कोष्ठ्यवायुसंयोगस्य, न संस्कारकत्वमिति स्फुटो भेदः । सर्व-वर्णेति ।। प्रतिबन्धकाभावाच्छ्रोत्रस्य संस्कृतत्वाच्चेत्यर्थः । संयोगो वायुसंयोगः । तथा च न सर्वदोपलब्धिरिति भावः । सर्वोपलब्धेरिति ।। उत्तरक्षण एव वायुविभागेन संयोगनाशकल्पनया सर्वदोपलब्धिपरिहारेऽपि वायुसंयोगानन्तरं सर्ववर्णोपलब्धिप्रसङ्गो न निवारित एवेत्यर्थः । प्रतिबन्धकाभावाच्छ्रोत्रस्य संस्कृतत्वाच्चेति भावः । वायुगुणत्व इति ।। वायुविशेषगुणत्व इत्यर्थः । तथा च यो वायुविशेषगुणः स स्पार्शनग्राह्यो यथा स्पर्श इति व्याप्तेर्विवक्षितत्वात्, वायुगतसंयोगादिसामान्यगुणस्य स्पार्शनग्राह्यत्वाभावाद्व्यभिचार इति शङ्काऽ-नवकाश इति ज्ञातव्यम् । बधिराणामपीति ।। तेषामपि स्पार्शनेन्द्रियसद्भावेन तेन वायुगुणभूतशब्दोपलब्धिप्रसङ्ग इत्यर्थः । श्रोत्राग्राह्यस्येति ।। वायुविशेषगुणत्वेन स्पार्शनग्राह्यतया श्रोत्राग्राह्यत्वस्यापि सिद्धत्वादिति भावः। तद्ग्राह्येति ।। श्रोत्रग्राह्येत्यर्थः । कुतोऽनुपपत्तिरित्यत आह- व्यङ्ग्यव्यञ्जकयोरिति ।। तत्रस्था इति ।। एको वर्णो यत्प्रदेशेऽस्ति तत्प्रदेशस्था इत्यर्थः । तथा च वर्णानां व्याप्तत्वेनाप्रतिघद्रव्यतया चैकस्मिन् प्रदेशे सर्ववर्णसद्भा-वाद्व्यञ्जकीभूतस्य वायुसहितध्वनेः श्रोत्रसम्बद्धत्वेन सर्ववर्णानामुपलब्धेरपरिहारादिति भावः । स एवेति ।। व्याप्तत्वादेकत्वाच्चेत्यर्थः । तेन यज्ञदत्तेन । तथा च सर्वेषां पुरुषाणामुपलब्धिः स्यादिति भावः ।
।। यस्त्विति ।। वीचीतरङ्गन्यायेनेति भावः । तद्गुणः तदवच्छिन्नाकाशगुणः । तस्मिन् व्यज्यमान इति ।। तस्मिन् ध्वनौ सति कर्णशष्कुल्यवच्छिन्नाकाशप्रदेशे व्यज्यमान इत्यर्थः । किञ्च यो वर्ण इत्यादिनोक्तां सर्वेषां पुरुषाणामुपलब्धिं परिहरति- भूताकाशमेवेत्यादिना ।। तद्गुण एवेति ।। न वायुगुण इत्यर्थः । तथा च व्यङ्ग्यव्यञ्जकयोरेकेन्द्रियग्राह्यत्वप्राप्त्या वायुविशेषगुणत्वेन श्रोत्राग्राह्यस्य ध्वनेः कथं तद्ग्राह्यवर्णव्यञ्जकत्वमिति शङ्काऽनवकाश इति ध्येयम् । ननु भूताकाशस्य श्रोत्रत्वे तस्य सावयवत्वाभावेनैकत्वात् तस्यैकस्यैव सर्वश्रोत्रत्वे-नैकस्य वर्णस्य देवदत्तश्रोत्रसम्बद्धत्वे सर्वपुरुषश्रोत्रसम्बद्धत्वप्राप्त्या सर्वेषां पुरुषाणामुपलब्धिः स्यादेवेत्यत उक्तम्- तच्च सावयवमिति ।। तच्च भूताकाशम्, प्रदेशसहितं सांशमित्यर्थः । अतः श्रोत्रेन्द्रियाणां भेद इति भावः । तस्य प्रदेशस्यौपाधिकत्वे ‘उपाधिसम्बन्ध एकदेशेऽथ सर्वगः । एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः’ इत्युक्त-दोषपरिहारायोक्तम्- स्वत इति ।। स्वाभाविकभिन्नाभिन्नावयवोपेतं, न तु तदवयवानामौपाधिकत्वं, येनोक्तदोषः स्यादिति भावः । अत इति ।। सावयवत्वादित्यर्थः । तदवच्छिन्नमेवेति ।। तत्प्रदेशसम्बद्धमेवेत्यर्थः । न च तत्प्रदेशे सर्ववर्णानामपि सत्त्वादुपलब्धिप्रसङ्ग इति वाच्यम् । सर्ववर्णानां सत्त्वेऽपि तत्तद्व्यञ्जकध्वनीनां प्रतिनियतत्वेन युगपत्तेषामभावान्न सर्ववर्णोपलब्धिरित्युक्तमेवेति भावः । ते च ध्वनयः प्रतिनियता एव वर्णानां व्यञ्जका, अतो न सर्ववर्णोपलब्धिरित्युक्तमयुक्तमित्याशयेन शङ्कते- समानेन्द्रियग्राह्याणामित्यादिना ।। समानम् एकम् । समानदेशकालधर्मापन्नानामित्यस्य देशकालनिष्ठो यो धर्मः समानदेशकालत्वं तदापन्नत्वात् समानदेशकालोपेतत्वादित्यर्थः । तथा च वर्णा न प्रतिनियतव्यञ्जकव्यङ्ग्याः समानेन्द्रियग्राह्यत्वे सति समानदेश-कालापन्नत्वाद्घटगतपरिमाणपृथक्त्ववदित्यनुमानमुक्तं भवति ।
