तस्य तत्र प्रामाण्यानुभवाच्च ..
सदृष्टान्तं सिद्धार्थमात्रपराणां वाक्यानां प्रामाण्यस्य समर्थनम्
मूलम्
- तस्य तत्र प्रामाण्यानुभवाच्च । नच कुत्रचित्सिद्धज्ञापनादन्यद्वाक्यस्य प्रयोजनं दृष्टम् । ज्ञात्वैव हीष्टसाधनतां प्रवर्तते ; निवर्तते च विपर्ययेण । अतः सिद्ध एव सर्ववाक्यानां प्रामाण्यं सिद्धम् । प्रसिद्धं च व्याकरणनिरुक्तादीनां सिद्धमात्रे प्रामाण्यं सर्ववादिनाम् । तदनङ्गीकारे च सर्वशाब्दव्यवहारासिद्धिः ।
तत्त्वमञ्जरी
कथं वाक्यपर्यवसितिर्निश्चीयत इत्यत आह- तस्येति ।। तस्य वाक्यस्य । तत्र अर्थे । ननु यज्ञादिकर्तव्यताज्ञापनं हि वाक्यप्रयोजनम् । अतः कथं कर्तव्यतायामतात्पर्यमित्यत आह- न च कुत्रचिदिति ।। ‘स्वर्गकामो यजेत’ इत्यादिविधिवाक्येऽपि यजनक्रियायाः स्वर्गसुखाख्येश्व्-साधनतां ज्ञात्वैव हि प्रवर्तते; न विधिमात्रात् । ‘विषं भुङ्क्ष्व’ इत्यादिविधौ सत्यपि विपर्ययेणानिश्व्-साधनताज्ञानेन निवर्तते च । अत इष्टसाधनाख्ये सिद्धे सर्ववाक्यानां प्रामाण्यम् । इष्टसाधनं च भगवानेव । ‘साधनमिष्टस्य भगवानिष्टदेवता’ इति ह्यनुव्याख्यायाम् । सिद्धमात्रे शब्दस्वरूपादा-वेव, न तु कार्ये । व्याकरणाद्यनङ्गीकारे सुशब्दापशब्दविभागे प्रमाणाभावाद् व्यवहारासिद्धिः ।
टीका
ननु तथाऽपि केवलसिद्धपरत्वे वाक्यस्यानुवादकत्वेनाप्रामाण्यं स्यात् । ततः सर्वथा कार्य-परता स्वीकार्या । कार्यस्य च प्रमाणान्तरागोचरत्वेन नानुवादकत्वप्रसङ्ग इत्यत आह- तस्येति ।। पू(र्वैवा)र्वत्रेवात्राप्यनुवृत्तिः । तस्य इयं मातेत्यादिवाक्यस्य । तत्र केवलसिद्धार्थे । प्रामाण्यं नाम यथावस्थितार्थबोधकत्वं नान्यत् । तच्च केवलसिद्धेऽप्यर्थे प्रत्यक्षादेरिव वाक्यस्याप्यनुभूयते । अस्ति चासावर्थो यः सिद्धोऽपि प्रमाणान्तरेणाविदितपूर्वः । ततः सिद्धार्थ एव इयं मातेत्यादि-वाक्यस्याननुवादकत्वमप्यनुभूयत एव । अतः केवलसिद्धार्थे वाक्यस्य नाप्रामाण्यमिति किं कार्यपरत्वाऽग्रहेण । स्यादेतत् । यद्यपि बोधकत्वेनैव प्रमाणानां प्रामाण्यम् । तथाऽपि वाक्यप्रयोगस्य परार्थत्वात् परप्रयोजनाङ्गमेव वाक्यं प्रामाण्यमश्नुते । यथा ‘अग्निहोत्रं जुहुयात् स्वर्गकामः’ इत्यादि । नान्यत् यथाऽष्टौ काकस्य दन्ता इति । परप्रयोजनाङ्गं च तदेव यत्कार्यपरम् । ततः कथं केवलसिद्धेऽर्थे वाक्यप्रामाण्यमित्यत आह- नचेति ।। सिद्धेति प्रकृतत्वादेवोक्तम् । ततश्चैवं व्याख्येयम् । वाक्यं हि प्रमाणम् । तच्च प्रमासाधनम् । प्रमा च यथार्थज्ञानम् । अतस्तस्य परज्ञापनमेव प्रयोजनं छिदासाधनस्य परशोः छिदेव । नहि तत्साधनस्य ततोऽन्यत्प्रयोजनं दृष्टम् । तच्च प्रयोजनं सिद्धविषयस्याप्यस्तीति कथं प्रामाण्यानुपपत्तिरिति ।
अथवा कार्यमपि सिद्धविशेष एवेष्टसाधनलक्षण इति भावेन सिद्धेत्युक्तम् । यथावस्थितपर्यायो वा सिद्धशब्दः । सत्यमेतज्ज्ञापनमेव साक्षाद्वाक्यस्य प्रयोजनम् । तथाऽपि स एवार्थो वाक्येन ज्ञापनीयो यज्ज्ञानं परस्य क्वचित्प्रवृत्तिं कुतश्चिन्निवृत्तिं वा कुर्यात्, परप्रवृत्तिनिवृत्त्यभिप्रायेण वाक्यप्रयोगात् । प्रवृत्त्यादिकारणं च कार्यज्ञानमेव न केवलसिद्धज्ञानम् । नच वाच्यं शब्दस्तद्व्यपारो वा प्रवर्तक इति । तथासति तच्छ्राविणां सर्वेषामपि प्रवृत्तिनिवृत्तिप्रसङ्गात् । बालस्य स्तनपानादि-प्रवृत्त्यादौ शब्दाद्यभावाच्च । याऽपीयं शङ्खादिशब्दश्रवणानन्तरं प्रवृत्तिर्निवृत्तिर्वा, साऽपि पुरुषाभि-प्रायानुमानादेव,न साक्षात् । रागद्वेषयोर्यद्यपि प्रवर्तकत्वमस्ति तथाऽपि तत्सत्तयैव नतु ज्ञाततया । ज्ञानं त्वबुभुत्सितग्राह्यतयाऽवर्जनीयसन्निधि । अतो वाक्यबोध्यं प्रवृत्त्यादिकारणं कार्यमेवेति तदेव सर्वत्र वाक्यार्थतयाऽङ्गीकार्यम् । अत एव लिङादिरहिते वाक्ये कार्याध्याहारो लक्षणा वाऽऽश्रय-णीया । तत्कथं सिद्धमात्रपरत्वं वाक्यस्येति । उच्यते । नायमस्ति नियमो यत्प्रवृत्त्याद्यर्थ एव वाक्यप्रयोग इति । यत्र वाक्यार्थज्ञानमात्रेण सुखदुःखावाप्तिहानी भवतस्तत्र प्रवृत्त्याद्यभावात्, यत्रापि प्रवृत्तिनिवृत्त्यभिप्रायेण वाक्यप्रयोगस्तत्रापि सिद्धपरत्वं युक्तमेवेति वक्तुमाह- ज्ञात्वै-वेति ।। एव(कारो)शब्दो भिन्नक्रमः, इष्टसाधनतामेवेति । ततः किमित्यत आह- अत इति ।।
यद्यपि सिद्धमात्रज्ञानं न प्रवृत्त्यादिहेतुस्तथाऽपि सिद्धविशेषेष्टानिष्टसाधनत्वज्ञानं तु भवत्येव । यतो बालोऽपि स्तनपानादेरिष्टसाधनतामेव ज्ञात्वा प्रवर्तते । तथा दंशमशकदशनादेरनिष्ट-साधनता-मेव ज्ञात्वा निवर्तते । तस्यापि कार्यताज्ञानादेव प्रवृत्तिः, इष्टसाधनताज्ञानं तु कार्यताज्ञानस्य कारणमिति चेन्न । इष्टसाधनतातिरिक्तायां कार्यतायां प्रमाणाभावात् । चन्द्रमण्डलादावस्तीष्ट-साधनताबुद्धिर्न कार्यताबुद्धिरिति चेत् । सत्यम् । कृतिसाध्येष्टसाधनतायाः कार्यतापर्याय-तयाऽङ्गीकारात् । अत एव न भूतादौ प्रवृत्तिप्रसङ्गः ।
एतेन वृद्धव्यवहारदर्शनेन या व्युत्पत्तिः साऽपि सिद्धविषयैवेति सिद्धम् । बालेन हि स्वप्रवृत्तौ यत्प्रवर्तकत्वेनावगतं तदेव वृद्धप्रवृत्तावपि कल्पयितुमुचितम् । स्वप्रवृत्तौ च इश्व्साधनताज्ञानमेव प्रवर्तकतयाऽवधारितमित्युक्तम् । यत एवं सिद्धज्ञानस्यैव सर्वत्र प्रवर्तकत्वं व्युत्पत्तिश्च सिद्धविषयैव, अतो न केवलम् इयं मातेत्यादीनां किन्तु सर्ववाक्यानां लिङादियुक्तानामपि सिद्ध एव प्रामाण्यं सिद्धम् ।
अत्र सर्ववादिसिद्धदृष्टान्तमाह- प्रसिद्धं चेति ।। आदिपदेन निघण्टुप्रभृतीनां ग्रहणम् । सिद्धमात्रे शब्दादिस्वरूपे । तत्रापि ‘एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग् भवति’ इत्यर्थवादबलाद् विधिः कल्प्यत इति चेन्न । इष्टसाधनताज्ञानादेव प्रवृत्त्युपपत्तौ तत्कल्पकाभावात् ।
