न तावदेकजीववादो युज्यते ..
एकजीववादे युक्तिविरुद्धत्वस्य समर्थनम्
मूलम्
- न तावदेकजीववादो युज्यते । एकाज्ञानपरिकल्पितत्वे च सर्वस्य सर्वमिदं परिकल्पितमिति जानतः पुनः शिष्यादिबोधनं न युज्यते । न हि स्वप्नोऽयमिति निश्चित्य स्वाप्नपुत्रदायार्थं यतते । स्वप्ने तु स्वाप्नत्वाज्ञानादेव यतते । न च बहूनां दृश्यमान-त्वादस्याज्ञानपरिकल्पितमिदमिति निश्चयो युज्यते ।
तत्त्वमञ्जरी
स एकजीववादी प्रष्टव्यः । किं गुर्वज्ञानपरिकल्पितं विश्वम् । आहोस्वित् शिष्याज्ञान-परिकल्पितमिति । गुर्वज्ञानपरिकल्पितत्वे दूषणमाह- सर्वमिदमिति ।। यथा स्वप्ने यतते तथा अत्रापि यततामित्यत आह- स्वप्ने त्विति ।।
टीका
एतेष्वेकजीववादिनोऽत्यन्तविरुद्धा इति तन्निराकरणमादावारभते- न तावदिति ।। तावच्छब्दः क्रमापेक्षः । न युज्यते प्रमाणशून्यत्वात् तद्विरुद्धत्वाच्च । ननु विप्रतिपन्नं सर्वं जीवजडात्मकमेकजीवाज्ञानपरिकल्पितं दृश्यत्वात् स्वप्नवदित्यनुमानसद्भावात् कथमत्र प्रमाणाभाव इति चेदत्र वक्तव्यम्- एवमनुमिमानेन सर्वस्य कल्पको जीवोऽमुक इति निश्चितो न वा । आद्ये किमसाविदानीमैक्यप्रवणो भेदप्रवणो वा । प्रथमेऽपि किं गुरुः शिष्यो वा । आद्ये दोषमाह- एकेति ।। सर्वस्य जीवजडात्मकस्य एकजीवाज्ञानपरिकल्पितत्वपक्षे केचित्खलु मायावादिनो जीवजडेश्वरकल्पनानिमित्तमज्ञानमुपाध्यवच्छिन्नजीवाश्रितं मन्यन्ते । अन्ये तु सत्यज्ञानानन्तानन्द-स्वरूपब्रह्माश्रितमिति । अपरे तु जीवत्वब्रह्मत्वविवक्षां विहाय स्वरूपमात्राश्रितं जीवभागपक्षपाति यथा दर्पणो बिम्बप्रतिबिम्बविवक्षां विना मुखमात्रसम्बन्धी प्रतिबिम्बपक्षपातीति । तत्र ये जीवाज्ञानवादिनस्तान् प्रतीदं वक्ष्यमाणं दूषणाभिधानमिति ज्ञापनाय एकाज्ञानपरिकल्पितत्वे च सर्वस्येत्युक्तम् । तेन यदुक्तं परैः ‘गुरुशिष्यादिशब्दैः किं केनचित्परिच्छेदेन कवलीकृतं चैतन्यमभिधीयते किं वा निरस्तभेदम् । नाऽद्यः । परिच्छिन्नस्य परिकल्पितत्वादेवाविद्या-श्रयत्वानङ्गीकारात् । द्वितीये तु न वक्ष्यमाणदोषः’ इति । तत्परिहृतं भवति । पक्षद्वयस्य प्रकारान्तरेण निराकरिष्यमाणत्वात् । विदिततत्त्वो हि गुरुर्भवति । ततश्च सर्वमिदं जीवजडात्मकं मदविद्या-परिकल्पितमिति जानतस्तस्य पुनः शिष्यश्रेयोऽर्थिनो नरान्तरबोधनं न युज्यते । शिष्यादीनां कल्पितत्वेन मोक्षरहितत्वेन च निश्चितत्वात् ।
तथाऽपि कुतो न युज्यत इत्यतो यो येन कल्पिततया ज्ञातो न तत्पुरुषार्थायासौ यतत इति व्याप्तिदर्शनार्थं दृष्टान्तमाह- न हीति ।। स्वप्नादुत्थित इति शेषः । परप्रसिद्ध्या चेदं दृष्टान्ताभि-धानम् । स्वपक्षे स्वप्नस्य सत्यत्वात् । तदीयदायार्थमयतनं तु वासनामयस्य विनष्टत्वज्ञानात् । उभयप्रसिद्ध्या तु मृतपुत्रो भ्रान्त्या पुत्रं प्रतीत्य भ्रान्तेरुत्थितः कल्पित एवायमिति निश्चित्य तदीयदायार्थं न हि यतत इति दृष्टान्तोऽभिधातव्यः ।
ननु च गुरुर्विदिततत्त्वोऽपि ज्ञानस्यापरिपक्वत्वात्, अविद्यायाः कार्त्स्न्येनानिवृत्तत्वात् शिष्यादिकं पश्यति । अतस्तन्मोक्षार्थं बोधनं कुर्यात् । यथा स्वप्ने पुत्रं पश्यन् तदीयदायार्थं यतते । स्वप्नादुत्थितस्तु पुत्रमेव न पश्यति । तस्मादयतनं तस्य युक्तमित्यत आह- स्वप्ने त्विति ।। न तु दर्शनमात्रेणेत्येवशब्दार्थः ।
एतदुक्तं भवति- न प्रवृत्तौ दर्शनमात्रं कारणम् । किन्तु कल्पितत्वाज्ञानसहितम् । दिङ्मोहादौ सत्यपि दर्शने कल्पितत्वनिश्चयोत्तरकालं प्रवृत्त्यभावात् । स्वप्ने तु कल्पितत्वानिश्चयात्प्रवर्तते । अतो गुरुः शिष्यादिकं पश्यन्नपि कल्पितत्वनिश्चयान्न प्रवर्तेतैवेति । अपरोक्षज्ञानाभावात् प्रयतत इति चेन्न । दिङ्मोहादौ परोक्षज्ञानमात्रस्यापि प्रवृत्तिप्रतिबन्धकत्वदर्शनात् । किञ्च शब्दादेवाप-रोक्षज्ञानमुत्पद्यत इत्यस्मिन्पक्षे गुरोरपरोक्षज्ञानाभावोऽसम्भावित एव । संस्कारात् प्रवृत्तिरित्यपि न युक्तम् । न ह्ययं वेगादिवद्बलात्प्रवर्तयति । किन्तु निश्चितार्थानुसन्धानप्रतिबन्धेन । ततश्च भिक्षाटनादौ घटतां नाम कथञ्चित् प्रवृत्तिः । औतं बोधयंस्तु कथं तदनुसन्धानहीनः स्यात् ।