(श्री.टि.) अत्र व्यञ्जकपदं तत्तत्सन्निकर्षातिरिक्तव्यञ्जकपरम् । तेन तत्तद्वर्णसन्निकर्षरूपभिन्नव्यञ्जकव्यङ्ग्यत्व-स्यैव सत्त्वाद्बाध इति शङ्काऽनवकाशः । अत्र समानदेशकालापन्नयो रूपरसयोरालोकलालाजलरूपभिन्नव्यञ्जक-व्यङ्ग्ययोर्व्यभिचारवारणाय समानेन्द्रियग्राह्यत्वे सतीत्युक्तम् । तयोस्समानेन्द्रियग्राह्यत्वाभावान्न व्यभिचारः। समानेन्द्रियग्राह्यत्वे सति समानकालापन्नत्वादित्युक्ते रूपरूपत्वयोर्व्यभिचारः । महत्त्वसमानाधिकरणोद्भूतत्वस्य रूपव्यञ्जकत्वात्, ‘जातियोग्यतायां व्यक्तियोग्यत्वं तन्त्रम्’ इत्यभियुक्तवचनेन रूपत्वे व्यक्तियोग्यत्वस्य व्यञ्जकत्वेन साध्याभावात् । अत्रापि पूर्वोक्तालोकस्यैव रूपव्यञ्जकत्वोक्तौ तस्य रूपत्वसाधारण्येन साध्यस्यापि सत्त्वेन व्यभिचाराभावापत्तेः । अत उक्तमेव व्यञ्जकं रूपे वाच्यम् । एवं च तयोर्व्यभिचारपरिहाराय समानदेश-पदम् । रूपस्य घटे वृत्तेः, रूपत्वस्य च रूपे सत्त्वेन तयोः समानदेशत्वाभावात् । समानेन्द्रियग्राह्यत्वे सति समानदेशापन्नत्वाद् इत्युक्ते रूपतद्ध्वंसयोर्व्यभिचारः । तयोः समानेन्द्रियग्राह्यत्वात् । ध्वंसस्य प्रतियोगिसमवाय-देशवृत्तित्वेन समानदेशत्वाच्च । रूपे महत्त्वसमानाधिकरणोद्भूतत्वस्य व्यञ्जकत्वात् । ध्वंसयोग्यतायां प्रतियोगि-योग्यत्वस्य तन्त्रत्वेन ध्वंसे प्रतियोगियोग्यत्वस्य व्यञ्जकत्वेन साध्याभावात् । ध्वंसयोग्यतायामधिकरणयोग्यत्वं तन्त्रमिति ध्वंसेऽधिकरणयोग्यत्वं व्यञ्जकमिति केचिदाचक्षते । तन्न । तथात्व आत्मनि धर्मादिध्वंसस्य प्रत्यक्षत्वापत्तेः । धर्मादिध्वंसाधिकरणस्याऽत्मनो मानसप्रत्यक्षयोग्यत्वात् । अतो ध्वंसे उक्तमेव व्यञ्जकमङ्गी-कार्यम् । अत्र रूप आलोकस्य व्यञ्जकत्वोक्तौ तस्य ध्वंससाधारण्येन साध्यस्यापि सत्त्वेन व्यभिचाराभावापत्तेः, अतो रूपे महत्त्वसमानाधिकरणोद्भूतत्वमेव व्यञ्जकमङ्गीकार्यमिति व्यभिचारपरिहाराय समानकालपदम् । तयोश्च भिन्नकालत्वान्न व्यभिचार इति भावः ।
गोत्वाश्वत्वयोर्व्यभिचारान्नेदमनुमानं युक्तमित्याह- गोत्वाश्वत्वादीनामिति ।। समानेन्द्रियग्राह्याणां समानदेशकालापन्नानामिति वर्तते । प्रतिनियतव्यक्तीति ।। प्रतिनियतगवाश्वादिव्यक्तिरूपव्यञ्जकव्यङ्ग्यत्वस्ये-त्यर्थः । अनेन साध्यं नास्तीति सूचितम् । हेतोरेवाभावान्न व्यभिचार इत्याशङ्कते- गोत्वाश्वत्वादीनामिति ।। व्यक्तिसर्वगतत्वेनेति ।। स्वाश्रयव्यक्तावेव सर्वत्र गतत्वेनेत्यर्थः । यद्वा स्वाश्रयसर्वव्यक्तिगतत्वेनेत्यर्थः । गोत्वं स्वाश्रयगोव्यक्तावेवास्ति नत्वश्वे । एवं चाश्वो गोत्वं प्रति न व्यक्तिः । एवमश्वत्वमपीति, न समानदेशत्व-मिति भावः । अस्त्येव समानदेशत्वमित्याह- प्रत्यासत्तेरिति ।। संयुक्तसमवायरूपाया इत्यर्थः । अश्वसंयुक्तायां गवि गोत्वस्य, गोसंयुक्तेऽश्वे अश्वत्वस्य च समवायादिति भावः । ननु यदा गवाश्वावसंयुक्तौ तिष्ठतस्तदा नोक्तरूपा प्रत्यासत्तिरिति चेन्न । तदाऽपि गोसंयुक्तभूसंयुक्तेऽश्वेऽश्वत्वस्य समवायेन १संयुक्तसंयुक्तसमवायरूप-परम्परासम्बन्धस्याश्वस्य गोत्वेन, गोरश्वत्वेन सत्त्वात्समानदेशत्वमस्तीति व्यभिचार इति भावः । ननु संयुक्त-समवायादेरेव परम्परासम्बन्धत्वात् संयुक्तसंयुक्तसमवायादेः कथं तत्त्वमिति चेन्न । संयुक्तसमवायादेरिन्द्रि-यार्थसन्निकर्षरूपत्वात् । यथोक्तम् ‘इन्द्रियार्थयोर्यः सन्निकर्षः स साक्षात्कारिप्रमाहेतुः स च षड्विध एव’ (श्री.टि.) इति । अयं त्वर्थयोरेव परम्परासम्बन्धः कथ्यते । अर्थयोरेतादृशः परम्परासम्बन्धो बहुतरणिपरिस्पन्द-रूपपरत्वस्य देवदत्ते सत्त्वेन देवदत्ते तरणिपरिस्पन्दघटकतया यदा कालः कल्प्यते तदा दृष्ट इत्यवधेयम् । ननु साक्षात्सम्बन्धेनैव समानदेशत्वं विवक्षितं, न तूक्तपरम्परासम्बन्धेन । तथा चाश्वत्वस्य गोव्यक्त्या गोत्वस्य चाश्वव्यक्त्या समवायरूपसाक्षात्सम्बन्धाभावान्न व्यभिचार इत्याशङ्क्याऽह- समवायाभावस्येति ।। वर्णेष्व-पीति ।। वर्णानां द्रव्यत्वेन सर्वगतत्वान्न समवायरूपसाक्षात्सम्बन्धेन समानदेशत्वमस्तीति स्वरूपासिद्धिरिति भावः । अङ्गीकृत्येदं दूषणमुक्तम् । समवायस्यैकत्वेन य एव गोत्वसमवायः स एवाश्वत्वसमवाय इति समवायेन समानदेशत्वमपि गोत्वाश्वत्वयोरस्तीति व्यभिचार एव । यदि च समवाये औपाधिकभेदमङ्गीकृत्य परिहारः तदा समवाये स्वाभाविकैकत्वाङ्गीकारभङ्गः । औपाधिकभेदस्यापि पार्थिवपरमाणौ पाकजन्यरूपस्य स्वाभाविकनीरूपत्वं प्रतीव स्वाभाविकसमवायैकत्वविरोधित्वात् । यथोक्तम् ‘यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते’ इति ।