अपर आह- व्याकरणादेः प्रामाण्यमेव नास्ति निर्मूलत्वात् प्रयोजनाभावाच्च, शब्दज्ञानस्य लोकप्रयोगादेव सिद्धेः, वेदरक्षादेश्च शुद्धसम्प्रदायेनैवोपपत्तेः । तत्कथं तदुदाह्रियत इति, तत्राऽह- तदनङ्गीकारे चेति ।। व्याकरणादि प्रामाण्यानङ्गीकारे । अपशब्दासङ्कीर्णैः शब्दैर्यो निर्वर्त्यो व्यवहारः स शाब्दव्यवहारः । लोके हि गोशब्दवद्गा(य्या)व्यादयोऽपि सास्नादिमति पिण्डे प्रयुज्यन्ते । ततस्तेषामपि तद्वत् प्रयोगप्रसङ्गे ‘दुष्यति चापशब्दैः’ इति वचनात् प्रत्यवायः स्यात् । अत एव शब्दापशब्दविभागो नास्तीत्यपि निरस्तम् । तदभावे फलभेदकथनानुपपत्तेः । नच शब्दापशब्द-योर्विभागो विना व्याकरणाच्छक्यते ज्ञातुम् । अतस्तत्प्रामाण्यानङ्गीकारे शाब्दव्यवहार एवोच्छि-द्येत । अत एवाष्टकादिस्मृतिवन्मूलमपि तस्य कल्पनीयम् । प्रमादपरिहारार्थत्वेन वेदरक्षादिकमपि सिद्धमिति ।
भावबोधः
पूर्वैवात्राप्यनुवृत्तिरिति ।। पर्यवसितत्वाद्वाक्यस्येत्यत्र यत्साध्यमप्रामाण्याभावरूपं तदेवात्रापि साध्यमित्यर्थः । अत एव च मूले चशब्द इति भावः । पूर्वं, सिद्धत्वं नाम ज्ञातत्वमित्यभ्युपेत्य तत्प्रतिपादक-वेदस्यानुवादकत्वेऽपि यथावस्थितार्थबोधकत्वलक्षणप्रामाण्यं प्रत्यक्षादिवत्सम्भवतीति व्याख्यातम् । अधुना, सिद्धत्वं नाम निष्पन्नस्वरूपत्वमित्यभ्युपेत्यानुवादकत्वमेव नास्तीत्यभिप्रेत्य वाक्यं प्रकारान्तरेण व्याचश्व्े- अस्ति चासावित्यादिना ।। ननु कार्यज्ञापनस्यापि ज्ञापनत्वेन प्रयोजनत्वात्सिद्धपदं व्यर्थमित्यत आह- सिद्धेतीति ।। प्रकृतत्वादेवोक्तं न तु व्यावर्तकत्वेनेत्यर्थः । अथवेति ।। अस्मिन् पक्षे सिद्धसाधनातिरिक्त-पराभिमतकार्यतानिरासार्थे सिद्धपदप्रयोग इत्युक्तं भवति । तद्व्यापार इति ।। अभिधारूपः शब्दव्यापार इत्यर्थः । न तु ज्ञाततयेति ।। तथा च न तयोः प्रवर्तकज्ञानविषयत्वं येन ताभ्यामन्यथासिद्धिः स्यादिति भावबोधः
भावः । कार्याध्याहार इति ।। अर्थाध्याहारवादित्वात्तस्येति भावः । एवकारो भिन्नक्रम इति ।। परेण प्रवर्तकज्ञानविषयत्वेन कार्यं नियमितम् । न तु ज्ञानस्याप्रवर्तकत्वमुक्तं येनैवकारो यथाश्रुतः सङ्गच्छेतेति भावः । सिद्धमात्रज्ञानमिति ।। अस्मिन् व्याख्याने सिद्धत्वसामान्यव्यावर्तकत्वम्, इष्टसाधनतामेवेत्येवकार-स्येति ज्ञातव्यम् । उक्तार्थे हेतुप्रदर्शकत्वेनापि ज्ञात्वैवेति वाक्यं व्याचश्व्े- यतो बालोऽपीति ।। अनेन हिशब्दो हेत्वर्थ इत्युक्तं भवति । कृतिसाध्येष्टसाधनताया इति ।। प्रवृत्ताविष्टसाधनतालक्षणलिङादिवाच्यकार्यताज्ञानमात्रं न कारणम् । किन्तु प्रमाणान्तरजन्यकृतिसाध्यत्वज्ञानसहितेष्टसाधनताज्ञानं कारणमित्यभिप्रेत्यैतदुक्तम् । न तु लिङादिवाच्यकार्यतानिर्वचनार्थम् । तथात्वे ‘लिङाद्यर्थस्त्विष्टसाधनत्वमेव’ इत्यादिकर्मनिर्णयेन, ‘किन्त्विष्ट-साधनत्वं सिद्धविशेषः, कार्यत्वं तदेव धात्वर्थनिष्ठं लिङाद्यर्थः’ इत्यादितट्टीकया, अतिरिक्तकार्यताया लिङादि-वाच्यत्वनिराकरणपरेण ‘कार्यता च न काचित्स्यादिष्टसाधनतां विना’ इत्यनुव्याख्यानेन, ‘कृतिसाध्यता-विशेषणस्य व्यर्थत्वात्’ इति सुधया च विरोधः स्यात् । अत एव कर्मनिर्णयटीकायाम् ‘इष्टसाधनत्वमेव लिङादि-वाच्यम्’ इत्यतिस्पष्टमुक्त्वा न केवलं लिङादिवाच्येष्टसाधनतालक्षणकार्यताज्ञानं प्रवृत्तिकारणं, किन्तु प्रमा-णान्तरजनितकृतिसाध्यत्वज्ञानसहितम् इत्यभिप्रेत्य ‘कृतिसाध्यतैकार्थसमवेतेश्व्साधनताज्ञानादेव प्रवृत्त्युपपत्तेः’ इत्यादिनाऽतिरिक्तकार्ये परोपन्यस्तप्रवृत्त्यन्यथानुपपत्तिलक्षणार्थापत्तिर्दूषितेति ज्ञातव्यम् । न चैवं कृतिसाध्यत्व-ज्ञानस्य प्रवर्तकत्वे तदपि लिङादिवाच्यं स्यादिति वाच्यम् । न हि यावान् प्रवर्तकज्ञानविषयस्तावान् लिङाद्यर्थः। इदानी ममेदमिष्टसाधनमिति प्रवर्तकज्ञानविषययोरपि कालस्वांशयोर्लिङाद्यर्थत्वाभावादिति बोध्यम् ।
अत एव न भूतादाविति ।। ‘अतीतादौ प्रवृत्तिरिति चेन्न । तस्येदानीमिष्टसाधनत्वाभावात् । अन्यथाऽ-तीतकार्येऽप्ययं प्रसङ्गस्तुल्यः’ इत्यादिसुधाऽनुसारेण अत एवेत्यस्येष्टसाधनत्वाभावादेवेत्यर्थो न कृतिसाध्यत्वा-भावादिति । आदिपदेनागम्यागमनादिनिषिद्धमपि ग्राह्यम् । तथा च निषिद्धे बलवदनिष्टानुबन्धित्वज्ञानेन तज्जन्यदुःखे उत्कटद्वेषदशायां तज्जन्यसुखं नेच्छतीति इच्छाविषयरूपेश्व्साधनत्वाभावादेव नागम्यागमनादौ प्रवृत्तिप्रसङ्गः । इष्टसाधनतापदस्येच्छाविषयसाधनतार्थकत्वात् । अत एव कर्मनिर्णयटीकायां ‘कृतिसाध्यत्व-स्येष्टसाधनत्वातिरिक्तत्वेऽपि तदुद्देश्यत्वमन्यत्किमपि नास्ति किन्तु इच्छाप्रयत्नरूपोपाधी भिद्येते’ इत्युक्तम् । सुधायामपि ‘तस्य च समीहितसाधनताज्ञानम्’ इत्यादौ इष्टपदपर्यायत्वेन समीहितपदप्रयोगः ।
नन्वगम्यागमनादिनिषिद्धजन्ये सुखे सुखत्वेनेच्छा स्यादेव । न हि दुःखासम्भिन्नसुखत्वेन तत्रेच्छा । तथात्वे तस्य स्वतः पुरुषार्थत्वं न स्यादिति चेन्न । स्वतः पुरुषार्थत्वं नाम पुरुषार्थान्तरासाधनत्वे सतीष्यमाणत्वम् । तस्य च तत्र दुःखासम्भिन्नसुखत्वेनेष्यमाणत्वेऽप्यविरोधात् । न चैवं सतीच्छाज्ञानस्यापि प्रवर्तकत्वापत्तिरिति वाच्यम् । न ह्यत्रेच्छाविषयसाधनमेतदिति ज्ञानं प्रवर्तकमुक्तं येनोक्तदोषः स्यात् । किन्तु वस्तुगत्या यत्रेच्छा तत्साधनत्वज्ञानं प्रवर्तकमिति तत्रागम्यागमनादौ तज्जन्यसुखेच्छाभावादेव नास्तीति भावः । अगम्यागम-नादेर्निषिद्धस्येष्टसाधनत्वाभाव आचार्याणामप्यभिप्रेत एव । कथमन्यथा ‘कार्यं न हि क्रियाव्याप्यं निषिद्धस्य भावबोधः
समत्वतः’ इत्यादिना क्रियाव्याप्यत्वादेर्निषिद्धसाम्येन कार्यतारूपत्वं निराकृत्य स्वयं ‘तदिष्टं साधनं तथा । कार्यम्’ इतीष्टेष्टसाधनत्वयोः कार्यतारूपत्वमुक्तमिति दिक् ।
।। अर्थवादबलादिति ।। कर्तव्यत्वेन विधिवाक्यबोधितकर्मणि रुच्युत्पादकप्रशस्तत्वज्ञानाभावे प्रवृत्तिर्न स्यादिति विधिवाक्यफलीभूतप्रवृत्तिविषये कर्मणि प्रशस्तत्वप्रतिपादकत्वेनार्थवादस्योपयोगः स्वीक्रियते । तथा च विधिवाक्याभावे प्रवृत्तेरेवाप्रसक्तौ किंविषये प्रशस्तत्वप्रतिपादकत्वेनार्थवादस्योपयोगः स्वीक्रियते । तथा च ‘एकः शब्दः सम्यग् ज्ञातः’ इत्याद्यर्थवादबलाच्छब्दः सम्यग् ज्ञातव्यः इत्यादिविधिः कल्प्यत इत्यर्थः । तथा च तेन विधिवाक्येन व्याकरणादीनामेकवाक्यतया कार्यपरत्वान्न सिद्धमात्रे शब्दादिस्वरूपे प्रामाण्यमिति भावः। इष्टसाधनताज्ञानादेवेति ।। स्वार्थे प्रमाणभूतार्थवादजनितात् (स्वाधीन) साधितप्रवृत्तिहेतुभावे(हेतुना चे)- ष्टसाधनताज्ञानादेवेत्यर्थः ।