गुरुरेव सत्यो जीवः, तदज्ञानकल्पितं सर्वमिति निश्चयमङ्गीकृत्येदं दूषणमुक्तम् । निश्चय एवायं तव नोपपद्यत इत्याह- न चेति ।। बहूनां जीवानाम् । अस्य गुरोरेव । ननु यदि बहवो दृश्यन्ते तर्हि कथं ते चेतना, घटादिवत् । तत्कथमनिश्चय इति चेद्, गुरुरपि दृश्यते न वा । आद्ये सोऽप्यचेतन इति कथं कल्पकजीवत्वेन निश्चीयते । द्वितीये तु सुतराम् । बुद्ध्यनारूढस्य तथा निश्चेतुमशक्य-त्वात् । यद्यपि निश्चयपक्षत्रयदूषणावसान एवैतद्वक्तव्यं साधारणत्वात् । तथाऽपि विलम्ब-मसहमानेनात्रैवोक्तम् । एवं शिष्यादिविषयेऽपि निश्चयो निराकार्यः ।
अथ वा गुरुपक्ष एवेदं दूषणम् । तथा हि, किं सर्वेऽपि गुरुवः कल्पकाः किं वा कश्चिद् गुरुः । नाऽद्यः । एकजीववादपरित्यागापत्तेः । द्वितीये दोषमाह- न च बहूनामिति ।। बहूनां गुरूणाम् । अस्य गुरुव्यक्तिविशेषस्य ।
भावबोधः
स्वपक्ष इति ।। तथा च ‘सर्वमिदं परिकल्पितमिति जानतः’ इति मूलोक्तस्य कल्पिततया निश्चितत्वस्य हेतोरभावाद् दृष्टान्तस्य साधनविकलत्वमिति भावः । ननु स्वप्नादुत्थितस्य प्रवृत्तिविषयदर्शनरूपकारणाभावादेव प्रवृत्त्यभावोपपत्तौ न कल्पितत्वज्ञानस्य प्रतिबन्धकत्वं कल्पनीयम् । तथा च प्रकृते कारणसत्त्वात् प्रवृत्तिर्भवि-ष्यतीत्याशयेन शङ्कते- ननु च गुरुरिति ।। स्वप्ने त्वित्यनेन कथं कल्पितत्वज्ञानस्य प्रतिबन्धकत्वमुपपादितमित्यत आह-एतदुक्तं भवतीति ।। अपरोक्षज्ञानाभावादिति ।। गुरोः शिष्यादौ कल्पितत्वापरोक्षज्ञानाभावादि-त्यर्थः । कल्पितत्वापरोक्षज्ञानस्यैव प्रतिबन्धकत्वं, न परोक्षज्ञानस्येति भावः । दिङ्मोहादाविति ।। सूर्योदयवत्त्वा-न्नेयं प्रतीचीति प्रतीचीत्वकल्पितत्वपरोक्षज्ञानमात्रस्यापि भ्रमरूपप्रतीचीत्वदर्शनप्राप्तप्रवृत्तिप्रतिबन्धकत्वादि-त्यर्थः । गुरोरेवेति ।। अनेन अस्यैवेत्येवकारसम्बन्ध उक्तो भवति । तत्कथमिति ।। अचेतनानामकल्पकत्व-निश्चयादिति भावः । निश्चितपक्षत्रयेति ।। उर्वरितैक्यप्रवणशिष्यादिनिश्चितपक्षत्रयेत्यर्थः ।
भावदीपः
‘प्रमाणाभाव इति चेत्’ इत्यस्यैकाज्ञानेत्यादिमूलोक्तदूषणमग्रे ‘विदिततत्त्वो हि’ इत्यादिना विवरिष्यंस्तद्दूषणघटनाय विकल्पयति- अत्र वक्तव्यमित्यादिना ।। ऐक्यप्रवण इति ।। ऐक्याभिनिवेश-वानित्यर्थः । आद्य इति ।। ऐक्यप्रवणो गुरुरेव कल्पकत्वेन निश्चित इति पक्ष इत्यर्थः । शिष्याज्ञानेत्यग्रे कथनादाद्य इत्युक्तिः । अस्मिन्नपि ब्रह्माश्रिताज्ञानकल्पितं जगदिति मते शुद्धचिदाश्रिताज्ञातनकल्पितमिति मते च मूलोक्त-स्यालग्नत्वेन मतविशेष एव घटनाय मतभेदमाह - सर्वस्येत्यादिना प्रतिबिम्बपक्षपातीत्यन्तेन । ननु शुद्ध-चिदाश्रितत्वे कथं जीवे आविद्यकः संसार इत्यतस्तद्दृष्टान्तमाह- जीवभागेति ।। तेनेत्यस्य तत्परिहृतमित्य-न्वयः । यदुक्तं परैरित्यस्य तदित्यग्रेतनेन तच्छब्देनान्वयः । न दोष इतीतिपदस्य यदुक्तमिति पूर्वेणान्वयः । न वक्ष्यमाणेति ।। एकाज्ञानेति मूलोक्तेत्यर्थः । तयोः पक्षयोर्युक्तिविरुद्धतैवं सति नोक्ता स्यादित्यत आह- पक्षद्वयस्येति ।। ब्रह्माश्रितपक्षस्य चिन्मात्राश्रितपक्षस्य च ‘आत्माऽज्ञानात्मकत्वे च जगत आत्मनो भिन्नत्वेन न दृश्येत’ इत्यादिना भेदेनोपलम्भरूपदोषेण निरसिष्यमाणत्वादित्यर्थः । एकाज्ञानेत्यादि मूलं व्याचष्टे- विदितेति ।। स्वप्ने त्वित्यग्रे श्रवणादाह- स्वप्नादुत्थित इति शेष इति ।। स्वप्नस्येति ।। स्वप्नप्रतीतवस्तुजात-स्येत्यर्थः । ‘सन्ध्ये सृष्टिराह हि’ इत्यधिकरणे तथोक्तेरिति भावः । सत्यत्वे स्वाप्नपुत्रदायार्थं स्वप्नादुत्थितः कुतो न प्रवर्तत इत्यत आह- तदीयेति ।। ननु गुरुः शिष्यबोधार्थं न प्रवर्तेत तन्निष्ठकल्पितत्वनिश्चयवत्त्वादिति प्रागुक्तहेतुरप्रयोजकः । तद्दर्शनादेव स्वप्नपुत्रदायार्थमिव प्रवृत्त्युपपत्तेरित्याशङ्कानिवर्तकत्वेन मूलमवतारयति- ननु चेति ।। पञ्चम्यन्तयोर्हेतुहेतुमद्भावेन