स्थलान्तरेऽपि व्यभिचारमाह- किञ्चेति ।। अध्ययनगुणाश्रयत्वयोः प्रतिनियतयोर्व्यञ्जकयोस्सत्त्वादिति भावः । आदिपदेन सत्त्वनरत्वपरिग्रहः । तयोर्व्यक्तिसंस्थानविशेषरूपप्रतिनियतयोर्व्यञ्जकयोः सत्त्वादिति द्रश्व्-व्यम् । रूपपरिमाणयोश्च व्यभिचार इत्याह- रूपेणेति ।। रूपे महत्त्वसमानाधिकरणोद्भूतत्वं व्यञ्जकम्, परिमाणे तु किमित्यत उक्तम्- परिमाणस्येति ।। इन्द्रियावयवैरर्थावयवानाम् अर्थावयवैरिन्द्रियावयविन, इन्द्रियावय-वैरर्थावयविनः, अर्थावयविनेन्द्रियावयविन इति चतुष्टयसन्निकर्ष इत्यर्थः । दृष्टान्ते साध्यवैकल्यमभिप्रेत्याऽह- तथेति ।। पृथक्त्वादेरित्यत्राऽदिपदेन परिमाणग्रहणम् । समानेन नीरादिनाऽभिहारो मेलनम्, तदभावो व्यञ्जक इत्यर्थः । परिमाणे तु चतुष्टयसन्निकर्षो व्यञ्जकतयोक्त एवेति साध्यवैकल्यमित्याशयः । ननु वर्णव्यतिरिक्तस्य ध्वनेरेवाभावात्कस्य वर्णव्यञ्जकत्वं स्यादित्याशङ्क्य निराकरोति- न चेति ।। कुतो न चेत्यतोऽनुभव-विरोधादित्याह- दूरादिति ।। एतत्सर्वमिति ।। इदमुक्तं भवतीत्यादिनोक्तं प्रमेयमित्यर्थः । प्रत्यभिज्ञेति ।। वर्णानादिनित्यत्वावगाहिप्रत्यभिज्ञेत्यर्थः । आगमा इति ।। ‘वर्णात्मकाश्च ये शब्दाः’ इत्यादिरूपाः । साक्षिणः संवादिनः । वेद एव नास्तीति ।। तथा च वेदश्चेति किमर्थं पृथगुपसंह्रियत इत्यर्थः । ननु कथं नास्ति, प्रत्येकसमुदायाभ्यां वर्णानामर्थाभिधायकत्वस्यानुपपत्तेः तदन्यथाऽनुपपत्त्या वर्णातिरिक्तस्तद्व्यङ्ग्यः स्फोट एव वेदस्थानीयो भविष्यति । अतो वेदश्चेति पृथगुपसंहारो युज्यत इत्यत आह- स्फोटस्येति ।। विशिष्टेति ।। क्रमस्य विशिश्व्त्वं नाम भूतभवद्भविष्यद्भिरखिलैरपि एकप्रकारेण पठ्यमानत्वरूपं नियतत्वं द्रष्टव्यम् । नन्वनेन पृथगुक्तेः कोऽभिप्राय उक्त इत्यत आह- अवस्थेति ।। तथा च वर्णानां वर्णत्वक्रमविशेषविशिष्टत्वरूपावस्था-भेदाद् वर्णा वेदश्चेति पृथगुपसंहारो युज्यत इत्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
सर्वोपलब्धेरिति ।। सर्ववर्णोपलब्धेरित्यर्थः । कथमनेन सर्वदोपलब्ध्यादिप्रसङ्गनिरास इत्यत आह- इदमुक्तं भवतीति ।। तर्हि तस्य वर्णस्य सर्वदोपलम्भः स्यादित्यत आह- ध्वनेश्चेति ।। तथाप्येकवर्णोपलब्धिसमये (पां.टि.) सर्ववर्णोपलब्धिरनिवार्येत्यत आह- ते चेति ।। देवदत्तस्यैकवर्णोपलम्भसमये दूरस्थस्य यज्ञदत्तस्यापि तदुपलम्भप्रसङ्गं निरस्यति- भूतेति ।। एतच्च प्रागेव विवृतम् । ननु वर्णा न प्रतिनियतव्यञ्जकव्यङ्ग्या एकावच्छेदेन समानदेशत्वे सति समानेन्द्रियग्राह्यत्वाद्घटगतैकत्वपरिमाणवत् । अत्र हेतौ भिन्नेन्द्रियग्राह्यरूपरसादा-वव्यभिचाराय समानेन्द्रियेति विशेषणम् । एकेन श्येनचरणावच्छेदेन वर्तमानयोर्भिन्नसंयोगिव्यङ्ग्ययोः श्येनस्य स्थाणुतदवयवाभ्यां संयोगयोर्व्यभिचारनिरासाय समानदेशत्वे सतीति विशेषणम् । इह च समानदेशत्व-मनतिरिक्तदेशत्वं विवक्षितम् । तेनोक्तयोः संयोगयोरेकस्मिन् श्येने वृत्तावपि स्थाणुसंयोगस्यावयवसंयोगानाश्रये स्थाणौ, अवयवसंयोगस्य च स्थाणुसंयोगानाश्रयेऽवयवे वृत्त्या अतिरिक्तदेशत्वान्न व्यभिचारः । कालरूपावच्छेद-भेदेनैकघटनिष्ठयो रूपतद्ध्वंसयोर्व्यभिचारनिरासाय एकावच्छेदेनेति विशेषणम् । एकावच्छेदश्च न केवलं कालतः किन्तु देशतोऽपि । तेनानवयवद्वयवृत्त्योरवयवद्वयारब्धयोरवयवितदवयवसंयोगयोर्व्यभिचारो निरस्तः । अवयविनो व्याप्यवृत्तित्वेन अवयवसंयोगस्य चाव्याप्यवृत्तित्वेन देशतोऽवच्छेदकभेदादित्याशयेन शङ्कते- समानेन्द्रिय-ग्राह्याणामिति ।। किमत्र व्यञ्जकशब्देन विषयतत्सन्निकर्षसाधारण्येन ज्ञानहेतुमात्रं विवक्षितं किं वा तद्व्यतिरिक्तो ज्ञानहेतुः । नाऽद्यः । बाधित्वादिति भावेन द्वितीयं दूषयति- गोत्वाश्वत्वादीनामिति ।। न च गोत्वादेरश्वादाववृत्तेर्न समानदेशत्वमिति न तत्र व्यभिचार इति वाच्यम् । तथा सति जातिः सर्वगतेति पक्षभङ्गप्रसङ्गेन गोत्वादेरश्वादौ वृत्तेः परेणाङ्गीकर्तव्यत्वादिति भावः । आदिपदेन त्वचा ग्राह्ययोर्घटगत-स्पर्शपृथक्त्वयोः परिग्रहः । तत्पृथक्त्वस्य स्पर्शाव्यञ्जकेनावधिना व्यङ्ग्यत्वादिति द्रष्टव्यम् ।