भावदीपः
पूर्वत्रेवेति ।। इयं मातेत्यादिवाक्य इव ‘तस्य’ इति वाक्येऽपि ‘केवलसिद्धेऽर्थे नाप्रामाण्यम् इत्य-स्यानुवृत्तिरित्यर्थः । पूर्वैवेति पाठे याऽनुवृत्तिः पूर्वत्र सैवेत्यर्थः, पूर्वतनीति यावत् । तस्येत्यनुवादः इयमि-त्यादिव्याख्या । तत्रेत्यप्यनुवादः केवलेत्यादिव्याख्या । ननूक्तमनुवादकत्वेनाप्रामाण्यमिति तत्राऽह- अस्ति चेति ।। सिद्धोऽपीति ।। कृत्यसाध्ययथावस्थितरूपार्थोऽपीत्यर्थः । सिद्धार्थेऽप्यननुवादकत्वोक्तिर्वाक्यस्य । बोधकत्वेनैवेति ।। प्रमाजनकत्वेनैव करणप्रमाणानामित्यर्थः । नान्यदित्येतदुदाहृत्य दर्शयति- यथेति ।। प्रकृतत्वादेवेति ।। इष्टसाधनरूपार्थपरोऽत्र सिद्धशब्द इति, सिद्धकार्योभयपर इति वा अभिप्रायः । तदिति तच्छब्देन बुद्धिस्थछिदासाध्यग्रहः । ‘कार्यता च न काचित्स्यादिष्टसाधनतां विना’ इत्युक्तेराह- अथवेति ।। प्रकृताभिप्रायेण यथाश्रुतेऽपि न दोष इति भावेनाऽह- यथावस्थितेति ।। एतदित्युक्तं व्यनक्ति- ज्ञापनमेवे-ति ।। प्रयोजनमितीतिशब्दो योज्यः । कार्येति ।। कृतिसाध्यवस्तुज्ञानमेवेत्यर्थः । कार्यान्वितसिद्धज्ञानमपि तथा भवतीति ‘नतु केवलसिद्धे’ इति केवलपदप्रयोगः । परमुखेनैव भाट्टमतं निवारयति- नच वाच्यमिति ।। शब्द इति ।। लिङादिरूप इत्यर्थः । तद्व्यापार इति ।। लिङादिविधिप्रत्ययनिष्ठो लिङादिवाच्यो भावना प्रवर्तनापरपर्यायो व्यापारो भाट्टाभिमत इत्यर्थः । पुरुषाभिप्रायेति ।। प्रवृत्त्यादिविषयध्यातृपुरुषाभिप्रायम् । ध्यानरूपलिङ्गेनानुमानादित्यर्थः । कार्यज्ञानमेवेत्युक्तस्यानैकान्त्यमाशङ्क्य निराह- रागेति ।। ननु रागद्वेषयोरपि सुखादिवज्ज्ञातैकसत्त्वेन साक्षिणा स्वप्रकाशवृत्तिज्ञानेन वा ज्ञातत्वमप्यस्तीत्यत आह- ज्ञानं त्विति ।। घटं प्रति दण्डरूपमिवेति भावः । कार्यमेवेतीतिशब्दो हेत्वर्थः । लक्षणेति ।। इयं मातेत्यादिवाक्येऽपि मात्रादिदर्शनादि-विधिलक्षणा वाऽऽश्रयणीयेत्यर्थः । वाक्यार्थज्ञानेति ।। पुत्रस्ते जात इत्यादिवाक्यार्थज्ञानमात्रेत्यर्थः । वक्तु-मिति ।। अनुपदमेवेति ज्ञेयम् । इष्टानिष्टसाधनत्वज्ञानं त्विति ।। कुत एषा कल्पनेत्यत आह- यतो बालोऽपी-ति ।। ‘कार्यता च न काचित् स्यादिष्टसाधनतां विना’ इत्यनुव्याख्यानोक्तेराह- इष्टसाधनतारिक्ताया-मिति ।। विस्तरस्तु तर्कताण्डवे । कृतिसाध्येष्टसाधनताया इति ।। तर्कताण्डवे कृतिसाध्यत्वादिविशिष्टेष्ट-साधनत्वस्य विधित्वभङ्गे ‘कृतिसाध्यत्वविशेषणस्य व्यर्थत्वात्’ इति सुधावाक्येनास्य वाक्यस्य विरोधमाशङ्क्य ‘कृतिसाध्यत्वस्य लिङर्थत्वमात्रनिषेधान्मानान्तरजन्यकृतिसाध्यत्वज्ञानस्य प्रवर्तकत्वमनुमतमेव, लिङादिना तज्ज्ञानं त्वसम्मतमित्यविरोधः’ इत्युक्तम् । अधिकं तत्रैव ज्ञेयम् । अत एवेति ।। कृतिसाध्यत्व-विशिष्टेष्टसाधनत्वज्ञानस्य प्रवृत्तिहेतुत्वाङ्गीकारादेवेत्यर्थः । एतच्चाभ्युपेत्योक्तम् । वस्तुतस्तु इष्टोपायताज्ञानमेव प्रवृत्तिहेतुः । अतीतादौ प्रसङ्गस्तु कृतिसाध्यत्वविशेषणदानेऽपि स्यादेव तस्यापि कृतिसाध्यत्वात् । अन्यथा तत्कथं तत्कृतितो जातम् । इदानी कृतिसाध्यं नेति चेदिदानीमिष्टसाधनमपि नेति तुल्यमिति ज्ञेयम् । एते-नेति ।। इष्टोपायताज्ञानस्यैव प्रवृत्तिहेतुत्वकथनेनेत्यर्थः । तद्व्यनक्ति- बालेनेति ।। इत्युक्तमिति ।। ‘यतो बालोऽपि’ इत्यत्रेति भावः । अतस्सिद्ध एवेत्यादिवाक्यार्थमाह- यत इति ।। अत्रेति ।। ‘सिद्धेऽर्थे वाक्यानां प्रामाण्यम्’ इत्यत्रेत्यर्थः । निघण्टुप्रभृतीनामिति ।। छन्दःशास्त्रज्योतिश्शास्त्रेतिहासादिभूतार्थबोधकपरिग्रहः प्रभृतिशब्देन । तत्रापि व्याकरणादावपीत्यस्य विधिः कल्प्यत इत्यन्वयः । साधुशब्दानेव प्रयुञ्जीत इति विधिरि-त्यर्थः । विध्यर्थवादयोरविनाभावस्य पूर्वतन्त्रार्थवादाधिकरणे सिद्धत्वादित्यर्थवादबलादित्युक्तम् । ननु ‘रक्षो-हाऽऽगमलघ्वसन्देहाः प्रयोजनम्’ इति व्याकरणभाष्यकृतैव वेदरक्षा तथा ‘अग्नये जुश्व्ं निर्वपामि’ इति मन्त्रे ‘सूर्याय जुष्टं निर्वपामि’ इत्यग्निपदस्थाने सूर्यायेत्यूहः, लघूपायेन साधुशब्दज्ञानम् इत्यादिप्रयोजनं व्याकरणस्योक्त-मित्यत आह- शब्दज्ञानस्येति ।। निर्वर्त्य इति ।। निष्पाद्य इत्यर्थः । फलभेदेति ।। ‘कामधुग् भवति’ इति ‘दुष्यति चापशब्दैः’ इति च फलभेदकथनेनेत्यर्थः । प्रमादेति ।। ब्राह्मणासः, सोम्यासः, रुद्रेभिः, अगृभ्णन् इत्यादिस्थाने लौकिकशब्दस्थापनस्वरादिव्यत्यासरूपप्रमादपरिहारार्थत्वेनेत्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
अनुवादकत्वेनेति ।। प्रमाणान्तरेण तस्य ज्ञातत्वादेवेत्यर्थः । अप्रामाण्यं स्यादिति ।। व्यवहारे भट्टनय इत्यङ्गीकारेण अनधिगतार्थगन्तृत्वरूपप्रमाणलक्षणाभावादिति भावः । ननु कार्यस्यापि प्रमाणान्तरेण सिद्धत्वे कार्यताबोधकस्यापि वाक्यस्यानुवादकत्वेनाप्रामाण्यं त्वन्मतेऽपि स्यादेवेत्यत आह- कार्यस्य चेति ।। कार्यस्य त्वित्यर्थः । पूर्वैवात्राप्यनुवृत्तिरिति ।। इयं माता, अयं पिता, सुरूपोऽसीत्यादौ वाक्ये नाप्रामाण्यमित्यस्य अनुवृत्तिवत् ‘तस्य तत्र’ इति वाक्येऽपि नाप्रामाण्यमित्यस्यानुवृत्तिः कार्येत्यर्थः । तथा च ‘तस्य तत्र प्रामाण्यानुभवात्तस्य च तत्र नाप्रामाण्यम्’ इति योज्यम् । नान्यदिति ।। स्मृत्यादावव्याप्तिप्रसङ्गेन अनधिगतार्थबोधकत्वं न प्रमाणलक्षणमित्यर्थः । पूर्वं, सिद्धत्वं नाम ज्ञातत्वमित्यभ्युपेत्य तत्प्रतिपादकस्य वेदस्या-नुवादकत्वेऽपि यथावस्थितार्थबोधकत्वलक्षणं प्रामाण्यं प्रत्यक्षादिवत्सम्भवतीति व्याख्यातम् । अधुना, सिद्धत्वं नाम निष्पन्नस्वरूपत्वमित्यभ्युपेत्यानुवादकत्वमेव नास्तीत्याशयेन ‘तस्य च तत्र’ इति वाक्यं प्रकारान्तरेण व्याचश्व्े- अस्ति चासावित्यादिना ।। सिद्धोऽपि निष्पन्नस्वरूपोऽपि । अस्मिन् पक्षे वाक्यं योजयति- तत इत्यादिना ।। तत्रेत्यस्यार्थस्सिद्धार्थ एवेति । तस्येत्यस्य अर्थः ‘इयं मातेत्यादिवाक्यस्य’ इति । प्रामाण्यानु-भवादित्यत्र प्रामाण्यपदमननुवादकत्वपरमित्यभिप्रायेणोक्तम्- अननुवादकत्वमिति ।। अस्यामपि योजना-(श्री.