पश्यतीत्यत्र हेतुत्वं ध्येयम् । ननु परेणोच्यते दर्शनं प्रवृत्तिहेतुरिति । भवद्भिस्तु कल्पितत्वाज्ञानसहितमिति । किमत्र नियामकमित्यत आह- दिङ्मोहादाविति ।। आदिपदेन पीतः शङ्ख इत्याद्यौपाधिकभ्रमपरिग्रहः । प्राच्यादौ प्रतीचीत्वादिभ्रमे सत्याप्तवाक्यादिना प्रतीचीत्वादेः कल्पित्वज्ञाने सत्यौपाधिकतया भ्रमरूपदर्शने सत्यपि प्रतीचीत्वादिनिमित्तकप्रवृत्तेरदर्शनादित्यर्थः । अपरोक्षेति ।। कल्पित-त्वापरोक्षेत्यर्थः । परोक्षेति ।। कल्पितत्वपरोक्षज्ञानमात्रस्यापीत्यर्थः । प्रतिबन्धकत्वेति ।। प्रागुक्तदिशेति भावः । इत्यस्मिन्पक्ष इति ।। मायावादिमत इत्यर्थः । दशमस्त्वमसीत्यादाविव नेह नानेत्यादिशब्दात् कल्पितत्वापरोक्षज्ञानसम्भवेनापरोक्षज्ञानाभावोऽसम्भावित एवेत्युक्तम् । वेगेति ।। शरादिगतवेगाख्यसंस्कार इवेत्यर्थः । वाय्वादिरादिपदार्थः । निश्चितेति ।। निश्चितो योऽर्थः तस्य यदनुसन्धानं तत्प्रतिबध्य प्रवर्तयति पूर्वसंस्कार इत्यर्थः । तथा च कल्पितत्वं हि तन्मते निश्चितोऽर्थः । तदनुसन्धानं गुरोः प्रतिबध्य संस्कारस्तं प्रवर्तयतीति वाच्यम् । अस्त्वेवं को दोष इत्यत आह- ततश्चेति ।। संस्कारेण कल्पितत्वानुसन्धानप्रतिबन्धतश्चे-त्यर्थः । एवकारो भिन्नक्रम इत्युपेत्यास्येत्यनूद्यार्थमाह- अस्य गुरोरेवेति ।। कथं ते चेतना इति ।। दृश्यत्वस्य यद् दृश्यं तदचेतनमिति व्याप्तेरचेतनत्वनिश्चयादेकस्यैव गुरोरज्ञानकल्पितत्वं सर्वस्येति निश्चयो मम घटत इत्यर्थः । सुतरामिति ।। कथमित्यादिवाक्यस्यानुषङ्गः । निश्चयपक्षत्रयेति ।। ऐक्यप्रवणो गुरुः कल्पक इति निश्चयपक्ष एकः । ऐक्यप्रवणाः शिष्याः कल्पका इति निश्चयो द्वितीयः । भेदप्रवणः कल्पक इति निश्चयस्तृतीयः। प्राग्विकल्पिततादृशनिश्चयपक्षत्रयेत्यर्थः । स एव स्यादित्युक्त्यनन्तरं वक्तव्यमेतदित्यर्थः । एवं शिष्यादीति ।। बहुषु जीवेषु दृश्यमानेष्वयमेक एव कल्पक इति शिष्यविषये कथमेकजीववादिनो निश्चयः । ‘ननु यदि बहवो दृश्यन्ते कथं ते चेतना इत्यादेर्निश्चेतुमशक्यत्वात्’ इत्यन्तग्रन्थस्याप्यत्र योजनेन निराकार्य इत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
क्रमापेक्ष इति ।। बहुजीववादादिकं पश्चान्निराकुर्म इति भावः । आद्ये दोषमाहेति ।। सर्वस्य कल्पको जीवोऽमुक इति निश्चितः, स इदानीमैक्यप्रवणो गुरुश्चेति पक्ष इत्यर्थः । ‘एकाज्ञानपरिकल्पितत्वे हि’ इति मूले एकाज्ञानेत्यत्र कर्मधारयप्रतीतिनिवारणाय मध्यमपदलोपी समास इत्याशयेनाऽह- एकजीवा-(श्री.टि.) ज्ञानेति ।। एकजीवाज्ञानपरिकल्पितत्व इत्युक्तेः सार्थक्यं वक्तुमाह- केचित्खल्वित्यादिना ।। मायावादिनो वाचस्पतिप्रभृतयः । उपाधीति ।। अविद्यारूपोपाधीत्यर्थः । ब्रह्माश्रितमिति ।। एतन्मते सर्वज्ञे ब्रह्मण्येवाज्ञानम् । तथाहि- प्रमाणतस्सर्वं जानीयात्, स्वभावसिद्धया प्रज्ञया वा । नाऽद्यः । प्रमातृत्वस्याज्ञानसम्बन्धं विनाऽयोगात् । द्वितीये असङ्गस्वरूपस्याज्ञानं विना ज्ञातृत्वायोगात् । यथोक्तम्-
‘स्वरूपतः प्रमाणैर्वा सर्वज्ञत्वं द्विधा स्थितम् ।
तच्चोभयं विनाऽविद्यासम्बन्धं नैव सिध्यति ।।’ इति ।
भ्रान्त्या सर्वं जानीयादिति पक्षेऽपि भ्रान्तेरज्ञानकार्यत्वादज्ञानसम्बन्धं विना भ्रान्तेरेवायोगादिति पक्षत्रये सर्वज्ञे ब्रह्मण्येवाज्ञानमिति भावः । अपरे विवरणकारादयः । जीवत्वं दुःखादिविशिष्टत्वम् । ब्रह्मत्वं सार्वज्ञादिविशिष्ट-त्वम् । स्वरूपमात्रेति ।। उभयानुस्यूतचिन्मात्राश्रितमित्यर्थः । ‘आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला’ इति तद्वचनादिति भावः ।