ननु जातिसर्वगतत्ववादो न गोत्वादेर्गवादाविवाश्वादावपि वृत्त्यभिप्रायकः, किन्तु स्वदेशभूतव्यक्तिसर्व-गतत्वाभिप्रायक एवेति न गोत्वादेरश्वादाववृत्तौ तत्सिद्धान्तभङ्गो नापि व्यभिचार इत्याशङ्कते- गोत्वा-श्वत्वादीनामिति ।। अश्वादेर्गोत्वादिदेशत्वाभावं वदतो देशशब्देन यया कयाचित्प्रत्यासत्त्या तद्देशोऽभिमतः समवायिदेशो वेति विकल्पद्वयं मनसि निधायाऽद्यं दूषयति- प्रत्यासत्तेरिति ।। तथा च व्यभिचार एवेति भावः । द्वितीयं दूषयति- समवायाभावस्येति ।। वर्णानां नित्यद्रव्यत्वस्य मत्सिद्धान्तत्वेन समवायिदेशाभावेन समानदेशत्वरूपविशेषणासिद्धिरिति भावः । विषयतत्सन्निकर्षातिरिक्तो ज्ञानहेतुर्व्यञ्जकशब्देन विवक्षित इत्यस्मिन् पक्षे स्थलान्तरेऽपि व्यभिचारमाह- किञ्चेति ।। विषयादिसाधारण्येन ज्ञानहेतुमात्रं व्यञ्जकपदेन विवक्षितमिति पक्षे व्यभिचारमप्याह- रूपेणेति ।। क्षीरेति ।। अत्र रूपेण समानदेशस्येति, अधिको व्यञ्जक इति चानुवर्तते । समानैरभिहारो मिश्रणं तदभावो रूपाव्यञ्जक एव तत्पृथक्त्वस्य व्यञ्जक इति तत्र व्यभिचार इत्यर्थः । यद्यपि क्षीरनीरयोर्विद्यमानभेदयोः स्वरूपग्रहणेऽपि पृथक्त्वरूपभेदस्याग्रहो न तद्ग्रहहेतुभूतसमानाभि-(पां.टि.) हाराभावनिबन्धनः, किन्तु समानाभिहाररूपप्रतिबन्धकसत्त्वप्रयुक्त इति, उक्तसाध्यस्यापि सत्त्वान्न व्यभिचारो वक्तुं युक्तः । तथाऽपि प्रतिबन्धकाभावस्यापि हेतुत्वाभ्युपगमेनायं ग्रन्थ इत्यवधेयम् । नास्ती-ति ।। तथा च व्यक्त्यैक्यान्न ध्वनिवर्णयोर्व्यङ्ग्यव्यञ्जकभाव इति भावः । एतत्सर्वमिति ।। ध्वनेर्वर्णत्वं प्रतिनिय-तत्वं भूताकाशस्यैव श्रोत्रत्वं, ध्वनेस्तद्गुणत्वमित्यादिकं सर्वमित्यर्थः । (आगमाश्चात्रेति । शोधः ।) विशि-ष्टेति ।। विशिष्टक्रमोपेतबुद्धिविषयवर्णात्मक इत्यर्थ इत्यन्यत्र विस्तरः । अवस्थेति ।। वर्णानामेवाविशिष्टत्व-विशिष्टत्वरूपावस्थाभेदादित्यर्थः ।
लघुप्रभा
(व्या.टि.)
आदिशब्देनेति ।। समासार्थत्वेनेत्यर्थः । वर्णधर्मा इति ।। कत्वादयो ह्रस्वत्वदीर्घत्वादयश्च । तारत्वमन्द्रत्वयोर्ध्वन्युपाधिकत्वात्तद्व्यावृत्तये तान् विशिनश्व्-ि येऽनौपाधिका इति ।। दीर्घत्वादेरनौपाधिकत्वम् ‘दैर्घ्यादयोऽपि ध्वनिष्विव वर्णे स्वाभाविका एव । अन्यथा स्वरेष्विव वर्णेष्वपि ध्वानोपधानवशेन दैर्घ्यादि-प्रतिभासप्रसङ्गात्’ इत्यादिना, ‘अन्यथा न खलु नग इति नाग इति वा शब्दात्’ इत्यादिना च सुधायाम् ‘दीर्घत्वं वर्णगतं सत्यमेव हेतुः’ इति न्यायामृते चोपपादितम् । तारत्वमन्द्रत्वादय इति केचित् । तेषामुच्चैष्ट्वोपांशुत्वरूपत्वेन ध्वन्युपाधिकत्वात् । निगमयति- वेदश्चेति ।। ननु वर्णानामेव वेदत्वे पृथगुपसंहारः किंनिबन्धन इत्यत आह- तन्नित्यत्वस्य पृथग्विधत्वादिति ।। नित्यत्वे कादाचित्कोपलब्धिं बाधिकामाशङ्कते- नन्विति ।। कारण-कादाचित्कत्वेन तत्परिहारमाशङ्क्य परिहरति- न चेति ।। तदसम्भवमाह- तावतीति ।। ‘यावद्ब्रह्म तावती’ इति ब्रह्मतुल्यत्वेन देशकालसम्बन्धः श्रुत्यर्थः । समाधिविमतिं दर्शयति- अत्रैक इति ।। अवष्टब्धं प्रतिबद्धम् । नोपलम्भयति न ज्ञापयति । कोष्ठ्य इति ।। ‘शरीरावयवाच्च’ इति भवार्थे यत्प्रत्ययः । प्रतिष्ठमानः प्रस्थानं कुर्वाणः । ‘उरःप्रभृतीनि’ इति तद्गुणसंविज्ञानः । अष्टाविति ।। कण्ठादीनि सप्त उरश्चैकमित्यष्टावित्यर्थः । स्थानशब्दो भूम्ना गुणः सृष्टिशब्दवत् । अभिहत्य सम्बध्य । शष्कुली विवरम् । स्तिमितमिति ।। ष्टिम ष्टीम आर्द्रीभावे, शीतमित्यर्थः । ततः प्रतिबन्धकापनयने । संस्कारो गुणाधानम् । विभागेनेति ।। तस्य संयोग-नाशकत्वादित्यर्थः । अप्रामाणिकेति ।। उत्तरक्षण एव वायुविभागसंयोगनाशादौ प्रमाणाभावादिति भावः । मीमांसकमतमनुवदति- अन्ये त्विति ।। वायुगुण इति ।। अत एव ‘बबरः प्रावा(पूर्वा) हणिरकामयत’ इत्यादावनित्यसंयोगमाशङ्क्य बबरो बर्बरशब्दायमानो वायुरिति व्याकुर्वन् शबरः बब(र्ब)रासत्तामाह । प्रसङ्गेनेति ।। वायुस्पर्शे व्याप्तिनिर्णयादिति भावः । तदिति ।। ध्वनेरित्यर्थः । व्यङ्ग्यैकेन्द्रियग्राह्यत्वस्य व्यञ्ज-कत्वव्यापकतया प्रयोजकत्वात् तदभावेन तदभावमाह- श्रोत्रेति ।। तयोर्व्याप्तिं दर्शयति- घटप्रदीपादाविति ।। तत्रेति ।। कर्णशष्कुल्यामित्यर्थः । तेन यज्ञदत्तेन । अनेन कथमुक्तशङ्कापरिहार इत्यतो वर्णानां नित्यत्वेऽपि व्यञ्जकस्य ध्वनेराशुतरविनाशित्वान्न सर्वदोपलब्धिप्रसङ्गः । प्रतिनियतव्यञ्जकव्यङ्ग्यत्वान्न सर्ववर्णोपलब्धि-प्रसङ्गः । तत्तत्कर्णपुटावच्छिन्नध्वनिना तदवच्छिन्नवर्णस्य तत्तच्छ्रोतारं प्रत्येव व्यञ्जनान्न सर्वेषां देवदत्तादीनामुप-लब्धिप्रसङ्ग इत्याशयं विवृण्वान आह- इदमुक्तं भवतीति ।। यस्तु कर्णेत्यादि ।। अनेन कदम्बमुकुलादिन्यायेन (व्या.