टि.) यामनुवृत्तेर्नाप्रामाण्यमित्यत्रापि तत्र तस्येत्यनुवर्तत इत्याशयेनोक्तम्- केवलसिद्धेऽर्थे वाक्य-स्येति ।। योजनाद्वयेऽपि नाप्रामाण्यमित्यनन्तरं शेषं पूरयति-किं कार्यपरत्वाऽग्रहेणेति ।। बोधकत्वेनेति ।। यथावस्थितार्थबोधकत्वेनेत्यर्थः । परार्थत्वादिति ।। परप्रयोजनार्थत्वादित्यर्थः । यत्कार्यपरमिति ।। न तु काकस्याष्टौ दन्ताः इत्यादिसिद्धार्थपरं वाक्यमित्यर्थः । ननु कार्यज्ञापनस्यापि ज्ञापनत्वेन क्वचित्प्रयोजनत्वात् सिद्ध इति व्यर्थमित्यत आह- सिद्धेति ।। प्रकृतत्वादेवोक्तमिति ।। न तु कार्यज्ञापनव्यावर्तकत्वेनेत्यर्थः । सिद्धज्ञापनादित्यस्य यथार्थज्ञानजननादित्यर्थ इत्याशयेनाऽह- अतस्तस्य परज्ञापनमेवेति ।। यथार्थज्ञानसाधनस्य वाक्यस्य परं प्रति यथार्थज्ञानजननमेव प्रयोजनमित्यर्थः । तच्च प्रयोजनमिति ।। परं प्रति यथार्थज्ञानजननरूपं प्रयोजनमित्यर्थः । सिद्धविषयस्य सिद्धार्थप्रतिपादकस्य । सिद्धार्थप्रतिपादकादपि वाक्याद् यथार्थज्ञानोत्पत्तेरनु-भवसिद्धत्वादिति भावः ।
अथ वेति ।। अस्मिन् पक्ष इष्टसाधनातिरिक्तपराभिप्रेतकार्यनिरासार्थं सिद्धपदप्रयोग इति भावः । यथावस्थितपर्यायो वेति ।। तथा च सिद्धज्ञापनादित्यस्य यथावस्थितार्थज्ञापनादित्येवार्थो द्रष्टव्यः । पूर्व एवाभि-प्रायः । शङ्कते- सत्यमेतदिति ।। ज्ञापनं यथावस्थितार्थज्ञापनम् । कार्यज्ञानमेव प्रवर्तकमिति निर्धारयितुं पूर्वपक्षी स्वयमेव प्रवर्तकान्तराण्याशङ्क्य निराकरोति-न च वाच्यमित्यादिना ।। तद्व्यापार इति ।। अभिधा-रूपः शब्दव्यापारः इत्यर्थः । केचित्तु पदार्थस्मृतिरूपः शब्दव्यापार इत्यर्थ इत्याहुः । शब्दस्य प्रवर्तकत्वे दूषणमाह- तथा सतीति ।। तच्छ्राविणां शब्दश्राविणाम् । शब्दतद्व्यापारयोरुभयोर्न प्रवृत्तिकारणत्वं व्यतिरेकव्यभि-चारादित्याह- बालस्येति ।। आदिपदेन शब्दव्यापारग्रहणम् । ननु युद्धादौ शङ्खभेर्यादिशब्दश्रवणमात्रस्यैव प्रवर्तकत्वं दृष्टमिति चेत्तत्राऽह- याऽपीति ।। पुरुषाभिप्रायानुमानादेवेति ।। अयं युद्धकर्तव्यत्वाभिप्रायवान् तत्सूचकशङ्खादिध्वनिकर्तृत्वादित्येवं कार्यतामनुमायैव प्रवर्तते । तथा च कार्यतानुमापकत्वेनैव शङ्खादिशब्द-श्रवणस्य प्रवर्तकत्वं न साक्षात् । साक्षात्प्रवर्तकमेव चास्माभिर्विचार्यते तादृशं च कार्यमेवेति भावः । नन्वथापि न कार्यज्ञानस्य प्रवर्तकत्वं किन्तु रागद्वेषयोरेव । ‘प्रवर्तनालक्षणाः स्युर्दोषा रागादयश्च ते’ इति वचनादित्याशङ्क्य निराकरोति- रागद्वेषयोरिति ।। यद्यप्युक्तकारिकायां रागद्वेषमोहानां त्रयाणामपि प्रवर्तकत्वस्योक्तत्वाद्राग-द्वेषयोर्द्वयोरेव ग्रहणमयुक्तम् । तथाऽपि रागद्वेषयोरेव साक्षात्प्रवर्तकत्वं मोहस्य तु रागद्वेषोत्पादनद्वारैवेति तार्किकेण अङ्गीकृतत्वात्साक्षात्प्रवर्तकत्वाभिप्रायेण द्वयोरेव ग्रहणमित्यवगन्तव्यम् । न तु ज्ञाततयेति ।। अत्र हि यज्ज्ञानं प्रवृत्त्यादिकारणं तद्विषयो विचार्यते । न हि रागादिज्ञानं प्रवृत्त्यादिकारणं येन प्रवर्तकज्ञानविषयतया ताभ्यामन्य-थासिद्धिः स्यादिति भावः । ननु रागद्वेषाभ्यां यदा प्रवर्तते तदानी तज्ज्ञानमप्यस्त्येवेति ज्ञाततयैव प्रवर्तकत्वं प्राप्तमिति चेत्तत्राऽह- ज्ञानं त्विति ।। रागद्वेषविषयकं ज्ञानं त्वित्यर्थः । अबुभुत्सितग्राह्यतयेति ।। तयोस्सुखादिवद् ज्ञातैकसत्त्वादिति भावः । एवं प्रवर्तकान्तराणि निराकृत्य उपसंहरति- अत इति ।।
नन्वथापि कार्यताज्ञानमेव प्रवर्तकमित्ययुक्तम् । पुत्रस्ते जातः, सुरसमाम्रफल, द्वारं द्वारमित्यादिवाक्यात् (श्री.टि.) प्रवृत्तिस्तावदनुभवसिद्धा । न ह्यत्र कार्यताबोधकं किञ्चित्पदमस्ति लिङाद्यन्यतमस्याभावादित्यत आह- अत एवेति ।। यतो वाक्यबोध्यं प्रवृत्त्यादिकारणं कार्यमेवेति निर्धारितमत एवेत्यर्थः । कार्याध्याहार इति ।। तस्यार्थाध्याहारवादित्वादेवमुक्तम् । यद्वा कार्यवाचक-गच्छ-पिधेहीत्यादिपदाध्याहार इत्यर्थः । लक्षणा वेति ।। पुत्रस्ते जात इत्यादिवाक्यगतस्यैव कस्यचित्पदस्य गमनादौ लक्षणेत्यर्थः । सामीपिकाधिकरणे सप्तमी-त्यङ्गीकुर्वद्भिर्वैयाकरणैर्लक्षणाऽनङ्गीकारात्तन्मतानुसारेणाध्याहार इत्युक्तम् । तार्किकमतानुसारेण लक्षणा वेत्युक्तमित्याहुः । ‘वाक्यार्थज्ञानमात्रेण क्वचिदिश्व्ं भवेदपि’ इत्यनुव्याख्यानं मनसि निधायाऽह- यत्रेति ।। पुत्रस्ते जातः, पिता ते राजा वर्तत इत्यादौ । सिद्धपरत्वम् इष्टसाधनत्वरूपसिद्धपरत्वम् । वक्तुमिति ।। अतस्सिद्ध एवेत्युत्तरग्रन्थेनेत्यर्थः । परेण कार्यताज्ञानमेव प्रवर्तकमिति नियमितं न त्विष्टसाधनताज्ञानस्या-प्रवर्तकत्वम्, येनैवकारो यथाश्रुतस्सङ्गच्छेतातो व्याचश्व्े- एवशब्दो भिन्नक्रम इति ।। तमेव दर्शयति- इष्टसाधन-तामेवेति ।। न तु कार्यतामित्यर्थः । सिद्धमात्रज्ञानं न प्रवृत्त्यादिहेतुरिति ।। तृणादिज्ञानस्य तथात्वाभावादिति भावः । अयमिहाभिसन्धिः । लोके सिद्धमपि द्विविधमस्ति । एकमिष्टसाधनं कदलीफलादि । अपरमनिष्टसाधनम् उदासीनं च यथा कण्टक-तृणादि । तत्र सिद्धविशेषे इष्टसाधनतामेव ज्ञात्वा प्रवर्तते, अनिष्टसाधनतां च ज्ञात्वा निवर्तते । न तु सिद्धभूततृणादिज्ञानात्प्रवृत्त्यादिकमित्येवं सिद्धसामान्यव्यावर्तकत्वमेव ‘इष्टसाधनतामेव ज्ञात्वा’ इत्युक्तैवकारस्यार्थ इति द्रश्व्व्यम् । अथ वा पराभिमतकृतिसाध्येष्टसाधनत्वरूपलिङ्वाच्यकार्यताज्ञानस्य प्रवर्तकत्व-व्यावृत्तिरेवेष्टसाधनतामेवेत्युक्तैवकारस्य अर्थः । इष्टसाधनताज्ञानमेव प्रवर्तकं न तु कृतिसाध्यत्वं प्रवर्तककार्यतायां निवेश्यमित्येवमिष्टसाधनतामेव ज्ञात्वेत्युक्तैवकारार्थो भवतीत्यभिप्राय इति द्रश्व्व्यम् । उक्तार्थे हेतुप्रदर्शकत्वेनापि ज्ञात्वैवेति वाक्यं व्याचश्व्े- यतो बालोऽपीति ।। अनेन हिशब्दो हेत्वर्थ इत्युक्तं भवति । दंशमशकेति ।।