नन्वज्ञानस्योभयानुस्यूतचिन्मात्राश्रितत्वे ब्रह्म विहाय जीव एव कुतस्तस्य संसारापादकत्वमित्याशङ्क्योपाधेः प्रतिबिम्बपक्षपातित्वादित्याशयेनाऽह- जीवभागपक्षपातीति ।। तत्र दृष्टान्तमाह- यथेति ।। मुखमात्रेति ।। मुखप्रतिमुखानुस्यूतमुखमात्रेत्यर्थः । प्रतिबिम्बेति ।। तत्रैव मालिन्यादिकमापादयतीत्यर्थः । दर्पणरूपोपाधेर्बिम्ब-सम्बन्धेन प्रतिबिम्बजनकत्वमुक्त्वा उभयानुस्यूतमुखमात्रसम्बन्धित्वं वदतोऽयमभिप्रायः । असम्बद्धस्य दर्पणस्य प्रतिमुखजनकत्वासम्भवाद् बिम्बं सम्बध्य जनयतीति वाच्यम् । तन्न युक्तम् । बिम्बत्वस्य प्रतिबिम्बसापेक्षत्वेन तदुत्पत्तेः पूर्वं तत्र बिम्बत्वस्यैवायोगात् । अत उभयानुस्यूतमुखमात्रसम्बन्धेनैव प्रतिमुखजनकत्वम्, एवं प्रकृतेऽ-पीति । तेनेति ।। एकाज्ञानपरिकल्पितत्वे च सर्वस्येति वचनेनेत्यर्थः । परैः जीवेऽज्ञानानङ्गीकारिभिः । परिच्छेदेन अज्ञानादिना परिच्छेदकेन । उपाधिनेति यावत् । कवलीकृतं विशिष्टम् । निरस्तेति ।। चैतन्यमात्रमेवेत्यर्थः । परिकल्पितत्वादेवेति ।। अविद्याकल्पितत्वादेवेत्यर्थः । तथा चाविद्यासिद्धौ तत्कल्पितजीवसिद्धिः, तत्सिद्धौ च तदाश्रिताविद्यासिद्धिरित्यन्योन्याश्रयादित्यर्थः । यथोक्तं परैः ‘पूर्वसिद्धतमसो हि पश्चिमो नाऽश्रयो भवति नापि गोचरः’ इति । वक्ष्यमाण इति ।। ‘शिष्यादिबोधनं न युज्यते’ इत्यादिर्वक्ष्यमाण इत्यर्थः । चैतन्यमात्रस्य शिष्याबोधकत्वादिति भावः । तत्परिहृतं भवतीति ।।
अयमभिसन्धिः । कल्पकजीवस्य गुरुत्वपक्षे यदत्र दूषणमुच्यत उत्तरत्र शिष्याज्ञानपरिकल्पितमित्यङ्गीकार इति शिष्यस्य कल्पकत्वपक्षे च यद्दूषणमुच्यते तदयुक्तम् । यदि गुरुशिष्यशब्दाभ्यामविद्याविशिश्व्चैतन्याभि-प्रायेण दूषणं भवद्भिरुच्यते तर्ह्यनुक्तोपालम्भः । अन्योन्याश्रयेण मया तत्राज्ञानानङ्गीकारात् । ततश्चैक-जीवाज्ञानपरिकल्पितत्वे शिष्याज्ञानपरिकल्पितत्व इत्ययमंशो व्यर्थः स्यात् । यदि च चैतन्यमात्रं गुरुशिष्य-शब्दाभ्यामभिप्रेतं तर्हि चैतन्यस्य शिष्यादिबोधकत्वाद्यभावेनात्र शिष्यादिबोधनं न युज्यत इति कथनमुत्तरत्र ‘सम्यग्ग्रन्थाधिगमस्येति सम्यग्ग्रन्थाधिगन्तृत्वकथनं चायुक्तं स्यात्’ इति यत्परैर्जीवेऽज्ञानानङ्गीकारिभिर्वादि-(श्री.टि.) भिर्दूषणमुक्तं तदेकजीवाज्ञानपरिकल्पितत्वे उत्तरत्र शिष्याज्ञानपरिकल्पितत्व इति वचनेन परिहृतं भवति । न ह्यस्माभिस्त्वां प्रति दूषणमभिधीयते, किं नाम येऽविद्याविशिष्टचैतन्ये जीवे गुरुशिष्यादिशब्दवाच्ये अज्ञानवादिनः तान् प्रत्येवेत्यनेन सूचितत्वादिति ।
ननु सर्वज्ञब्रह्माश्रितं चिन्मात्राश्रितं चाज्ञानमिति पक्षद्वयं विहाय जीवाश्रिताज्ञानपक्ष एव कस्माद्दूषणमुच्यते भगवत्पादैरित्यत आह- पक्षद्वयस्येति ।। ‘सर्वमिदं परिकल्पितमिति जानतः’ इत्युक्तस्य परिकल्पितत्वज्ञान-स्याऽवश्यकत्वमुपपादयति- विदिततत्त्वो हीति ।। जीवजडात्मकप्रपञ्चस्याविद्यापरिकल्पितत्वमेव हि तन्मते तत्त्वम् । तदज्ञाने तस्य गुरुत्वमेव न स्यात् । विदिततत्त्वस्यैव गुरुत्वात् । अतो गुरुत्वान्यथाऽनुपपत्त्या जीव-जडात्मकप्रपञ्चस्याविद्याकल्पितत्वज्ञानमावश्यकमिति सिध्यतीत्याशयः । निश्चितत्वादिति ।। अनेन शिष्याः गुरुणा श्रेयोऽर्थं न प्रयतितव्याः, तेन परिकल्पिततया निश्चितत्वात् । यद् येन कल्पिततया निश्चितं न तत् तत्प्रवृत्तिविषय इत्यनुमानं सूचितं भवति । तथाऽपीति ।। दृष्टान्ताभावेन व्याप्त्यनिश्चयादुक्तानुमानेऽप्रयोजकतेति भावः । स्वपक्ष इति ।। तथा चास्मन्मते स्वप्ने हेतोरभावात्साधनवैकल्यं स्यादिति भावः । ननु यदि परप्रसिद्ध्यैवेदं दृष्टान्ताभिधानं तर्हि भवत्सिद्धान्ते स्वाप्नस्य सत्यत्वात्तदीयदायार्थं स्वप्नादुत्थितो यतेतैवेत्यत आह-तदीयेति ।। अयतनं तु अस्मन्मते युक्तमिति शेषः । ननु प्रवृत्तौ प्रवृत्तिविषयदर्शनं कारणम् । तदस्ति प्रकृते, ततस्तद्वोधनार्थं प्रवृत्तिर्युक्ता । स्वप्नादुत्थितस्य प्रवृत्तिविषयदर्शनाभावादेव तदीयदायार्थमप्रवृत्तिर्युक्ता । स्वप्ने तु प्रवृत्तिविषय-दर्शनसद्भावादेव प्रवर्तत इत्याशङ्कते- ननु चेति ।। दर्शनमात्रेणेति ।। प्रवृत्तिविषयदर्शनमात्रेणत्यर्थः ।