टि.) कर्णशष्कुल्यवच्छिन्नवर्णस्य व्यञ्जको भवतीत्युक्तं भवति । कथमेतद्युज्यते बाधकसत्त्वात् साधका-भावाच्च । तथा हि । श्रूयमाणस्य ध्वनेर्वर्णस्य वा समीपत्वेन दूरो ध्वनिर्वर्णो वा पूर्वं श्रुतोऽधुना तु मत्समीपो ध्वनिर्वर्णो वा श्रूयत इत्यनुभूयमानव्यवस्थाऽयोगः । १ । ‘दूराद्वर्णाग्रहणेऽपि ध्वनिग्रहणात्’ इति स्वोक्त्ययोगश्च, वर्ण-ध्वन्योर्दूरत्वायोगात् । २ । वक्त्रुच्चारणजन्यध्वनेरव्यञ्जकत्वे ‘उच्चारणं तु व्यञ्जकजनकत्वेनोपयुज्यते’ इति स्वोक्तिविरोधश्च । ३ । एकलव्यादेः श्रूयमाणशब्दस्थानश्ववक्त्रशरपूरणाद्यतिशयायोगाच्च । ४ । लोके गरुडादीनां दूरदर्शनशक्तिर्भुजङ्गादीनां दूरस्थशब्दश्रवणशक्तिरिति प्रावादापवादापातश्च । ५ । ‘वराहगृध्रादिषु दूरस्थशब्द-रूपादिग्राहिष्वपि तादृशरसादिग्रहणसामर्थ्यस्यादृश्व्त्वात्’ इति प्राचीनस्वोक्तिविरोधश्च । ६ । किञ्च वक्तृ-कण्ठाद्यवच्छिन्नवर्णादेरग्रहणे कण्ठादेर्वर्णस्थानत्वायोगः । उत्पत्तिव्यक्त्यन्यतरस्थानत्वाभावात्, व्यञ्जक-जनकत्वाभावाच्च । ७ । स्थानत्वायोगे तत्साम्यादेर्दूरापास्तत्वेन सावर्ण्याद्ययोगाच्च । ८ । दन्ताद्यवयवसम्बन्धाभावे ‘शरीरावयवाच्च’ इति यत्प्रत्ययाभावेन दन्त्यादिशब्दव्यवहारानुपपत्तिश्च । ९ । किञ्च कर्णपुटावच्छिन्नध्वनेरेव श्रोत्रग्राह्यत्वे (न) आद्यादिध्वनेरश्रावणत्वेन तदेकप्रमाणकस्य तदभावादभावप्रसङ्गः । १० । किञ्च कर्णपुटावच्छिन्नस्य ध्वनेर्ग्रहणे तस्य देवदत्तीयत्वाभावेन तेन देवदत्तादिपुरुषविशेषानुमानानुपपत्तिः । ११ । अवधाने प्राच्यां भेरीशब्दः, प्रतीच्यां शङ्खशब्दः, इति दिग्विशेषज्ञानानुपपत्तिश्च । १२ । चैत्रः शब्दायते तीर इत्यनुभवविरोधश्च । १३ । चैत्रस्य कण्ठरवः श्रूयत इत्यनुभवविरोधश्च । १४ । तन्त्रीध्वनेर्मूर्च्छनादिवैजात्येन वैजात्यानुभवायोगश्च । १५ । पुराणेषु दूरश्रवणादेर्विद्याफलत्वोक्त्ययोगश्च । १६ । इतोऽधिकानि बाधकानि गुरुप्रभायामुक्तानि द्रश्व्व्यानि । साधकमपि प्रत्यक्षस्य शब्दमात्रग्राहित्वेन कदम्बमुकुलन्यायाविषयकत्वात्, चक्षुषेव श्रोत्रेणापि दूरस्थशब्दग्रहणोपपत्तेरनुमानस्याप्ययोगात्, एतद्विषये आगमाभावाच्च नास्त्येव । तस्मात्कथमेतदिति पूर्वपक्षरहस्यम् ।
सिद्धान्तस्तु, साधकप्रमाणं तावदन्यथाऽनुपपत्तिः । श्रोत्रेण शब्दप्रत्यक्षं तावदनुभवसिद्धम् । न च लौकिकसन्निकर्षेण विना लौकिकसाक्षात्कारः । सन्निकर्षश्च न तावद्भेरीदण्डसंयोगादिना तदवच्छिन्ननभःप्रदेशे जायमानस्य तद्गुणस्य शब्दस्याऽगमनेन । गुणिनं विहाय गुणस्याऽगमनायोगात् । गुणिनश्च नभःप्रदेशस्याऽगमनं नास्त्येव । नापि नाभसस्याणोः श्रोत्रस्य स्वतो गमनम् । इन्द्रियस्य गोलकं विना गमनायोगात् । समीपदूरशब्दयोर्युगपद्ग्रहणायोगाच्च । नापि रश्मिद्वारा । अतैजसत्वेन रश्मिद्वारा गमनायोगात् । ‘इन्द्रियत्वे समानेऽपि घ्राणादीनामतैजसानामनेवम्भावः । चक्षुषस्तैजसत्वेन रश्मिद्वारा बहिर्निर्गमनमित्यङ्गीकारे बाधका-भावात्’ इति सुधोक्तेश्च । तस्मादन्यथाऽनुपपत्त्या कदम्बमुकुलादिन्यायेन कर्णपुटावच्छेदेन जायमानध्वन्यादि-ग्रहणम् । ‘आगमाश्चात्र साक्षिणः’ इति टीकोक्तेरागमोऽपि गवेषणीयः । बाधकानि चेत्थं सुपरिहाराणि । कण्ठताल्वादिस्थानावच्छेदेन वैयाकरणोक्तप्रयत्नविशेषैः प्रतिनियतो वर्णव्यञ्जको ध्वनिस्तारो जायते । अनन्तरं क्रमेण पूर्वपूर्वापेक्षया मन्दा प्रथमध्वनिजातीया व्यञ्जकपरम्परा जायते । व्यञ्जकस्य च स्वावच्छिन्नविषये (व्या.