‘अरण्यमक्षिका दंशो मशको गृहमक्षिका’ इत्यभिधानम् ।
‘स्थूलास्तु मक्षिका दंशा मशकाः सूक्ष्ममक्षिका’ इति च रत्नमाला ।
शङ्कते- तस्यापीति ।। बालस्यापीत्यर्थः । कार्यताज्ञानादेवेति ।। कृतिसाध्यत्वरूपकार्यताज्ञानादेवेत्यर्थः। कारणमिति ।।
‘किन्तु स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् ।
फलसाधनता तत्र कारणं तेन कार्यता ।।’
इति तद्वचनादिति भावः । प्रमाणाभावादिति ।। ननु कथं प्रमाणाभावः । लिङादिशब्द एव तत्र प्रमाणमिति चेदुच्यते । अनन्यलभ्यो हि शब्दार्थः । तत्र कृतिसाध्यत्वं नाम प्रयत्नजन्यत्वम् । इदं च यागादेरन्वयव्यति-रेकसध्रीचीनप्रत्यक्षेणैव गम्यमित्यनन्यलभ्यत्वाभावान्न तल्लिङादिशब्दबोध्यम् । तथात्वे लिङादेरनुवादकत्व-प्रसङ्गात् । यथोक्तं कर्मनिर्णये ‘शब्दस्तु न तद्वक्तीत्युक्तम्’ इति । इष्टसाधनत्वं तु लिङादिशब्दबोध्यम् । न हि यजेतेत्यत्र यागादीनां स्वर्गसाधनत्वमन्वयव्यतिरेकसध्रीचीनप्रत्यक्षगम्यमित्यनन्यलभ्यत्वात्तदेव लिङादिशब्द-(श्री.टि.) बोध्यमङ्गीकार्यमिति । इष्टसाधनतातिरिक्तकार्यतायां प्रवृत्त्यन्यथाऽनुपपत्तिरेव प्रमाणमिति शङ्कते- चन्द्रमण्डलादाविति ।। आदिपदेन तक्षकचूडामण्याहरणादिकं ग्राह्यम् । अयमर्थः- यदीष्टसाधनत्वमेव कार्यता स्यात्तर्हि चन्द्रमण्डलादाविष्टसाधनताबुद्धिस्तावद्भवति । तथा च ममेदं कृतिसाध्यमिति कृतिसाध्यतारूपकार्यता-बुद्धिरपि स्यात् । न चेष्टापत्तिः । तथात्वे तत्र प्रवृत्तिप्रसङ्गात् । न भवति च प्रवृत्तिः । तेन ज्ञायते तत्रेष्टसाधनताबुद्धिरेव भवति न कार्यताबुद्धिरिति । तस्मादिष्टसाधनतातिरिक्ता कार्यताऽङ्गीकार्येति । अर्धाङ्गीकारेण परिहरति- सत्य-मिति ।। चन्द्रमण्डलादाविष्टसाधनताबुद्धिर्भवतीत्यङ्गीकृतम् । न कार्यताबुद्धिरित्येतन्नाङ्गीक्रियते । इष्टसाधनतैव कार्यतेति यदाऽङ्गीकृतं तदा कार्यताबुद्धिरपि तत्र भवत्येवेति भावः । तथात्वे तत्र प्रवृत्तिः स्यादिति चेन्न, प्रवर्त-काभावादित्याह- कृतिसाध्येष्टसाधनतायाः कार्यतापर्यायतयाऽङ्गीकारादिति ।। कार्यपदवाच्यत्वेनाङ्गी-कारादित्यर्थः ।
ननु कथमेतत् । कृतिसाध्येष्टसाधनताया लिङ्वाच्यकार्यत्वाङ्गीकारे परोक्तमेवाङ्गीकृतं स्यात् । परेणापि कृतिसाध्यत्वे सति कृत्युद्देश्यत्वरूपकार्यताया एव लिङ्वाच्यत्वेनोपपादितत्वात् । तथा चात्र ‘लिङाद्यर्थस्त्विश्व्-साधनत्वमेव’ इति कर्मनिर्णयेन, ‘इष्टसाधनत्वं सिद्धविशेषः कार्यत्वं तदेव धात्वर्थनिष्ठं लिङाद्यर्थः’ इति तट्टीकया, इष्टसाधनत्वातिरिक्तकार्यताया लिङ्वाच्यत्वनिराकरणपरेण ‘कार्यता च न काचित् स्यादिष्टसाधनतां विना’ इत्यनुव्याख्यानेन, ‘कृतिसाध्यताविशेषणस्य व्यर्थत्वात्’ इति सुधया च विरोधस्स्यादिति चेत्, उच्यते । अस्त्यत्र सम्प्रदायविशेषः । सिद्धान्ते कार्यं द्विविधमङ्गीकृतम् । एकं लिङ्वाच्यम् अपरं च प्रवर्तकमिति । तत्रेष्टसाधनत्वरूपं कार्यं लिङ्वाच्यम् । कृतिसाध्येष्टसाधनत्वरूपं यत्कार्यं तत्प्रवर्तकं कार्यम् । तच्च न लिङ्वाच्यम् । तथा च ‘कृतिसाध्येष्टसाधनतायाः कार्यतापर्यायतयाऽङ्गीकारात्’ इत्यस्य लिङ्वाच्यकार्यतापर्यायतयाऽङ्गीकारादिति नार्थो येनोक्तग्रन्थविरोधस्स्यात् । किं नाम प्रवर्तककार्यतापर्यायतयाऽङ्गीकारादित्यर्थः । तथा च प्रवृत्ताविष्टसाधनता-लक्षणलिङ्वाच्यकार्यताज्ञानमात्रं न कारणं येन चन्द्रमण्डलादौ प्रवृत्तिप्रसङ्गः, किन्तु प्रमाणान्तरजन्यकृति-साध्यत्वज्ञानसहितेष्टसाधनताज्ञानम् । चन्द्रमण्डलादौ च कृत्यसाध्यताज्ञानस्यैव प्रतिबन्धकस्य सत्त्वेन नोक्तं प्रवर्तकमस्तीति न प्रवृत्तिप्रसङ्गः । अत एव कर्मनिर्णयटीकायाम् ‘इश्व्साधनत्वमेव लिङादिवाच्यम्’ इत्यतिस्पश्व्मुक्त्वा, न केवलं लिङादिवाच्येष्टसाधनतालक्षणकार्यताज्ञानं प्रवृत्तिकारणं किन्तु प्रमाणान्तरजनित-कृतिसाध्यत्वज्ञानसहितम् इत्यभिप्रेत्य ‘कृतिसाध्यतैकार्थसमेवेतेष्टसाधनताज्ञानादेव प्रवृत्त्युपपत्तेः’ इत्यादिना ग्रन्थेनातिरिक्तकार्ये परोपन्यस्तचन्द्रमण्डलादौ प्रवृत्त्यन्यथानुपपत्तिलक्षणार्थापत्तिरन्यथैवोपपत्त्या दूषितेति ज्ञातव्यमित्यालोचनीयम् ।
नन्विष्टसाधनत्वस्यैव कार्यत्वेऽतीतभोजनादावपि इष्टसाधनत्वस्य सत्त्वेन कार्यताबुद्ध्यापत्त्या प्रवृत्तिप्रसङ्ग इत्येतदप्यत एवापास्तमित्याह- अत एवेति ।। भूतादौ इष्टसाधनेऽतीतभोजनादौ । अतीतभोजनादेः कृत्यसाध्य-त्वेन कृतिसाध्येष्टसाधनत्वरूपप्रवर्तकाभावादेवेत्यर्थः । भावबोधे तु ‘अतीतभोजनादौ प्रवृत्तिप्रसङ्ग इति चेन्न । (श्री.टि.) तस्येदानीमिष्टसाधनत्वाभावात् । अन्यथा अतीतकार्येऽप्ययं प्रसङ्गस्तुल्यः’ इत्यादिसुधानुसारेणात एवेत्यस्येदानीमिष्टसाधनत्वाभावादेवेत्यर्थः, इति व्याख्यातम् । या व्युत्पत्तिरिति ।। ‘तथा हि चैत्र जलमाहर’ इत्यादिना व्युत्पादितेत्यर्थः । सिद्धविषया इष्टसाधनविषया । एतेनेत्युक्तं विशदयति- बालेन हीत्यादिना ।। स्वप्रवृत्तौ स्तनपानादिप्रवृत्तौ । इत्युक्तमिति ।। तथा च तदेव वृद्धप्रवृत्तावपि कल्पयतीत्यर्थः । सिद्धज्ञानस्य इष्टसाधनज्ञानस्य । इयं मातेत्यादीनां लिङादिरहितानां सिद्ध एव प्रामाण्यं सिद्धमित्यन्वयः । अत्र वाक्यस्य सिद्धेऽर्थे प्रामाण्यमित्यत्र । अर्थवादबलादित्यादि ।। अर्थवादानां हि कर्तव्यत्वेन विधिबोधितेऽर्थे रुच्युत्पादनाय प्राशस्त्यज्ञापकत्वेनोपयोगो ‘वायव्यं श्वेतमालभेत भूतिकामः । वायुर्वै क्षेपिष्ठा देवता’ इत्यादौ दृष्टः । तदिहापि ‘शब्दः सम्यग्ज्ञातव्यः’ इति विधेरेवाभावे ‘एकः शब्दः’ इत्याद्यर्थवादः कस्मिन् विषये रुच्युत्पादनाय प्रशस्तत्वं प्रतिपादयेदिति व्यर्थ एव स्यादतः ‘एकः शब्दः’ इत्याद्यर्थवादबलात् ‘प्रवृत्तिः’ इति पूरणीयम् । तद्बलाच्च ‘एकः शब्दः सम्यग्ज्ञातव्यः’ इति विधिः कल्प्यत इत्यर्थो द्रष्टव्यः । एवमव्याख्याने इष्टसाधनताज्ञानादेव प्रवृत्त्युपपत्ताविति वाक्यास्वारस्यापत्तेरिति ज्ञातव्यम् । तथा च तेन विधिवाक्येन व्याकरणादीनामेकवाक्यतया कार्यपरत्वान्न