एतदुक्तं भवतीत्यादेरयमाशयः । प्रवृत्तिविषयदर्शनमात्रं न प्रवृत्तौ कारणम् । तथात्वे प्राच्यां प्रतीची-त्वारोपानन्तरं तत्र प्रतीचीत्वं कल्पितमिति कल्पितत्वनिश्चयानन्तरमपि प्रवृत्तिः स्यात् । प्रतीच्यां दिशि प्रवृत्त्यर्थिनः प्रवृत्तिविषयप्रतीचीत्वदर्शनस्य कल्पितत्वनिश्चयरूपस्य सत्त्वात् । अतः कल्पितत्वाज्ञानसहितं प्रवृत्तिविषयदर्शनं प्रवृत्तौ कारणमिति वाच्यम् । स्वप्ने त्वेतत्कारणसद्भावाद्युक्ता प्रवृत्तिः । प्रकृते तु गुरौ शिष्यादिदर्शनरूप-विशेष्यसद्भावेऽपि विदिततत्त्वस्यैव गुरुत्वेन तदन्यथाऽनुपपत्त्या शिष्यादिप्रपञ्चस्य कल्पितत्वज्ञानस्यैव सद्भावेन कल्पितत्वाज्ञानरूपविशेषणाभावेन कल्पितत्वाज्ञानसहितप्रवृत्तिविषयदर्शनरूविशिष्टस्य प्रवृत्तिकारणस्याभावेन शिष्यादिबोधने प्रवृत्तिर्न स्यादित्युक्तं युक्तमेवेति । ननु प्रवृत्तौ कल्पितत्वापरोक्षज्ञानाभावसहितं प्रवृत्तिविषयदर्शनं प्रयोजकमित्युच्यते । प्रकृते च गुरोः शिष्यादौ कल्पितत्वापरोक्षज्ञानाभावसद्भावाद्युक्ता शिष्यादिबोधने प्रवृत्तिरित्याशङ्कते- अपरोक्षेति ।। दिङ्मोहादाविति ।। नेदमपि प्रवृत्तौ प्रयोजकम् । प्राच्यां प्रतीचीत्वाऽरोपा-नन्तरं सूर्योदयवत्त्वान्नेयं प्रतीचीति केनचिदाप्तेनोक्ते तद्वाक्यजन्यकल्पितत्वपरोक्षज्ञानेनापि प्रतीच्यां कार्यार्थी न प्रवर्तत इत्यनुभवसिद्धम् । एवं च कल्पितत्वापरोक्षज्ञानाभावसहितप्रवृत्तिविषयदर्शनसद्भावात् प्रवृत्तिः स्यात् । न भवति च प्रवृत्तिः, अतो व्यभिचारान्नेदमपि प्रयोजकमिति भावः । कल्पितत्वापरोक्षज्ञानाभावसहितस्य प्रवृत्तिविषयदर्शनस्य प्रवृत्तिजनकत्वमङ्गीकृत्य दूषणमुक्तम् । वस्तुतस्तु नेदं प्रयोजकं गुरौ त्वया वक्तुं (श्री.टि.) शक्यते । तस्यापि कल्पितत्वापरोक्षज्ञानसद्भावात् । न च तस्याऽगमेन कल्पितत्वविषयकं परोक्षज्ञानमेवास्तीति वाच्यम् । दशमस्त्वमसीति वाक्ये प्रयुक्तेऽहं दशमोऽस्मीत्यपरोक्षज्ञानं शब्दादुत्पद्यत इति त्वयाऽङ्गीकृतत्वेनाऽगमेनापि गुरोः कल्पितत्वापरोक्षज्ञानस्यैव जायमानत्वेन उक्तप्रयोजकाभावात् प्रवृत्तिरयुक्तै-वेत्याह- किञ्चेति ।। ननु गुरोस्तत्त्वज्ञानाभावदशायां तावदकल्पितत्वज्ञानमस्ति । तज्जन्याकल्पितत्वसंस्कारस्य तत्त्वज्ञानदशायामपि सत्त्वेन तावन्मात्रादेव युक्ता शिष्यादिबोधने प्रवृत्तिरित्याशङ्कते- संस्कारादिति ।। अयं संस्कारः । वेगादिवदिति ।। यथा वेगसंस्कारः शरं पातयति तद्वदित्यर्थः । बलादिति ।। प्रवृत्तीच्छाशून्य-मपीत्याशयः । निश्चितार्थेति ।। तत्त्वज्ञानदशायां निश्चितो योऽयमर्थः शिष्यादेः कल्पितत्वरूपस्तदनुसन्धानं प्रतिबध्य शिष्यादिबोधने प्रवृत्तिं जनयति संस्कार इति वक्तव्यमित्यर्थः । ओमिति चेत्तत्राऽह- ततश्चेति ।। घटतां नामेति ।। निश्चितार्थानुसन्धानाभावेऽपि भिक्षाटनादौ प्रवृत्तिसम्भवादित्यर्थः । औतं बोधयन्निति हेतुगर्भं विशेषणम् । ब्रह्मैकमेव तत्त्वमितरन्मिथ्येत्येवम् ‘एकमेवाद्वितीयम्’ ‘नेह नानाऽस्ति किञ्चन’ इत्यादिना शिष्यं बोधयन्गुरुः कथं कल्पितत्वानुसन्धानहीनस्स्यात् । तदनुसन्धानाभाव उक्ताद्वैतबोधनमेवानुपपन्नमिति भावः ।
कथं त इति ।। तथा च दृश्यत्वाद्घटादिवदचेतना एवेत्यर्थः । तत्कथमिति ।। तथा च दृश्यमानानां बहूनामचेतनत्वेनाचेतनानां चाकल्पकत्वनिश्चयादस्य गुरोरेवाज्ञानकल्पितमिति निश्चयो युज्यत एवेति भावः। सोऽप्यचेतन इति ।। अन्यथा अचेतनत्वसाधकदृश्यत्वहेतोस्तत्र व्यभिचारः स्यादिति भावः । तथेति ।। कल्पकजीवत्वेनेत्यर्थः । यद्यपि निश्चयपक्षत्रयेति ।। ऐक्यप्रवणो गुरुरिति निश्चयपक्षस्य दूषितत्वाद्, ऐक्यप्रवणः शिष्यः, भेदप्रवणो गुरुः, भेदप्रवणः शिष्यश्चेति निश्चयपक्षत्रयदूषणावसान इत्यर्थः । एतदिति ।। ‘बहूनां दृश्यमानत्वात्’ इत्यादिना क्रियमाणं दूषणमित्यर्थः । कुत इत्यत आह- साधारणत्वादिति ।। बहूनां दृश्यमानत्वादस्य गुरोरेवाज्ञानकल्पितमिति निश्चयो न सम्भवतीति दूषणस्य बहूनां दृश्यमानत्वादस्य शिष्यस्यैवा-ज्ञानकल्पितमिति निश्चयो न सम्भवतीति शिष्यस्य कल्पकत्वपक्षेऽपि साधारणत्वादिर्त्थः । तथा चैक्यप्रवणो गुरुः कल्पक इति पक्षदूषणानन्तरमेव न वक्तव्यमिति भावः । अत्रैवेति ।। ऐक्यप्रवणो गुरुरिति