टि.) इन्द्रियसंयोगे सति ज्ञानजनकत्वम्, सतीन्द्रियपाटवे स्वस्य मान्द्येऽपि ज्ञानजनकत्वम्, अपाटवे तु प्रौढ्यपेक्षा, अतिमान्द्ये सजातीयाभिघाते(धाने) वा न व्यञ्जकत्वम्, प्रतिपुरुषमिन्द्रियपाटववैचित्र्यमित्यादिकं सर्वमपि कार्यानुसारेण कल्प्यम् । आलोकादौ दृश्व्ं च । तथा च न तावत्प्रथमं बाधकम् । समीपे तारं भेरीशब्दं श्रुत्वा गच्छतो देशव्यवधानक्रमेण मान्द्यप्रतीतेरन्यत्रापि मान्द्येन दूरस्थशब्दमूलकत्वस्य तारत्वेन समीपस्थशब्द-मूलकत्वस्यानुमानेन समीपेऽपि शब्दे तदुपनीतभानसम्भवेन दूरत्वमन्दत्वव्यवस्थोपपत्तेः । नापि द्वितीयम् । वक्तुः सकाशाद्दूरस्थितस्य वर्णाग्रहणेऽपि ध्वनिग्रहणोक्तिसम्भवात् । ध्वनिग्रहणेऽपि वर्णाग्रहणं तु ध्वनेर्मान्द्यात् सजातीयाभिघाताद्वा दूरतया व्यञ्जकजात्यनाक्रान्ततयोत्पादाद्वा सङ्गच्छते । नापि तृतीयम् । उच्चारणस्य व्यञ्जकजनकत्वोपगमात् । नापि तुरीयम् । एकलव्यस्य श्रूयमाणशब्दमूलस्थाने शरपूरणसामर्थ्यसम्भवात् । नापि पञ्चमषष्ठे । भुजङ्गवराहादीनां दूरस्थशब्दमूलकशब्दग्रहणसामर्थ्योपगमात् । नापि सप्तमाश्व्मनवमानि । व्यञ्जकमादाय स्थानत्वस्य तत्साम्यस्य दन्त्यादिशब्दवाच्यत्वस्य च सम्भवात् । नापि दशमम् । श्रोत्रसंयोगसत्त्वे आद्यस्यापि श्रावणविषयत्वेन कुड्यान्तर्वर्त्यवयववृत्तिस्पर्शस्येवाभावानापत्तेः । नाप्येकादशम् । देवदत्तीय-ध्वनिपरम्परायां देवदत्तानुमापकवैजात्योपगमेन तदनुमानोपपत्तेः । नापि द्वादशम् । स्पर्शविशेषेणातीन्द्रियस्यापि वायोर्दिग्विशेषज्ञानस्येव शब्दविशेषेण मूलशब्दस्य दिग्विशेषज्ञानोपपत्तेः । अत एव क्वचित्संशयोऽपि । नापि त्रयोदशादीनि । श्रूयमाणशब्दमूलशब्दमादाय तीरे चैत्रं पश्यतः तीरे शब्दायत इत्युपनीतभानस्य, कण्ठरव-जातीयत्वमादाय कण्ठरवः श्रूयत इत्यस्य, मूर्च्छनाजन्यशब्दपरम्परायां वैजात्योपगमेन तदनुभवस्य च सम्भ-वात् । नापि षोडशम् । दूरस्थशब्दपरम्परया प्राप्तस्यात्युपांशुशब्दस्य पुरुषान्तरायोग्यस्य यच्छ्रवणं तस्य विद्याफलत्वोपपत्तेः । वस्तुतस्तु अलौकिकप्रत्यक्षं लौकिकसन्निकर्षानपेक्षं विद्याफलमिति न दोषः । तस्माद्यथा-टीकोक्तं युक्तम् । ‘अत्रामाघो(द्यो)षो गच्छतु’ इत्यादिश्रुतिभिर्ध्वनेर्गमनश्रवणात्, शब्दस्य वाय्वाहार्यत्वप्रवादाच्च, गुणाद्वाऽऽलोकवत्’ इति सूत्रे गुणिनं विहाय प्रकाशाख्यगुणस्य गतिसमर्थनात्, ‘व्यतिरेको गन्धवत्’ इति सूत्रे गन्धिनं विहाय गन्धगमनस्य दृष्टान्तीकरणात् तन्न्यायेन शब्दस्यापि गमनसम्भवाच्च, तारस्यापि शब्दस्य देशकालव्यवधानक्रमेण मान्द्योपगमेन सर्वप्रत्ययानां सूपपादत्वाच्च, बाधकानामप्रसराच्च, शब्दागमपक्षोऽपि युक्त इति वयमुत्पश्यामः ।
वस्तुतस्तु ‘श्रोत्रस्यैव गमनेन शब्दग्रहणम्’ इति यत्तत्वप्रकाशिकायामुक्तं तदेव सिद्धान्तः । पूर्वोक्तपक्षे कर्णावच्छेदेन शब्दोत्पत्तौ मानाभावात् । श्रोत्रगमनादिनोपपत्त्या(त्पत्त्य)ऽन्यथाऽनुपपत्तेरभावात् । आगमस्य चाभावात् । आगमाश्चात्रेति टीकोक्तेर्वर्णनित्यत्वविभुत्वध्वनिव्यञ्जकत्वादिविषयतया सावकाशत्वात् । बहुशब्द-कल्पनया गौरवाच्च । भेर्यादिजन्यो ध्वनिर्मया श्रुत इति प्रत्यभिज्ञाविरोधाच्च । तज्जातीय इति कदाऽप्यननु-भवाच्च । बाधकानां क्लेशेन परिहरणीयत्वाच्च । न चोक्तरीत्या श्रोत्रस्य गमनासम्भवः । भूयो नभोभूतोपचितस्यापि ‘तैजसानीन्द्रियाण्याहुः’ इति वचनेन पञ्चीकरणेन च रश्मीनां सत्त्वात् । न च निश्चायकसाधकमानाभावः । (व्या.टि.) दूरश्रवणादिभाष्योक्तयुक्तेः । ‘यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत’ इति उपलक्षणया सर्वेन्द्रिय-प्रकाशप्रतिपादकश्रुतेः । ‘अणूनि वेन्द्रियाणि तेषां प्रकाशो व्यातत’ इति न्यायविवरणोदाहृतस्पष्टश्रुतेः । ‘इन्द्रियत्वे समानेऽपि घ्राणादीनामतैजसानामनेवम्भावश्चक्षुषस्तैजसत्वेन रश्मिद्वारा निर्गमनम्’ इति सुधोक्तिरुपेत्यवादतया चक्षुषस्तावद्गतिसमर्थनाभिप्रायिका । न च ब्रह्मभाषितानां ग्रहणापत्तिर्बाधिका । ब्रह्मरूपादेरिवाग्रहणोपपत्तेः । न च क्वचित्सन्देहायोगः । दोषवशाद्रूपादाविव तदुपपत्तेः । न च वस्तुतस्तारस्य दूरस्थैर्मान्द्येन ग्रहणायोगः । महतो वृक्षादेरणुत्वेनेव दोषवशाद्ग्रहणोपपत्तेः । न च पक्षान्तरे तारस्य बहुपरम्पराजनकत्वेऽपि मन्दस्याल्प-परम्पराजनकत्वेन तारसमीपस्थस्य मन्दस्य दूरस्थैरग्रहणेऽप्येतत्पक्षे ग्रहणापत्तिः । दीर्घवृक्षसमीपस्थस्य अणोरिवा-ग्रहणोपपत्तेः । न च प्राच्याः सकाशात् प्रतीची प्रति वायौ वाति सति दूरस्थप्राच्यशब्दग्रहणानुपपत्तिः, प्रतीच्यशब्दग्रहणापत्तिश्चेति वाच्यम् । वातप्रमीवद्वाय्वभिमुखं श्रोत्ररश्मिगमनोपगमेन तदुपपत्तेः । एवमन्यान्यपि बाधकानि परिहरणीयानि । अधिकं तु गुरुप्रभायां द्रष्टव्यम् ।