सिद्धमात्रे शब्दादिस्वरूपे प्रामाण्यमिति भावः । इष्टसाधनताज्ञानादेवेति ।। प्रमाणविरुद्धार्थ-वादानां स्वार्थेऽप्रामाण्यात् प्रमाणभूतार्थवादबोधितार्थ एव यदिष्टसाधनताज्ञानं तस्मादेव व्याकरणादौ प्रवृत्त्युप-पत्तेर्विधिकल्पकाभावादित्यर्थः । शब्दापशब्दविभागज्ञानमेव प्रयोजनमिति चेत्तत्राऽह- शब्दज्ञानस्येति ।। शब्दापशब्दविभागज्ञानस्येत्यर्थः । नन्वस्ति व्याकरणशास्त्रस्य प्रयोजनं सन्देहपरिहारेण वेदपाठसंरक्षणस्यैव प्रयोजनत्वात् । तथा हि ‘चक्षोस्सूर्योऽजायत’ ‘उपप्रयन्तोऽध्वरम्’ ‘सुजातेऽश्वसूनृते’ इत्येवं कस्मान्नोच्चार्यत इति शङ्कायां ‘प्रकृत्यान्तः पादमव्यपरे’ ऋक्पादमध्यस्थ एङ् प्रकृत्या स्यात्, न सन्धिं यातीति यावदिति व्याकरणोक्तनियामकेन चक्षोस्सूर्यो अजायत, उपप्रयन्तो अध्वरं, सुजाते अश्वसूनृते इत्येवमेवोच्चारणं कर्तव्यमित्येवं वेदपाठरक्षणमेव प्रयोजनमस्ति । ‘रक्षोहागमलघ्वसन्देहाः प्रयोजनं शब्दशास्त्रस्य’ इति वचनाद् इत्याशङ्क्याऽह- वेदरक्षादेरिति ।। शुद्धसम्प्रदायेनेति ।। अध्यापकसम्प्रदायेनेत्यर्थः । अध्यापकैः सम्प्रदायेन यथा प्रयुज्यते तथैव प्रयोगः कर्तव्यः । तैश्च ‘चक्षोस्सूर्यो अजायत’ इत्येवमादिरूपेणैव प्रयुज्यत इति तथैव प्रयोगः कार्योऽतस्तदर्थं न व्याकरणमपेक्षितमिति भावः । तदुदाह्रियत इति ।। वाक्यानां सिद्धे प्रामाण्यमि-त्यत्राप्रमाणभूतं व्याकरणं दृष्टान्तत्वेन कथमुच्यत इत्यर्थः । निर्वर्त्यो जायमानः । प्रयुज्यन्त इति । गाविति गुर्जरैः, गायिति महाराष्ट्रैरित्यर्थः । तद्वत् गोशब्दवत् । इष्टापत्तिरिति चेत्तत्राऽह- दुष्यतीति ।।
‘यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद्व्यवहारकाले ।
सोऽनन्तमाप्नोति जयं परत्र वाग्योगयुग् दुष्यति चापशब्दैः ।।’
इति महाभाष्यकारवचनादित्यर्थः । यः- पुमान्, विशेषे- शब्दविशेषप्रयोगे, कुशलो- व्यवहारकाले यथावद् अपशब्दासङ्कीर्णान् शब्दान् प्रयुङ्क्ते, स पुमानिह जन्मनि लोके, अनन्तं- नियमेनेति यावत्, प्रतिवादी जय-(श्री.टि.) माप्नोति, परत्र- जन्मान्तरे, वाग्योगयुग्अपशब्दासङ्कीर्णसमीचीनवाक्प्रयोगयुक्तो भवति । यथावत्प्रयुङ्क्त इति किमर्थमुक्तमित्यत आह- दुष्यति चेति । अपशब्दैः प्रयुक्तैरपशब्दं प्रयुञ्जान इति यावत् । दुष्यति दोषवान् भवति । इह जन्मनि जयं न प्राप्नोतीति यावत् । परत्र वाग्योगयुङ् न भवतीति चशब्दार्थः । इत्येवं तट्टीकानुसारेण श्लोकार्थो द्रष्टव्यः । अत एवेत्युक्तं विशदयति- तदभाव इति ।। शब्दापशब्दविभागाभाव इत्यर्थः । फलभेदकथनेति ।। समीचीनशब्दप्रयोगस्यैकः शब्द इत्यादिना स्वर्गलोके कामदोहकत्वम् अपशब्द-प्रयोगस्य ‘दुष्यति चापशब्दैः’ इति दोषापादकत्वमित्येवं वाक्यद्वयेन फलभेदकथनानुपपत्तेरित्यर्थः । अस्तु शब्दापशब्दविभागः प्रकृते व्याकरणप्रामाण्ये किमायातमित्यत आह- न चेति ।। तथा च शब्दापशब्दविभाग-ज्ञानस्य प्रयोजनत्वात्प्रयोजनाभावोऽसिद्ध इति भावः । निर्मूलकत्वादप्रामाण्यमित्युक्तं निराकरोति- अत एवे-ति ।। शब्दव्यवहारार्थं व्याकरणप्रामाण्यस्याङ्गीकार्यत्वादेवेत्यर्थः । अष्टकादीति ।। मार्गशीर्षपौषमाघफाल्गुन-(भाद्रपद)मासानां कृष्णपक्षीयसप्तम्यष्टमीनवमीषु तिस्राऽष्टकश्राद्धं कार्यमिति प्रतिपादिकानामष्टकादिस्मृतीनां किञ्चिन्मूलमप्रसिद्धमपि यथा कल्प्यते तथा अत्रापि कल्पनीयमिति निर्मूलत्वमसिद्धमिति भावः । वैदिक-पाठसंरक्षणादेः प्रयोजनत्वे कथिते तस्य शुद्धसम्प्रदायेनान्यथासिद्धिरुक्ता । तां परिहरति- प्रमादेति ।। अध्यापका-नामपि कदाचित्प्राप्तप्रमादपरिहारार्थत्वेनेत्यर्थः । सिद्धमिति ।। व्याकरणप्रयोजनत्वेन सिद्धमित्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
भाट्टोक्तं प्रवर्तकमाशङ्क्य निषेधति- न चेति ।। शब्दो लिङादिः । तद्व्यापारः पदार्थस्मृतिहेतुभूत-पदपदार्थसम्बन्धरूपशक्तिभिन्नोऽभिधाख्य इत्यर्थः । शब्दशक्तिरूपाया अभिधाया अप्रवर्तकत्वात् तद्भिन्नत्व-कीर्तनम् । न च शक्त्यतिरिक्ताभिधारूपतद्व्यापारे मानाभावः । व्यापारभिन्नस्य परनिष्ठव्यापारजनकतायाः स्वनिष्ठव्यापारपूर्वकत्वनियमादेव तत्सिद्धेः । न च दृश्वन्ताभावादुक्तनियमासिद्धिः । स्वनिष्ठस्पन्दनादिद्वारा चक्रादिस्पन्दनजनकस्य दण्डादेरेव तत्र दृश्वन्तत्वसम्भवात् । अत्र दण्डनिष्ठस्पन्दनव्यापारस्य चक्रनिष्ठस्पन्दन-रूपव्यापारजनकताया न स्वनिष्ठव्यापारपूर्वकत्वम् । तथा सति तस्यापि व्यापारस्य स्वनिष्ठव्यापारद्वारा परनिष्ठव्यापारजनकत्वप्रसक्त्या अनवस्थाप्रसङ्गात् । अतो व्यभिचारपरिहारार्थं व्यापारभिन्नस्येत्युक्तम् । व्यापारिणो दण्डादेर्न स्वनिष्ठस्पन्दनादिव्यापारजनने स्वनिष्ठव्यापारान्तरापेक्षा । तथा सति पूर्ववदनवस्थापत्तेरित्यत उक्तं परनिष्ठेति । व्यापारभिन्नस्य परनिष्ठव्यापारजनकताया व्यापारपूर्वकत्वमात्राभिधाने लिङादिशब्दस्य परनिष्ठज्ञानरूपव्यापारद्वारा परनिष्ठप्रवृत्तिरूपव्यापारजनकत्वमात्रेणाप्युक्तव्याप्तिनिर्वाहात् शब्दाश्रिताया अभिधाया असिद्धेः अर्थान्तरवारणाय स्वनिष्ठेति । तथा च शब्दनिष्ठ एवाभिधानामा शब्दव्यापार आयाति । स एव च शब्दाश्रितत्वाच्छब्दभावनेत्युच्यत इति शब्दनिष्ठपदार्थसम्बन्धातिरिक्ताभिधानामकलिङादिव्यापार-सिद्धेरिति । बालस्येति ।। सर्वत्र दृष्टान्तानुसारिण्येव कल्पना प्रभवति न त्वन्यथा अतिप्रसङ्गात् । तथा च मानान्तरनिबन्धने व्यवहारे स्वात्मनि समधिगतप्रवर्तकभावमेव शाब्दव्यवहारे चेतनप्रवृत्तिहेतुतया बालः कल्प-यितुमलम् । न च बालेन मानान्तरनिबन्धने स्वव्यवहारे शब्दस्य तद्व्यापारस्य वा हेतुभावः समधिगतोऽस्ति । (पां.टि.) तत्कथमन्यप्रवृत्तावपि लिङादिशब्दं तद्व्यापारं वा प्रवर्तकतया कल्पयेदिति भावः । ननु ध्वन्यात्मकस्य शब्दस्यापि प्रवर्तकत्वं दृष्टम् । किमु तदा वर्णात्मकस्य शब्दस्य तदित्यत आह- याऽपीति ।। अन्यथा पुरुषाभि-प्रायानभिज्ञानामपि तच्छब्दश्रवणानन्तरं प्रवृत्त्यापत्तेरिति भावः । रागद्वेषयोरिति ।। ‘प्रवर्तनालक्षणाः स्युर्दोषा रागादयश्च ते’ इत्यभियुक्तवचनादिति भावः । ननु ज्ञानान्वयव्यतिरेकात् सत्तयैवेति कथमवधारणमित्यतः सति रागादौ तज्ज्ञानव्यतिरेकेण व्यतिरेकादर्शनादित्याह- ज्ञानं त्विति ।।