निश्चयपक्ष-दूषणानन्तरमेवेत्यर्थः। नन्वनेनैव प्रकारेण शिष्यः कल्पक इति निश्चयपक्षो भेदप्रवणो गुरुः शिष्यश्च कल्पक इति निश्चयपक्षो भगवत्पादैरेव कस्मान्न निराकृत इत्यतः साधरणत्वादित्युक्तमेव दर्शयति- एवं शिष्यादीति ।। तथा च बहूनां दृश्यमानत्वादस्यैव शिष्यस्याज्ञानेन परिकल्पितमिति निश्चयो न युज्यते । आदिपदेन भेदप्रवणो गुरुरिति पक्षेऽपि भेदप्रवणानां गुरूणां बहूनां दृश्यमानत्वादस्यैव भेदप्रवणस्य गुरोरज्ञानपरिकल्पितमिति निश्चयो न युज्यते । तथा भेदप्रवणः शिष्य इति पक्षेऽपि भेदप्रवणानां शिष्याणां बहूनां दृश्यमानत्वादस्यैव भेदप्रवणस्य शिष्यस्याज्ञानपरिकल्पितमिति निश्चयो न युज्यत इत्येवं शिष्यः कल्पक इति निश्चयपक्षः, भेदप्रवणो गुरुरिति च निश्चयपक्षः, भेदप्रवणः शिष्य इति च निश्चयपक्षः, एवं गुरुः कल्पक इति निश्चयपक्षनिराकरणे यः प्रकारो ‘न च बहूनां दृश्यमानत्वात्’ इत्यादिनोक्तस्तेनैव प्रकारेणोक्तरीत्या निराकार्य इत्यर्थः । अत्र शिष्यः कल्पक इति पक्षे (श्री.टि.) शिष्याज्ञानपरिकल्पितमित्यङ्गीकार इत्यनेन भेदप्रवणो गुरुः शिष्यश्च कल्पक इति च पक्षे स चैको जीवो यदि भेदवादीत्यादिनोत्तरत्र यद्दूषणमुच्यते भगवत्पादैस्तच्छिष्यादीनां कल्पकत्वनिश्चयपक्ष एव । अत्र तु निश्चय एव नोपपद्यत इत्युच्यत इति महान्भेद इति ज्ञातव्यम् । पूर्वं सामान्याकारेण गुरोः कल्पकत्वं न सम्भवतीत्येवंपरत्वेन ‘न च बहूनाम्’ इति मूलं व्याख्याय गुरुव्यक्तिविशेषस्यापि कल्पकत्वं न सम्भवती-त्येवंपरतया व्याचष्टे-अथ वेति ।।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
अस्त्वेवमेकजीववादपदसूचितमैक्यवादिनामनेकविधत्वम् । तथाऽप्येकजीववादिनिराकरणमात्रेण नैक्यस्य युक्तिविरुद्धत्वादिसिद्धिः । तन्मतानामनिराकरणात् । न चोत्तरत्र तेषामपि निरासात्तत्सिद्धिः । सर्वमतानां निरस्यत्वे असति निमित्तविशेषे एकजीववादस्य प्रथमं निरासस्य निर्निमित्तत्वादित्यत आह- एतेष्विति ।। अनेकविधेष्वैक्यवादिष्वित्यर्थः । ननु अज्ञानकल्पितत्वे हि सर्वस्येति वक्तुं शक्यत्वात्तथाऽनुक्त्वा मूले ‘एकाज्ञान-परिकल्पितत्वे हि सर्वस्य’ इति किमर्थमुक्तमित्याशङ्क्य, अज्ञानकल्पितत्वपक्षाणामप्यनेकविधत्वात् तदनुक्तौ वक्ष्यमाणदोषस्य सर्वमतसाधारणत्वप्रतीतिः स्यात् । तन्निरासार्थं मतविशेषनिर्धारणाय तदुक्तमिति भावेन अज्ञानकल्पितत्वेऽपि मतभेदमाह- केचिदित्यादिना ।। स्वरूपमात्राश्रितत्वेऽज्ञानस्य तत्कार्यं स्वरूपमात्र एव स्यात् । जीव एव तु कुत इत्यत उपाधेः प्रतिबिम्बपक्षपातित्वाद्युक्तं जीव एव तत्कार्यदर्शनमिति भावेनोक्तम्- जीवभागपक्षपातीति ।। ननु चिन्मात्रसम्बन्धिनस्तस्य कथं प्रतिबिम्बे जीवे पक्षपात इत्यतो मुखमात्र-सम्बन्धिनोऽपि दर्पणस्य प्रतिमुखे पक्षपातवत् चिन्मात्रसम्बन्धिनोऽप्यज्ञानस्य स युक्त इत्याह- यथेति ।। अविद्याऽऽश्रयत्वानङ्गीकारादिति ।। कल्पितस्याप्यज्ञानाश्रयत्वे अज्ञानसिद्धौ कल्पितसिद्धिः, तत्सिद्धौ चाज्ञानसिद्धिरित्यन्योन्याश्रयप्रसङ्गादिति भावः । नन्वनेन जीवाज्ञानपरिकल्पितत्वे दोषाभिधानात्तन्निरास-सिद्धावपि सत्यज्ञानानन्दस्वरूपब्रह्माश्रिताज्ञानपरिकल्पितत्वपक्षस्य जीवब्रह्मत्वविवक्षां विहाय स्वरूपमात्राश्रित-जीवभागपक्षपात्यज्ञानकल्पितत्वपक्षस्य चानेन निरासादुपपन्नत्वस्य च प्रसक्त्या जगतो नाज्ञानकल्पितत्वा-भावसिद्धिरित्यतः, अनेन दोषेण तस्या निरासेऽपि वक्ष्यमाणरीत्या दुष्टत्वेनानुपपन्नत्वसिद्ध्या युक्त एव जगतो अज्ञानकल्पितत्वाभाव इति भावेनाऽह- पक्षद्वयस्येति ।।