सर्वदोपलब्धिं वारयति- ध्वनेश्चाऽशुतरविनाशित्वेनेति ।। नन्वन्त्यशब्दस्य किं नाशकम् । पूर्वशब्देष्वि-वोत्तरशब्दाभावात् । सिद्धान्ते समवायाभावेन पूर्वशब्दनाशस्यासमवायिनाशत्वेन नाशकत्वायोगात् । नापि पूर्वशब्दस्य निमित्तत्वेन निमित्तनाशत्वेन कार्यनाशकत्वम् । दण्डादिनाशेन घटादेर्नाशापत्तेः । नापि सुन्दोपसुन्द-न्यायेनान्त्योपान्त्ययोः परस्परनाशकत्वम् । अन्त्यशब्दद्वितीयक्षणे नश्यत उपान्त्यस्य पूर्ववृत्तित्वाभावेन तृतीय-क्षणे नाशोत्पादकत्वायोगादिति चेन्न । निमित्तनाशत्वेन कार्यनाशकत्वायोगेऽपि तैलपुण्यापेक्षाबुद्ध्यादीनां नाशात् दीपस्वर्गभोगद्वित्वादिनाशदर्शनेन फलबलादन्त्यशब्दव्यक्तिनाशं प्रति निमित्तशब्दनाशस्य विशिष्य हेतुत्वसम्भवात् । अधिकं तु गुरुप्रभायां द्रश्व्व्यम् । सर्वोपलब्धिं वारयति- प्रतिनियता एवेति ।। प्रतिव्यङ्ग्यव्यक्ति-विजातीया इत्यर्थः । तेन नैकेन ध्वनिना वर्णद्वयस्याप्युपलब्धिरिति भावः । भूताकाशमेव श्रोत्रमिति ।। अनेन, जन्यं मूर्तं भूताकाशमनङ्गीकृत्य नीरूपं नित्यं व्याप्तं यदव्याकृतमाकाशं तदेव भूतं तदात्मकत्वमेव श्रोत्रस्येति वदन्तो वैशेषिकाः परास्ताः । श्रोत्रस्य तादृशाकाशात्मकत्वे साधकाभावात् । आकाशश्रोत्र-योरतीन्द्रियत्वेन प्रत्यक्षाप्रसरात् । ‘रूपादिषु पञ्चसु मध्ये शब्दस्यैव ग्राहकत्वात्’ इति युक्तेर्दृष्टान्ताभावेना-प्रयोजकत्वेन चासाधकत्वात् । आगमस्यानुपलब्धेः । बाधकसद्भावाच्च । तथा हि । तादृशाकाशात्मकत्वे गत्याद्यभावेन ‘श्रोत्रमुदक्रामत् श्रोत्रं प्राविशत्’ इत्यादिश्रुतिषु, ‘इन्द्रियाणां हि चरताम्’ इत्यादिस्मृतिषु बोध्यमानं गमनादिकम्, ‘सूर्यं चक्षुर्गमयात्’ इत्यनुवाके ‘दिशः श्रोत्रम्’ इति, ‘वाङ्म आसन्’ इत्यत्र ‘कर्णयोः श्रोत्रम्’ इति च प्रार्थ्यमानं गमनादिकं च बाधकम् । एवमजन्याकाशात्मकत्वे तस्य नित्यसिद्धत्वेन ‘अश्विनौ वा अकामयेतां श्रोत्रश्विनावबधिरौ स्याव’ इत्यादिना श्रूयमाणमुत्पत्त्याशंसनतदर्थेष्ट्यनुष्ठानादिकम्, ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इत्यादौ पृथगुत्पत्त्यादिकथनं च बाधकम् । सत्यामिन्द्रियसम्प्रयोगादिसामग्य्र•मदृष्टाभावेन कार्याभावस्यादर्शनेनोपहत्यादेश्च अचलाकाशात्मकश्रोत्रस्यासम्भवेन बधिराभावप्रसङ्गश्च । श्रोत्रस्य भूताकाशत्वे (व्या.टि.) च
‘शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगम्’ इति भगवद्वचनम्’
‘श्रोत्रमाकाशरूपञ्च मित्रधर्मजलाधिपाः ।
कुबेरश्च दिशां देवाः श्रोत्रदेवा इति श्रुताः ।।’
इत्याद्यैतरेयभाष्याद्युदाहृतवचनानि च साधकानि । भूताकाशस्य जन्यत्वेन तत्परिणामविशेषस्य श्रोत्रस्य चक्षुष इव गतिजन्युपहत्यादिमत्त्वेन न किमपि बाधकम् ।
‘असंसृष्टं महानहम् ।
बुद्धिर्मनः खानि दश मात्रा भूतानि पञ्च च ।
पञ्चभिः पञ्चभिर्ब्रह्मा चतुर्भिः ।’
इत्यादिषु बहुषु वचनेषु श्रोत्रनभस्तत्वयोर्भिन्नत्वोक्तावपि तत्त्वानां चतुर्विंशतिसङ्ख्याकत्वेऽपि ब्रह्माण्डान्तः-प्राणिनां करणीभूतस्य श्रोत्रस्य जन्यनाभसत्वोपगमे न तत्त्वसङ्ख्यानादिविरोधः । इयं हि वस्तुस्थितिः । असंसृष्टानि तत्त्वानि प्रत्येकं साक्षाद्विजातीयाजन्यनित्यप्रकृतिसूक्ष्मोपादानकानि पूर्वपूर्वतत्त्वोपचितानि अण्डतद्गतानि च वस्तूनि परस्परं मिश्रितजन्यचतुर्विंशतितत्त्वोपादानकानि संसृष्टानीत्युच्यन्ते । तत्तद्भूतप्राचुर्याच्च(श्च)तत्तद्भूत-शब्दव्यपदेशः (व्यपेक्ष्याः) । तत्र यदसंसृश्व्ं तैजसाहङ्कारोपचितं श्रोत्रं नाम तत्वं तदेकदेशः प्रचुरनभोभूतेनोपचितः संसृश्व्ः पद्मनाभेनाण्डान्तरानीतः प्रतिसंसारिभिन्नः प्रतिमृतिजनिगत्यादिमद्भागयुक्तः शब्दज्ञानकरणीभूतः श्रोत्र-मित्युच्यते । तथा च तत्त्वपरिगणनेन, ‘तैजसानीन्द्रियाण्याहुः’ इति तैजसत्ववचनेन,