कृतिसाध्येष्टसाधनताया इति ।। कृतिसाध्यत्वविशिष्टेष्टसाधनताया इत्यर्थः । ननु चैवं सति सुधाविरोधः स्यात् । तत्र चन्द्रमण्डलादौ कार्यताबुद्धिप्रसङ्गं च अतिरिक्तकार्यताया अनिरूपणेनेष्टसाधनताबुद्धेश्चेष्टतयेष्टा-पादनतया निरस्य, अतीतादौ प्रवृत्तिप्रसङ्गं च इदानीमिति विशेषणेन निरस्य कृतिसाध्यत्वविशेषणस्य वैयर्थ्य-व्युत्पादनात् । अत्र च टीकायां कृतिसाध्यत्वविशिष्टेष्टसाधनतायाः कार्यतारूपत्वाश्रयणेन तदतिप्रसङ्गद्वयपरि-हारादिति चेत्, अत्र ब्रूमः । सुधायाम्- ‘कार्यता च न काचित्स्यात्’ इत्यनुव्याख्यानानुसारेण कृतिसाध्यत्व-विशेषणवैयर्थ्यं प्रतिज्ञाय तदुपपादनाय वस्तुस्थितिमनुरुध्य प्रकारान्तरेणातिप्रसङ्गद्वयपरिहारोऽभिहितः । इह तु टीकायां कृतिसाध्येष्टसाधनतायाः कार्यपदार्थत्वप्रवर्तकत्वाभ्युपगमेऽप्यस्माकं न काचित्क्षतिः । इष्टसाधनताति-रिक्तकृत्युद्देश्यतारूपायाः कालत्रयानवमृश्व्विधिरूपाया वा पराभिमतकार्यतायाः कार्यपदार्थत्वप्रवर्तकत्व-योरनभ्युपगमाद् इत्यभ्युपगमवादेनातिप्रसङ्गद्वयपरिहार इत्यविरोधः । विस्तरस्तु वाक्यार्थचन्द्रिकायां द्रश्व्व्यः । एतेनेति ।। इष्टसाधनत्वातिरिक्तकार्यत्वाभावकथनेनेत्यर्थः । अर्थवादबलाद्विधिः कल्प्यत इति चेदिति ।। ‘प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ति’ इत्यर्थवादबलेन ‘प्रतिष्ठाकामो रात्रिसत्रं कुर्यात्’ इति विधिकल्पन-दर्शनादिति भावः । ततश्च व्याकरणादेरपि कार्यपरत्वमेवेति हृदयम् । निर्मूलत्वादिति ।। पौरुषेयवाक्यस्य मूलभूतप्रमाणमपेक्ष्यैव प्रामाण्यस्थितेरिति भावः । प्रयोजनं भवत् किं शब्दज्ञानमभिमतं वेदरक्षादिकं वेति विकल्प्याऽद्यं दूषयति- शब्दज्ञानस्येति ।। शब्दसाधुत्वज्ञानस्येत्यर्थः । यस्मिन् सत्येव यद्भवति नासति तदेव हि तस्य प्रयोजनम् । साधुत्वज्ञानं च व्याकरणं विनाऽपि लोकप्रयोगादेव जायत इति कथं तत्तस्य प्रयोजनमिति भावः । द्वितीयं दूषयति- वेदरक्षादेरिति ।। आदिपदेनोहादिपरिग्रहः । अत एवेत्युक्तस्यैव प्रपञ्चनम्- तदभाव इति ।। प्रमादपरिहारार्थत्वेनेति ।। प्रमादजत्वसम्भावनापरिहारार्थत्वेनेत्यर्थः । वर्णलोपादेरिति शेषः । अय-मर्थः । वेदानां रक्षार्थमप्यध्येयं व्याकरणम् । वर्णलोपागमवर्णविकारज्ञ एव हि वेदान् परिपालयिष्यति । इतरथा ये हि भाषायामदृष्टलोपागमवर्णविकारादयः, केवलं छन्दस्येव दृश्यन्ते, ते केवलं प्रयोगशरणानां प्रमादजाः सम्भाव्येरन् । वैयाकरणस्तु ‘लोपस्त आत्मनेपदेषु’ इति लक्षणदर्शी तदेव रूपं स्थापयति इति भवति वेदपरिपालनं व्याकरणप्रयोजनम् । विस्तरस्तु पदमञ्जर्यादौ द्रष्टव्यः ।
लघुप्रभा
(व्या.टि.)
सिद्धबोधकत्वेऽनिष्टं प्रसञ्जयति- नन्विति ।। स्वपक्षेऽनिष्टप्रसङ्गाभावं दर्शयति- कार्यस्य चेति ।। अनुवादकत्वस्य न प्रामाण्यविघातित्वम् । तस्यान्यादृशत्वेन तदविरोधादित्याह- प्रामाण्यं नामेति ।। अनुभूयते (व्या.टि.) साक्षिणेति शेषः । प्रसञ्जकप्रसञ्जनीययोर्व्याप्त्यभावं दर्शयति- अस्ति चासाविति ।। अत इति ।। अनुवादकताविरहादित्यर्थः । पुनः प्रत्यवतिष्ठते- स्यादेतदिति ।। कार्यपरत्वं न साक्षात्प्रमापकत्वरूपप्रामाण्य-व्यापकं किन्तु व्यापकव्यापकम् । अतस्तदभावाद् व्यापकाभावेन व्याप्याभाव इति वक्तुं निरुक्तप्रामाण्यमनु-वदति- यद्यपीति ।। परप्रयोजनाङ्गमेवेति ।। व्यापकतायामवधारणम् । तथा च सिद्धविषयस्य परप्रयोजनाङ्गत्वा-भावात् प्रामाण्याभाव इति भावः । प्रामाण्यस्य तद्व्याप्तिमुदाहरति- यथेति ।। व्यतिरेकमाह- नान्यदिति ।। तच्चोदाहरति- यथेति ।। तदेव कुतो नेत्यतस्तद्व्यापकाभावादित्याशयेन तद्व्यापकं दर्शयति- तदेवेति ।। साध्यं निर्दिशति- तत इत्यादिना ।। ननु कार्यपरवाक्यस्य कार्यज्ञापनमपि प्रयोजनं भवत्येव । सिद्धज्ञापनस्य सार्वत्रिकत्वादतः किमर्थं व्यर्थं सिद्धपदं प्रायोजीत्यत ओमित्याह- सिद्धेतीति ।। एवेति प्रयोजनं व्यावर्तयति । सिद्धविषयवाक्यस्य प्रकृतत्वादेवेत्यर्थः । ननु कथमनेनोक्तशङ्कापरिहारः प्रयोजनानुपन्यासादित्यतोऽभिसन्धि-मुद्घाटयति- ततश्चैवमिति ।। प्रयोजनमिति ।। साक्षादिति शेषः । निदर्शयति- छिदेति ।। अन्यत् किं नोच्यत इत्यत आह- न हीति ।। न साध्यमात्रं तत्प्रयोजनम् ‘पुरोडाशकपालेन तुषानुपवपति’ इति श्रुततुषोपवापस्यापि कपालसाध्यस्य तत्प्रयोजनत्वापत्तेः । न चेष्टापत्तिरिति वाच्यम् । तस्यानुनिष्पादितत्वेनाप्रयोजकत्वमिति चातुर्थि-काधिकरणसिद्धान्तात् । किन्तूद्देश्यत्वे सति साध्यम् । अतः कथमेवमुक्तमित्यतः, तत्साधनस्य तदेव प्रयोजन-मिति वक्तव्ये ततोऽन्यन्नेत्युक्तम् । तेन साध्यमात्रस्य प्रयोजनत्वाभावेऽपि प्रयोजनस्य साध्यत्वमस्त्येवेत्युक्तं भवति ।
अथ वा सिद्धज्ञापनमेव सर्ववाक्यसाधारणं प्रयोजनम् । कार्यस्यापि सिद्धविशेषत्वादित्याह- अथ वेति ।। ननु सिद्धं न साधनार्हमिति कार्यत्वसिद्धत्वयोः परस्परपरिहारेणैव वृत्तेः कथं कार्यं सिद्धविशेष इत्यत आह- इष्टसाधनलक्षण इति ।। तथा हि । ‘कृतिसाध्यं प्रधानं यत्तत्कार्यमभिधीयते’ इति हि परोदितं कार्यलक्षणम् । तत्र हि कृतिसाध्यत्वे सति कृत्युद्देश्यत्वमिति विशिष्टमेकं लक्षणं प्रत्येकमतिव्याप्तेः । तत्रोद्देश्यं मुख्यममुख्यं वा । आद्यं त्विष्टमेव । द्वितीयं तु नेष्टसाधनाद्भिद्यत इति सिद्धं कार्यस्यापि सिद्धविशेषत्वमिति भावः । रीत्यन्तरेणापि सिद्धपदं व्याचश्व्े- यथावस्थितेति ।। यथावस्थितज्ञापनं साक्षाद्वाक्यप्रयोजनं भवदपि न स्वयमेव प्रयोजन-मित्यर्धाङ्गीकारेण शङ्कते- सत्यमेतदिति ।। तच्छब्दपरामृश्व्ं दर्शयति- यज्ज्ञानमिति ।। यस्येति विग्रहः । (पर)प्रवृत्तिनिवृत्त्यजननेऽपि कुतो न ज्ञापनीय इत्यत आह- परप्रवृत्तिनिवृत्तीति ।। एवकारव्यवच्छेद्यमाह- न केवलेति ।। भाट्टमतमनूद्यावद्यति- न चेति ।। शब्दो लिङादिः । तद्व्यापारो भावना । सर्वेषामपीति ।। व्युत्पत्तिविधुराणामपीत्यर्थः । तथा चान्वयव्यभिचारः सिद्धः । व्यतिरेकव्यभिचारं चाऽह-बालस्येति ।। ननु कथं शब्दस्य न प्रवर्तकत्वम्, शङ्खादिशब्दश्राविणां प्रवृत्तिदर्शनादित्यत आह- याऽपीति । अभिप्रायेति ।। प्रवृत्तिनिवृत्त्यभिप्रायेत्यर्थः । ननु रागद्वेषयोरपि प्रवर्तकत्वात्तावपि वाक्यबोध्यौ स्यातामिति किं वाक्यस्य कार्य-परताग्रहेणेत्यत आह- रागद्वेषयोरिति ।। अस्तीति ।। ‘प्रवर्तनालक्षणा दोषाः’ इति सूत्रादिति भावः । (व्या.