ननु गुरोस्तथा ज्ञानाभावादेव शिष्यबोधनं किं न स्यादित्यतः तथा सति गुरुत्वमेव न स्यादिति भावेन निमित्तनैमित्तिकभावोपपादनपूर्वकं वाक्याभिप्रायमाह- विदिततत्त्वो हीति ।। परप्रसिद्ध्या चेति ।। पर-प्रसिद्ध्यैवेत्यर्थः । कुत इत्यतः स्वपक्षेऽर्थज्ञानात्मकस्य स्वप्नस्य सत्यत्वेन स्वाप्नपुत्रस्यापि सत्यतयाऽकल्पिततया निश्चित्वाद्धेतोस्तत्राभावेन साधनवैकल्यापत्त्या स्वरीत्या एतद्दृष्टान्तकथनस्यासम्भवादिति भावेनाऽह- स्वपक्ष इति ।। तर्हि तन्मते स्वप्नादुत्थितस्य कुतः स्वाप्नपुत्रदायार्थमयतनमित्यत आह- तदीयेति ।। तर्ह्युभयप्रसिद्ध्या दृष्टान्ताभावेन कथं ‘यो येन कल्पिततया निश्चितो न तत्पुरुषार्थायासौ यतते’ इत्युक्तव्याप्तिसिद्धिरित्यत आह- उभयप्रसिद्ध्येति ।। ननु गुरोर्विदिततत्त्वतया शिष्यादिकमज्ञानकल्पितमिति निश्चयेऽपि तस्य निश्चयस्यापरि-(पां.टि.) पक्वत्वेन शिष्यादिदर्शनप्रतिबन्धकपरिपक्वनिश्चयाभावेन शिष्यादिदर्शनसम्भवाद्युक्तैव तत्पुरुषार्थोद्देशेन तद्बोधनार्था प्रवृत्तिः । किञ्च संसारमूलकारणभूताविद्या यद्यप्येकैव । तथाऽपि तस्याः सन्त्येव बहव आकाराः । तत्रैको बन्धस्य परमार्थसत्यत्वविभ्रमहेतुः । द्वितीयोऽर्थक्रियासमर्थवस्तुकल्पकः । तृतीयस्तु अपरोक्षप्रतिभास-विषयाकारकल्पकः । तत्राद्वैतस्य सत्यत्वाध्यवसायेन समस्तद्वैतसत्यत्वकल्पकाकारो निवर्तते । अर्थक्रियासमर्थ-प्रपञ्चोपादानमायाकारस्तत्त्वसाक्षात्कारेण विलीयते । अपरोऽपि प्रतिभासयोग्यार्थावभासजनकस्तु मायालेशो जीवन्मुक्तस्यानिवृत्तः समाध्यवस्थायां तिरोहितोऽन्यदा देहावभासजगदवभासहेतुतयाऽनुवर्तते । प्रारब्धकर्म-फलोपभोगावसाने तु निवर्तते, इति परेषां प्रक्रिया । तथा चैषामाकाराणां मध्ये गुरोर्विदिततत्त्वतया परमार्थ-सत्यत्वविभ्रमहेतोराकारस्य-औतसत्यतानिश्चयेनार्थक्रियासमर्थवस्तुकल्पकमायाकारस्य च तत्त्वसाक्षात्कारेण निवृत्तावपि, प्रारब्धकर्मभोगस्यावशिष्टत्वेन तदवसानविरहान्नाश्यस्यापरोक्षप्रतिभासयोग्यार्थावभासजनकस्य तृतीयाकारस्यानिवृत्तत्वेन तद्वशाच्छिष्यादिदर्शनसम्भवेन युक्ततरैव तत्पुरुषर्थोद्देशेन बोधनार्था गुरोः प्रवृत्तिरिति शङ्कते- नन्विति ।। नन्वेवं स्वप्नादुत्थितस्य स्वाप्नपुत्रदायार्था प्रवृत्तिः किं न स्यादित्यत आह- स्वप्नादुत्थित इति ।।
‘स्वप्ने तु इति’ मूले प्रतिज्ञामात्रस्य कृतत्वेऽपि हेतोरनुक्तत्वान्न विवक्षितार्थसिद्धिः । अन्यथा विपरीतार्थप्रतिज्ञया तस्यापि सिद्धिः स्यादित्यतः स्वयं हेतूक्त्या तामुपपादयति- एतदुक्तं भवतीति ।। न प्रवर्तेतैवेति पूर्वेणान्वयः। अपरोक्षज्ञानाभावादिति ।। गुरोः शिष्यादिकं कल्पितमिति कल्पितत्वापरोक्षज्ञानस्यैव प्रवृत्तिप्रतिबन्धकत्वेन तत्परोक्षज्ञानस्य प्रतिबन्धकत्वाभावाद् गुरोः कल्पितत्वपरोक्षज्ञानसद्भावेऽपि प्रवृत्तिप्रतिबन्धकापरोक्षज्ञाना-भावाद्युक्तैव तद्बोधनार्था प्रवृत्तिरिति भावः । दिङ्मोहादाविति ।। सूर्योदयवत्त्वेन नेयं प्रतीचीति प्रतीचीत्व-कल्पितत्वपरोक्षज्ञानमात्रस्यापि भ्रमरूपप्रतीचीत्वदर्शनप्राप्तप्रवृत्तिप्रतिबन्धकत्वदर्शनादित्यर्थः । अङ्गीकृत्यैव च कल्पितत्वापरोक्षज्ञानाभावं तत्परोक्षज्ञानस्यापि प्रवृत्तिप्रतिबन्धकत्वदर्शनात्प्रवृत्तिर्न स्यादित्यापादनं कृतम् । वस्तुतस्तु कल्पितत्वापरोक्षज्ञानस्यापि विद्यमानत्वाद् गुरोस्तत्त्वबोधनार्था प्रवृत्तिर्न स्यादेवेत्याह- किञ्चेति ।। ज्ञानेनाविद्यायां निवृत्तायामपि तत्संस्कारेण शिष्यादिदर्शनोपपत्त्या युक्ता तद्बोधनार्था प्रवृत्तिरित्याशङ्क्य निराकरोति- संस्कारेति ।। संस्कारस्याविद्याकार्यत्वे तन्निवृत्तौ अवस्थानानुपपत्तिः । न ह्युपादाने निवृत्ते कार्यमवस्थितं दृष्टम् । अकार्यत्वे अविद्यातत्कार्ययोरन्यतरत्वाभावात्सत्यत्वापत्तिरिति सत्येव दोषे स्फुटत्वात् तमनुक्त्वा दोषान्तरमेवाऽह- तर्ह्ययमिति गुरुरेवेति ।। गुरुरेव कल्पक इति निश्चयपक्षस्य दूषितत्त्वात् तन्नियमानु-पपत्तिव्युत्पादनपरस्यास्य ग्रन्थस्य पूर्वविरोधमाशङ्क्य परिहरति- गुरुरेवेति ।। निश्चयपक्षत्रयेति ।। गुरुरेव कल्पकः, शिष्य एव कल्पको, भेदप्रवण एव कल्पको जीव इति निश्चयपक्षत्रयेत्यर्थः । निश्चयपक्षत्रयावसान एवास्य दोषस्य वक्तव्यत्वे निमित्तमाह- साधारणत्वादिति ।। इदमिति ।। ‘बहूनां दृश्यमानत्वात्’ इत्यादिक-मित्यर्थः। न त्वनियमपक्ष इत्यर्थः ।।
लघुप्रभा
(व्या.टि.)