‘शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगम् ।’
इति शब्दतन्मात्रजन्यत्वावेदकतृतीयभागवतवचनेन, ‘तेषां भूतैरुपचयः’ इति भूतमात्रोपचयवचनेन, रश्मिद्वारा गमनोपगमेन न विरोधः । न च श्रोत्रस्य नाभसत्वे पार्थिवशरीरस्य पृथिव्यप्ययवन्नभस्यप्ययप्राप्त्या ‘दिशः श्रोत्रम्’ इति दिक्ष्वप्ययोक्तिविरोध इति वाच्यम् । मनसश्चन्द्रमसीवोपपत्तेः । तस्याभिमानिदेवताप्रवेशाभि-प्रायकत्वेऽत्रापि तथोपपत्तेः ।
‘श्रोत्रमाकाशरूपं च मित्रधर्मजलाधिपाः ।
कुबेरश्च दिशां देवाः श्रोत्रदेवाः ।।’
इत्यैतरेयभाष्योदाहृतवचनाद् दिक्पदेन भूताकाशभागानां विवक्षितत्वात् श्रोत्राप्ययविवक्षायामप्यविरोधः । अव्याकृतभागानां रमामात्राभिमन्यमानत्वेन मित्राद्यभिमानायोगात् । इत्थमेव विवक्षाऽवश्यम्भावाच्च । ‘अवकाशमात्रं दिगुच्यत इत्यव्याकृताकाशस्यैव दिक्त्वज्ञापनार्थम्’ इति च तत्र तट्टीकोक्तिः साक्षिसिद्ध-(व्या.टि.) दिगभिप्राय(यि)का । न च दिक्शब्दस्योभयार्थत्वम् । भागिवाच्याकाशशब्दस्येव भागवाचि-दिक्शब्दस्यापि तदुपपत्तेः । भूताकाशमेवेत्येवकारोऽव्याकृताकाशनिरासार्थः । प्राचुर्येण (तत्तद्भूत)इतरभूत-निरासार्थो वा । ‘पृथिव्यादीनामुपपद्यते श्रोत्रत्वम्’ इति सुधोक्तिरव्याकृतश्रोत्र(त्व)निरासाभिप्राय(यि)का । तस्मात्सुष्टूक्तं भूताकाशमेव श्रोत्रमिति । अधिकं तु गुरुप्रभायाम् ।
तद्गुण एव ध्वनिरिति ।। असाधारणगुणत्वविवक्षया च इदमवधारणम् । अन्यथा पृथिव्यादावप्यनुभवेन आकाशाद्युपादानकत्वयुक्त्या ‘सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम्’ इति ‘परस्य दृश्यते धर्मो ह्यपरस्मिन् समन्वयात् । अतो विशेषो भावानां भूमावेवोपलभ्यते’ इति च भागवतोक्त्या ‘पृथिव्यां हि सर्वे शब्दादयोऽ-वभास्यन्ते’ इति स्फुटतात्पर्योक्त्या च विरोधात् । अधिकं तु गुर्व्याम् । भूताकाशत्वे कथमुक्तदोषपरिहार इत्यत आह- तच्चेति ।। स्वत इति ।। स्वभावेनेत्यर्थः । तेन न्यायमतनिरासः । सावयवमिति ।। पुनः सर्वोपलब्धिं प्रसञ्जयितुं वर्णानां प्रतिनियतव्यञ्जकव्यङ्ग्यत्वव्यतिरेकं साधयति- समानेति ।। हेतुगर्भविशेषणमेतत् । हेतोः साध्याव्यभिचारं दर्शयति- साऽपीति ।। येन व्यभिचारः स्यादित्यर्थः । अत्र गर्भितो हेतुः स्पष्टीकृतः तर्क-ताण्डवे । ‘वर्णा न प्रतिनियतव्यञ्जकव्यङ्ग्या एककालावच्छेदेन समानदेशत्वे सति समानेन्द्रियग्राह्यत्वात् घटैकत्व-परिमाणवत्’ इति । अत्र च भिन्नदेशकालीनेषु भिन्नेन्द्रियग्राह्येषु च व्यभिचारवारणाय यथायथं साधने विशेषणानीति बोध्यम् । हेतोः पररीत्याऽनैकान्तिकतामाह- गोत्वेति ।। हेतोरेवाभावान्न व्यभिचार इति शङ्कते- गोत्वादीनामिति ।। गोत्वादीनां समानदेशत्वमिति वदन् प्रष्टव्यः, किं समानदेशप्रत्यासत्तिमात्रं नेति उत समवायो नेति । आद्यमवद्यति- प्रत्यासत्तेरिति ।। स्वव्यक्तिमध्यवृत्त्यन्यव्यक्तिसम्बन्धस्येत्यर्थः । द्वितीयं दूषयति- समवायेति ।। तथा च हेतोरसिद्धिरिति भावः । स्थानान्तरे व्यभिचारेणापि दूषयति- किञ्चेत्या-दिना ।। प्रतिनियतेति ।। यज्ञोपवीतादेर्ब्राह्मण्यव्यञ्जकत्वाद्रूपादेर्द्रव्यत्वव्यञ्जकत्वादित्यर्थः । अन्यत्राप्याह- रूपेणेति ।। अधिक इति ।। गुणग्राहकसामग्रीत इति शेषः । अपरत्राप्याह- तथेति ।। व्यञ्जकव्यङ्ग्ययोरभेदेन तद्भावानुपपत्तिं शङ्कते- नास्तीति ।। पृथगनुपलम्भादिति शेषः । पृथक्त्वं प्रथयति- दूरादिति ।। अनेन ध्वनिर्वर्णादतिरिच्यते तदग्रहणेऽपि ग्रहणात्, तद्ग्रहणप्रतिबन्धकाप्रतिबध्यग्रहणत्वात् यदेवं तदेवमिति प्रयोगद्वयं सूचयति । तद्बल इति दृष्टार्थापत्तिं प्रमाणयति । आगमा इति ।। भागवतादय इत्यर्थः । अवस्थेति ।। तन्तूनामितरसाहित्येन पटावस्थावद् वर्णानामपीतरवर्णसाहित्येन क्रमोऽप्यवस्थाविशेषः सम्भवतीत्यर्थः ।
।। इति वर्णनित्यत्ववादः ।।