टि.) आत्मविशेषगुणानां ज्ञातैकसत्त्वाज्ज्ञाता एव प्रवर्तका भवेयुरित्यत आह- ज्ञानं त्विति ।। अवर्जनी-येति ।। अन्यथासिद्धेर्न तत्त्वेन कारणत्वमित्यर्थः । प्रसक्तप्रतिषेधं विधायान्यस्याप्रसङ्गात्परिशेषं विधत्ते- अत इति ।। उपसंहरति- अत एवेति ।। लिङादिरहित इति ।। ‘तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति’ इत्यादौ मीमांसकैस्तथा व्याकरणादिति भावः । लक्षणा वेति ।। समिधादिवाक्येषु वर्तमानापदेशेषु लिङर्थे लक्षणाऽश्रयणादिति भावः । उत्तरं प्रतिजानीते- उच्यत इति ।। आक्षेपं प्रतिक्षिपति- नायमिति ।। यत्रेति ।। ‘पुत्रस्ते जातः’ ‘पिता ते राजा वर्तते’ इत्यादौ । सुखदुःखावाप्तिहानी इति ।। क्रमेणान्वयः । पुरुषापेक्षितं हि प्रयोजनं भवति । अन्यस्यानिरूपणात् । पुरुषश्चेष्टावाप्तिमनिष्टनिवृत्तिं चापेक्षते न प्रवृत्तिनिवृत्ती, तयोः क्लेशरूप-त्वात् । अतो न तयोर्मुख्यप्रयोजनतेति भावः । तथाऽपि न सार्वत्रिकप्रयोजनं सिद्धज्ञापनमित्यत आह- यत्रापी-ति ।। ‘क्षुधित ओदनं पचेत्’ इत्यादौ । निवर्तते, तत इति शेषः ।
‘किन्तु स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् ।
फलसाधनता तत्र कारणं तेन कार्यता ।।’
इति प्राभाकरोक्तं मनसि निधाय शङ्कते- तस्यापीति ।। ‘कार्यता च न काचित्स्यादिष्टसाधनतां विना’ इत्यनु-व्याख्यानोक्तयुक्तिं वक्ति- इष्टसाधनतातिरिक्तायामिति ।।
‘फलसाधनता नाम या सा नैव हि कार्यता ।
कार्यता कृतिसाध्यत्वं फलसाधनता पुनः ।
कारणत्वं फलोत्पादे ते भिद्येते परस्परम् ।।’
इति तच्छ्नलोकं मत्वा वादी वक्ति- चन्द्रमण्डलादाविति ।। समाधत्ते- सत्यमिति ।। कृतिसाध्येष्टसाधनताया इति ।।
नन्वेतदयुक्तम् । ‘लिङाद्यर्थस्त्विष्टसाधनत्वमेव’ इति कर्मनिर्णयमूले इष्टसाधनतामात्रस्य लिङर्थत्वोक्त्या ‘न वयं सिद्धमात्रं कार्यं ब्रूमः किन्त्विष्टसाधनत्वं सिद्धविशेषः कार्यत्वम् । तदेव धात्वर्थनिष्ठं लिङाद्यर्थः’ इति तत्र तट्टीकायाम् इष्टसाधनताया एव लिङर्थत्वोपपादनेन तद्विरोधात् । इष्टसाधनतातिरिक्तकार्यतानिषेधपरेण ‘कार्यता च न काचित्स्यादिष्टसाधनतां विना’ इत्यनुव्याख्यानेन ‘कृतिसाध्यताविशेषणस्य व्यर्थत्वात्’ इति सुधया च विरोधात् । कृतिसाध्येष्टसाधनतायाः लिङर्थत्वे इष्टसाधनतायाः कृत्युद्देश्यतानतिरिक्तत्वेन पराभ्युप-गताङ्गीकारापाताच्चेति चेत्, न । एतद्वचनस्य प्रवर्तककार्यतापरत्वात् । कर्मनिर्णयादेश्च लिङर्थकार्यतापर-त्वात् । नापि परमताङ्गीकारापत्तिः । परैरस्या एव लिङर्थत्वोपगमात् । प्रवर्तकत्वं तु कृतिसाध्येष्टसाधनतायाः सम्मतमेव । ‘कृतिसाध्यतैकार्थसमवेतेष्टसाधनताज्ञानादेव प्रवृत्त्युपपत्तेः’ इति कर्मनिर्णयटीकोक्तेः । अन्यथाऽ-नुपपत्तेश्च । अधिकं तु तर्कताण्डवेऽनुसन्धेयम् । एतच्चाभ्युपेत्योक्तम् । वस्तुतस्तु इष्टसाधनताज्ञानमेव प्रवर्त-(व्या.टि.) कम् । अतीतादावतिप्रसङ्गस्तु कृतिसाध्यत्वविशेषणेऽपि तुल्य एव । इदानी कृतिसाध्यं नेति तु इदानीम् इष्टसाधनमपि नेति तुल्यम् । चन्द्रमण्डलादौ प्रवृत्तिप्रसङ्गस्तु बलवदनिष्टानुबन्धित्वज्ञानस्येव कृत्यसाध्यता-ज्ञानस्य प्रतिबन्धकत्वादेवायुक्तः । एतेन वैयाकरणभूषणे कृतिसाध्यताविशेषणवैयर्थ्यपरसुधावाक्यानि यथा-न्यासमनूद्य चन्द्रमण्डलादौ प्रवृत्तिप्रसङ्गाभिधानम्, इष्टसाधनत्व इदानीमिति विशेषणस्य तन्निरासकत्वमनभि-मतमाशङ्क्य विकल्प्य दूषणाभिधानं च निरस्तम् । कृत्यसाध्यताज्ञानस्य प्रतिबन्धकत्वात् । अतीतादावति-प्रसङ्गस्यैवेदानीमिति विशेषणेन निरासात् ।
तस्य च साधनत्वविशेषणत्वसम्भवात् । अत एवेति ।। कृतिसाध्यत्वविशेषणादेवेत्यर्थः । सिद्धिप्रकारं दर्शयति- बालेन हीति ।। निगमयति- अत इति ।। प्राभाकरः शङ्कते- तत्रापीति ।। कल्पकाभावादिति ।। सर्वस्य कार्यपरत्वं तत्कल्पकतयेष्टम् । तस्यैवाभावादित्यर्थः । निर्मूलत्वादिति ।। पौरुषेयप्रमाणस्य हि मूल-प्रमाणेन भवितव्यम् । न चास्य मूलं दृश्यत इत्याशयः । प्रयोजनं भवच्छब्दज्ञानं वा ‘रक्षोहागमलघ्वसन्देहाः प्रयोजनम्’ इति महाभाष्यदिशा वेदरक्षादिकं वेति विकल्प्याऽद्यं निराह- शब्दज्ञानस्येति ।। प्रयोगादेवेति ।। तस्य सिद्धान्वाख्यानरूपत्वादित्यर्थः । द्वितीयं पराचश्व्े- वेदरक्षादेश्चेति ।। सम्प्रदायेनैवेति ।। सम्प्रदाय उपदेशपरम्परा । शाब्दव्यवहारपदस्य स्वारस्यमाह- अपशब्देति ।। ‘मुख्यामुख्ययोर्मुख्ये सम्प्रत्ययः’ इति न्यायेन शब्दशब्देन सुशब्दा एवोच्यन्ते । ‘असाधारण्येन व्यपदेशा भवन्ति’ इति न्यायेन सुशब्दैरेव क्रियमाणो व्यवहारः शाब्दव्यवहार इति निरुक्तिमभिप्रेत्यावधारणतात्पर्यमाह- अपशब्दासङ्कीर्णशब्दैर्निर्वर्त्य इति ।। फलभेदेति ।। कामधुगिति दुष्यति चेति स्वर्गप्रत्यवायरूपेत्यर्थः । विना व्याकरणादिति ।। ‘पृथग्विना-नानाभिस्तृतीयाऽन्यतरस्याम्’ इत्यन्यतरस्यां ग्रहणस्यानुवृत्तसमुच्चयार्थत्वात्पञ्चमी । अत एवेति ।। फलवत्त्वे-नोपादेयत्वसिद्धेरित्यर्थः । अष्टकादिस्मृतिवदिति ।। अष्टकाः पितृदैवत्याः इष्टयः ‘अष्टका पितृदैवत्ये’ इति निपातनात्, तद्वाचकत्वात्स्मृतेरपि ताच्छब्द्यम् ‘अयं वै लोकः प्रथमा महानाम्नी’ इतिवदिति बोध्यम् । वेदरक्षादिकमिति ।। व्याकरणप्रयोजनत्वेनेति शेषः । वेदरक्षायै व्याकरणम् इति वेदेनैवोक्तम् । तथा हि यजुर्वेदे ६कां.४-प्र.सप्तमानुवाके ‘वाग्वै पराच्यव्याकृताऽवदत्’ इत्यारभ्य ‘तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्’ इत्यन्तेन स्पश्व्ं प्रतीयते ।