एवमनूदितेषु विरुद्धवादेष्वेकजीववादस्यैवादावपवादे बीजमाह- एतेष्विति ।। ननु प्रतिपक्षमात्र-प्रतिक्षेपे हि स्वपक्षनिर्धारणं सम्भवति । न तदेकदेशप्रतिक्षेपे । प्रतिपक्षन्तरे विरोधिनि जागरूके स्वपक्षावधारणा-सम्भवात् । यथोक्तं गौतमसूत्रे ‘विमृश्य पक्षप्रतिपक्षाभ्यां तत्त्वावधारणं निर्णयः’ इति । अतस्तदेकदेश-निराकरणप्रतिज्ञा न मनोज्ञेत्यत आह- तावच्छब्दः क्रमापेक्ष इति ।। न हेतुमन्तरेण प्रतिज्ञामात्रेणार्थसिद्धिः । वादिन्यनाश्वासादित्यतोऽभिसंहितहेतू दर्शयति-प्रमाणेत्यादिना ।। आद्ये हेतोरसिद्धिं शङ्कते- नन्विति ।। अनुमिमानेनेति ।। जौहोत्यादिकादनुपूर्वात् ‘मा निर्माणे’ इत्यतः शानच् । अमुक इति ।। नन्वमुक इति सुधायामत्र च निर्दिश्व्ं कथं निर्वोढव्यम् । अदसोऽकचा वा केन वा । न चाकचा निर्वाहः । अकचि हि सति ‘अदस औत्वप्रतिषेधः साकच्कस्य वा, सात् उत्वं च’ इति वार्तिकेनादस औत्वप्रतिषेधविकल्पे प्रतिषेधसंनियोगशिश्व्ं सादुत्वं प्रतिषेध एवेति तस्मिन्सत्यसुक इति, औत्वे ‘तदोः’ इति सत्वे चासकाविति भाव्यत्वेनामुक इत्यस्य कथमप्यभाव्यत्वात् । न द्वितीयः । कप्रत्ययस्य प्रागिवीयत्वेन प्राग्दिशीयत्वाभावेन विभक्तिसंज्ञाऽभावेन त्यदाद्यत्वाभावेनासान्तत्वप्रयुक्तमुत्वासम्भवात् । अकचा बाधाच्चेति चेत्, अत्राऽभाति
‘सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः ।
न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ।।’
इत्युक्तेः, अदसोऽकचि वार्तिकादौत्वप्रतिषेधपक्षे परशब्दस्येष्टार्थत्वेन सत्वात्पूर्वं त्यदाद्यत्वे परत्वान्मुत्वे प्रसक्ते तस्य ‘न मु ने’ इत्यत्र नेति नमु इति वा योगविभागात्सत्वे कार्ये कदाचिदसिद्धत्वाभावेऽमुक इति रूपं निर्वाह्यम् । अन्यथा बहुपुराणकल्पसूत्रप्राचीननिबन्धप्रयोगानुपपत्तेः । यद्वा एतदर्थं ‘सादुत्वं च’ इति वार्तिकमपि स चादुत्वं च सादुत्वम् । अच्च संनिधानादिष्टानुरोधेन च सात्परो गृह्यते । अस्य च वेति सम्बध्य वैकल्पिकत्वं प्रतिषेधपक्षत्वं चायं विकल्प इति व्याख्यायते । अयं चोभयत्र विकल्पः । तथा चौत्वप्रतिषेधे सुत्वे ‘असुक’ इति, मुत्वे ‘अमुक’ इति, औत्वे तु ‘असकौ’ इति रूपत्रयं प्रामाणिकम् इति रहस्यम् । यद्वा लघुशब्देन्दुशेखरोक्त-रीत्या अदश्शब्दपर्यायस्यामुकशब्दस्य सत्त्वेन अमुक इति रूपं साधु । एतेनामुकशर्मेत्यादिप्रयोगोऽपि सिद्ध्यति । अधिकन्तु गुरुप्रभायाम् ।
ननु पक्षविशेषप्रतिग्रहेण दूषणाभिधानं कुत इत्यतो दोषस्यासाधारणत्वात् पक्षाणां विजातीयत्वादित्याशयेन पक्षत्रयमनुवदति- केचित्खल्विति ।। एतदुक्तिलब्धफलमाह- तेनेति ।। परिहृतमिति ।। पक्षविशेषपरिग्रहेण विकल्पानवकाशादिति भावः । अवच्छिन्नचैतन्यस्याज्ञानानाश्रयत्वमते कल्पकपरगुर्वादिपदेन तद्ग्रहणस्य, चिन्मात्र ग्रहणे इष्टापत्त्या बोधकत्वापादनस्यायुक्तत्वेऽप्यज्ञानस्य जीवाश्रितत्वपक्षे दोषाभावादित्याकूतम् । प्रतिपक्षपक्षत्रये पक्षद्वयस्याविशिष्टत्वान्निराकरणन्यूनतेत्यत आह- पक्षद्वयस्येति ।। जानत इति हेतुगर्भविशेषणमित्याशयेन व्याचष्टे- विदितेति ।। स्वप्ने स्वप्नत्वनिश्चयाभावादाह- स्वप्नादिति ।। (बा)बोधेन मिथ्यात्वज्ञानादिति शेषः । ननु किमीयः पक्षो निदर्शित इत्यत आह- परेति ।। स्वपक्षे प्रवृत्त्यभावं स्वप्नादुत्थितस्य घटयति- विनष्टज्ञाना-(व्या.टि.) दिति ।। ननूभयसिद्धं निदर्शनीयम् । अन्यथाऽन्यतरसाधनवैकल्येन दृष्टान्तस्य दुष्टत्वापातादित्यत आह-उभयेति ।। नन्वयतने न कल्पितत्वनिश्चयः प्रयोजकः, किन्तु प्रतिवस्त्वदर्शनमिति वक्तुं दर्शनस्य प्रवृत्ति-प्रयोजकतामाशङ्कते- ननु चेति ।। पञ्चमीप्रकृत्यर्थद्वयं दर्शनहेतुद्वयम् । अन्वयव्यतिरेकावुदाहरति- यथेति ।। स्वप्नादिति । मूलेऽवधारणं न दर्शनव्यवच्छेदकं, किन्तु तदीयावधारणव्यवच्छेदकमित्याह- न दर्शनमात्रे-णेति ।। ननूभयप्रयोजकत्वेऽन्यतरेणार्थसिद्धिः स्यादित्यत आकूतमावेदयति- एतदुक्तं भवतीति ।। अज्ञान-सहितमिति ।। विशिष्टं प्रयोजकं(चो)नोभयमिति भावः । विशिष्टप्रयोजकतासाधनाय विशेष्यदलस्य व्यभिचारं दर्शयति- दिङ्मोहादाविति ।। विशिष्टस्यान्वयं दर्शयति- स्वप्ने त्विति ।। एवमापादकस्य प्रयोजकतां प्रसाध्याऽपादनप्रकारमाह- अत इति ।। कल्पितत्वस्यापरोक्षज्ञानं प्रवृत्तिप्रतिबन्धकमित्याशयानः(येन)शङ्कते- अपरोक्षेति ।। परोक्षेति ।। शब्दादिजन्यस्येत्यर्थः । हेत्वसिद्धमाह- किञ्चेति ।। अस्मिन्पक्ष इति ।। ‘दशमस्त्वमसि’ इतिवत् ‘तत्त्वमसि’ इति युष्मच्छब्दश्राविणामहमस्मीति शाब्दापरोक्षोदय इति मायिपक्ष इत्यर्थः । संस्कारादिति ।। भावनाभिधानादित्यर्थः । द्वारबाधात्तदयोग इति वक्तुं तस्येतरसंस्कारवैजात्यमाह- न हीति ।। द्वारमाक्षिपति-कथमिति ।। ननु बहुदर्शनेऽपि जडत्वान्न कल्पकतेत्यतो व्याचष्टे-जीवानामिति ।। विशेषोक्तिः सावधारिणीत्याह- गुरोरेवेति ।। कथमित्याक्षेपे । दृश्यत्वस्य जडत्वव्याप्तेरित्यर्थः । कथमिति ।। दृश्यस्य जडत्वेन द्रष्टुश्चेतनत्वेन कल्पकत्वनिश्चयसम्भवादित्यर्थः । दृश्यत्वस्य जडत्वप्रतिबन्धं पराकर्तुं प्रतिबन्दी गृह्णाति- गुरुरपीति ।। सोऽपीति ।। अन्यथा तत्र व्यभिचारः स्यादित्यर्थः । तथा कल्पकत्वेन । दूषणेति ।। असाधारणेत्यर्थः । साधारणत्वादिति ।। पक्षत्रयेऽपि साम्यादित्यर्थः । साम्यं दर्शयति- एवमिति ।। अस्यैव शिष्यस्येति, अस्यैव भेदप्रवणस्येति व्याख्येयमित्यर्थः । एवं पक्षत्रयसाधारणदूषणपरतया मूलं व्याख्यायासाधारण-परतयाऽपि व्याचष्टे- अथ वेति ।।